।।श्रीजानकीवल्लभो विजयते।।
अथ सोमाकरसुधाकरभाष्याभ्यां सहितम्

याजुषज्यौतिषं प्रारभ्यते

पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्।

दिनर्त्त्वयनमासाङ्गं प्रणम्य शिरसा शुचि:।।1।।

ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वश:।

सम्मतं ब्राह्मणेन्द्राणां यज्ञकालार्थसिद्धये।।2।।

सोमाकर: - अव्याकृताद्याकृतं यत् तदाद्यं

त्रय्यात्मकं शब्दराशिं विशिष्टै:।

कालस्येदं कारणं यज्ञसारं

भोगावाप्ते: साधनं सम्प्रणम्य।।1।।

देशस्य कालस्य विपर्ययाद्य -

दुत्पन्नार्थं चाङ्गमाद्यं तु शास्त्रम्।

ज्यौतिषं नामाकुलकं प्रधानं

सोमाकरोऽहं विवृणोमि शक्त्या।।2।।

लब्ध्वा ज्ञानं प्रातिभं बुद्धियोगात्

तद्वच्च भाष्यप्रचयोऽस्य नास्ति।

सर्वज्ञता नास्ति ममेति मत्त्वा

ज्योतिर्विदो (ज्योतिर्वदोऽन्यान् इति पाठान्तरम्)

नृन् प्रणिपत्य मूर्ध्ना।।3।।

यस्मादहं स्वप्रभावात् प्रवृत्तो -

ऽहोरात्रीये गणिते चाप्रगल्भ:।

तस्मादन्ये वस्तुसारं विदित्वा

कृत्स्नार्थाप्त्यै कल्पयिष्यन्ति शेषम्।।4।।

पञ्चसंवत्सरमयमिति। एतेन श्लोकद्वयेन शास्त्रकारोऽभिधेयभूतामिष्टदेवतां नमस्कृत्य वस्तूपन्यासं करोति। तद्यथा। शुचिरहं वाङ्मन: कायशुद्धो ज्योतिषामयनं सूर्यचन्द्रनक्षत्राणां गमनं प्रवक्ष्यामि कथयिष्यामि। कथम्। अनुपूर्वशो यथाक्रमेणेत्यर्थ:। कीदृशम्। पुण्यम्। यागकालविधिज्ञानतया पापापहम्। तथा सम्मतं ब्राह्मणेन्द्राणाम्। यजमानानामभिप्रेतम्। एते वैयज्ञस्येन्द्रा इति श्रुते:। किमर्थम। यज्ञकालार्थसिद्धये। याग चोदितकालविधानार्थमित्यर्थ:। किं कृत्वा। प्रणम्य। नमस्कृत्य। कम्। प्रजापतिम्। स्रष्टारम्। केन। शिरसा। उत्तमाङ्गेन। कीदृशम्। पञ्चसंवत्सरमयम्। संवत्सरपरिवत्सरेदावत्सरानुवत्सरेद्वत्सरात्मकम्। तथा युगाध्यक्षम्। कृतादीनां वैष्णवबार्हस्पत्येन्द्राग्नित्वाष्ट्राहिर्बुध्न्यपित्र्यसौम्यवैश्व -  देवसर्पार्यम्णदास्रभाग्यान्तानां द्वादशानां च स्रष्टारम्। तथा दिनर्त्त्वयनमासाङ्गम्। कालावयवा दिनादयो मुहूर्त्तकालपुरुषस्याङ्गानि। तथा स एष संवत्सर: प्रजापति: षोडशकलस्तस्याहोरात्रय एव पञ्चदशकला ध्रुवैकास्य षोडशी कलेति। मासाश्चार्धमासाश्च परूंषि ऋतवोऽङ्गानि संवत्सरो महिमेति। एवमहं प्रवृत्त इत्यर्थ: ।।1-2।। 

सुधाकर:- 'पञ्चसंवत्सरमययुगाध्यक्षं'  इति पाठ: साधु:।

अहं शुचि: पवित्रो भूत्वा वा शुचिनामा ज्योतिषां ज्यौतिषशास्त्राणामयनं स्थानं निधिरूप निबन्‍धम्। अनुपूर्वशो यथाक्रमम्। प्रवक्ष्यामि कथयिष्यामि। किमर्थम्। यज्ञकालार्थसिद्धये। ज्योतिष्टोमादीनां यज्ञानां ये कालास्तदर्थानां या सिद्धिस्तस्यै। किं कृत्वा। प्रजापतिं ब्रह्माणम्। शिरसा मूर्ध्ना प्रणम्य प्रणिपातपूर्वकं नमस्कृत्य। किं विशिष्टं ब्रह्माणम्। पञ्चसंवत्सरमययुगाध्यक्षम्। पञ्चसंवत्सरात्मकं  यद्युगं तदध्यक्षं तदधिपतिम्। पुन: किंविशिष्टम्। दिनर्त्त्वयनमासाङ्गम्। दिनानि ऋतव: अयने मासाश्चैवाङ्गानि यस्य तम्। किंविशिष्टं ज्योतिषामयनम्। पुण्यं पवित्रं पुण्योत्पादकमित्यर्थ:। पुन: किंविशिष्टम्। ब्राह्मणेन्द्राणां ब्राह्मणेषु श्रेष्ठानां सम्मतं ज्योर्तिर्विद्भि: स्वीकृतमित्यर्थ:।।1-2।।

वेदा हि यज्ञार्थमभिप्रवृत्ता: 

कालानुपूर्वा विहिताश्च यज्ञा:।

तस्मादिदं कालविधानशास्त्रं यो 

ज्यौतिषं वेद स वेद यज्ञम् (यज्ञान् इति पाठ: साधुः) ।।3।।

सोमाकर:- वेदा हि यज्ञार्थमिति। वेदा ऋग्वेदादय: किल यस्माद्यज्ञार्थमभिप्रवृत्ता: प्रगता उत्पन्ना:

यथा च स्मृति:।

अग्निवायुरविभ्यश्च त्रयं ब्रह्म सनातनम्।

दुदोह यज्ञसिद्ध्यर्थमृग्यजु: सामलक्षणम्।।

तथा कालानुपूर्वा विहिताश्च यज्ञा:। दिनर्त्त्वयनेषु यज्ञा विहिता विभक्ता: श्रुता:। यथाह। पुण्याहे दीक्षा वसन्ते ज्योतिष्टोमेन यजेत यजेत वाजपेयेन ग्रीष्मे इति। तथा पञ्चशारदीय(पञ्चशारदीयो वा एष यज्ञ इति। (तैत्तिरीयब्राह्मणम्, अष्टकः 2, अध्यायः 7, अनुवाक 11) इति। तस्मादिदं कालविधानशास्त्रम्। अनेन हि कालावयवा विज्ञायन्ते। यो ज्यौतिषं वेद स वेद यज्ञम्। ज्योति: शास्त्रज्ञ: कालस्वरूपज्ञ:। तथा यथोक्तयज्ञफलभाग्भवतीत्यर्थ:। न वै शुविदुरिव मपुष्यनक्षत्रमि‍ति श्रुति: (न वै सुविदुरिव नाम पुष्यनक्षत्रमिति श्रुति:-इति पाठ: साधु:) तथा। ते असुरा अयाज्ञज्ञ अदक्षिणा अनक्षत्रा यच्च किञ्चाकुर्वत तां कृत्यामेवाकुर्वतेति।

तथा च परिशिष्टकृत्।

मन्त्रपादपदसन्धिविधिज्ञो धातुनामवचनप्रकृतिज्ञ:।

इदृशो भवति यज्ञविधिज्ञ: पक्षमासतिथिचन्द्रगतिज्ञ:।।इति तृतीय:।।3।।

सुधाकर: - अस्य ज्यौतिषशास्त्रस्य कथं वेदाङ्गत्वमित्याशङ्क्याह वेदा हीति। हि यतो वेदा यज्ञार्थमभिप्रवृत्ता: सन्ति। यज्ञाश्च कालानुपूर्वा: कालाधीना: सन्ति। तस्मादिदं ज्यौतिषं कालविधानशास्त्रं कालविधिशिक्षकं यो वेद जानाति स वेदाङ्गज्ञानाद् यज्ञान् दर्शपौर्णामासादीन् वेद जानाति। कालविधायकत्वादस्य किल वेदाङ्गत्वं सिद्धम्। वेदाङ्गत्वादवश्यमेव द्विजैरध्येतव्यमिति।

तथा च सिद्धान्तशिरोमणौ भास्कर:।

वेदास्तावद्यज्ञकर्मप्रवृत्ता

यज्ञा: प्रोक्तास्ते तु कालाश्रयेण।

शास्त्रादस्मात् कालबोधो यत: स्याद्

वेदाङ्गत्वं ज्यौतिषस्योक्तमस्मात् - इति ।।3।।

यथा शिखा मयूराणां नागानां मण्यो यथा।

तद्वद्वेदाङ्गशास्त्राणां गणितं (ज्यौतिषं-इति पाठान्तरम्) मूर्धनि स्थितम्।।4।।

सोमाकर: - यथा शिखेति। यथा मयूराणां शिखा चूलिका मूर्धनि तिष्ठति। शिरसि यथा नागानां सर्पाणां मणयो रत्नानि। तद्वदत्र वेदाङ्गशास्त्राणां गणितं क्षत्रसंख्याविज्ञानं देवयजनादीनाम्।

यथाऽऽह विष्णु:।

इष्टका शोषपाकाभ्यां त्रिंशत् मात्रा तु हीयते।

तत् क्षेत्राणि चतुर्भागं विहीने दापयेच्छिर:।। इति। एवमधिकृत्याभिधेयमाह।।4।।

सुधाकर: - इदानीं स्कन्धत्रयात्मकज्यौतिषशास्त्रे गणितं प्रशंसते। यथा शिखेति। यथा मयूराणां शिखा मयूरशिरसि स्थिता। यथा नागानां सर्पाणां मणयस्तच्छिरोरूपफणासु स्थिता: सन्ति। तद्वत् तथा वेदाङ्गशास्त्राणां व्याकरणनिरुक्तकल्पशिक्षाछन्दसां शिर:सु गणितं ज्यौतिषं स्थितमस्ति। सर्वत्र वेदाङ्गेषु संख्याव्यवहारात् संख्याविधानप्रतिपादकं गणितशास्त्रमेव प्रधानमिति।।4।।

ये बृहस्पतिना भुक्ता मीनात् प्रभृति राशय:।

ते हृता: पञ्चभिर्याता: य: शेष: स परिग्रह:।।

सुधाकर: - इदानीं पञ्चवर्षात्मकयुगे संवत्सरानयनमाह। ये बृहस्पतिनेति। बृहस्पतिना गुरुणा ये मीनात् प्रभृति मीनराशे: सकाशात राशयो भुक्तास्ते पञ्चभिर्हृता लब्धा याता युगसंख्या ज्ञेया। य: शेष: स वर्त्तमाने युगे परिग्रहो ग्राह्य इति। अत्र पञ्चवर्षात्मकयुग एव सर्वा गणनाऽत इदं पद्यं क्षेपकम्। बृहस्पतिभुक्तराशीनां पञ्चाल्पत्वात् सोमाकरभाष्येऽस्य पाठाभावाच्चेति स्फुटं ज्योतिर्विदामिति।

माघशुक्लप्रपन्नस्य पौषकृष्णसमापिन:।

युगस्य पञ्चवर्षस्य कालज्ञानं प्रचक्षते ।।5।।

सोमाकर: - माघशुक्लप्रपन्नस्येति। एवमिह ज्योतिर्विद: कालज्ञानं तत्स्वरूपप्रतिपादनं प्रचक्षते कथयन्ति। कस्य। युगस्य। कीदृशस्य। पञ्चवर्षस्य। संवत्सरादीनां चैकीकृत्य यतश्चत्वारि मानानि वक्ष्यमाणानि सौरसावनचान्द्रार्क्षाणि। तेषां च यत: परस्परवैषम्येण कालवैषम्यम्। यत: सावनस्य संवत्सरस्य प्रकृत्यैव षड्दिनानि लुप्यन्ते सौरमानापेक्षया चान्द्रमानापेक्षया षड्दिनानि वर्धन्ते युगे च तानि त्वधिकमासाभ्यां पूर्यन्ते। यतस्तौ द्वौ युगमध्ये भवत:। ते च युगाद्वादश वैष्णवबार्हस्पत्यैन्द्राग्नित्वाष्ट्राहिर्बुध्न्यपित्र्यसौम्यवैश्वदेवसार्पार्यण्मदास्रभा ग्या: (बृहत्संहितानुसारेण पित्र्यवैश्वदेवसौम्यसक्रानलदास्रभाग्यान्तानाम्-इति पाठः साधुः)। तै: षष्ट्यशब्‍दनिष्पत्तिस्तत: काम्यं भवति। सौरमानापेक्षया तस्य कुत: प्रवृत्तिरित्याह माघशुक्लेति। तदादिकालगणनेत्यर्थ:। 

तथा च लौगाक्षि:।

माघ्या: पौर्णामास्याश्चतुरहे संवत्सराय दीक्षन्त इति।

तथा च गर्ग:।

कालज्ञानं महत्पुण्यं कालश्चादित्य उच्यते।

स च माघस्य शुक्लस्य सोमवासवयो: सह।।

सहोदयं श्रविष्ठाभि: प्रस्थमह्नामुदङ्मुखे। इति।

एवमेव पौषकृष्ण्समापिन:। ततस्तदा तस्य समापनं पञ्चानामन्ते एव। अत: शुक्लपक्षादिकालप्रवृत्तिरिति सिद्धं भवति यत:। एवमतोऽधिमासमृतानां कृष्णपक्षादिकालप्रवृत्त्यपेक्षयैव मृताहानुष्ठानं कुर्वन्ति।

तथा च गर्ग:।

तेषां च सर्वेषां नक्षत्राणां कर्मसु कृत्तिका: पथमाचक्षते। श्रविष्ठा तु संख्याया: पूर्वा लग्नानाम्। अनुराधं पश्चिमम्। विघ्नानां (विद्यानां-इति पाठ: साधु:) रोहिणी सर्वनक्षत्राणाम्। मघा: सौर्याणाम्। भोग्यानां चार्यमा। नक्षत्राणां सर्वासां (सर्वेषां-इति पाठ: साधु:) षड्राशीतानामादि: श्रविष्ठा। एवं पञ्चवर्षस्य युगस्यादि: संवत्सर:। वसन्त ऋतूनाम्। माघो मासानाम्। पक्षाणां शुक्ल:। अयनयोरुत्तरम्। दिवसानां शुक्लप्रतिपत्। मुहूर्तानां रौद्र:। करणानां किंस्तुघ्न:। ग्रहाणां ध्रुव इति। ननु कथमेषा शातपथी श्रुति:-या वैषा फाल्गुनी पौणार्मासी संवत्सरस्य प्रथमा रात्रि:। योत्तरा सा पूर्वमुत्तमेति मानुषाणां च विषयापेक्षया यतस्तेषां यथा चोदनास्ते फाल्गुन्यां पौर्णमास्यां लभन्त इति। ततो नैतेषां नैसर्गिकी (सत्सङ्गिकी-इति पाठान्तरम्) कालव्यवस्था। यस्मादघमर्षणसूक्ते -

अहो रात्रं सूर्या चन्द्रमसां (ऋक्षसूर्याचन्द्रमसां-इति पाठ: साधु:) पुरा कल्पव्यवस्थया।

कालानं च स्थिति: प्राप्ता या सा (क्षे) चेहावधार्यते-इति ।।5।।

सुधाकर: - इदानीमनाद्यन्तकालेऽत्र कियत्कालपर्यन्तं गणनेन्याशङ्क्याह माघशुक्लेति। अत्र दैवज्ञा: पञ्चवर्षात्मकयुगस्य  मध्ये कालानां चान्द्रसौरसावननक्षत्राणां ज्ञानं प्रचक्षते कथयन्ति। किंविशिष्टस्य। माघशुक्लप्रपन्नस्य माघशुक्लप्रतिपदि समुद्भूतस्य। पुन: किंविशिष्टस्य। पञ्चमे वर्षे पौषकृष्णसमापिन: पौषकृष्णामायां यस्य समाप्तिर्भवति तस्य। अत्र चान्द्रा मासा गृह्यन्ते येषामारम्भ: शुक्लादि: समाप्तिस्तु दर्शान्ते।।5।।

स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ।

स्यात् तदादियुगं माघस्तप: शुक्लोऽयनं ह्युदक्।।6।।

सोमाकर: - स्वाराक्रमेते सोमार्काविति। स्वर्दिवं यस्मिन् काले आक्रमेते व्याप्नुत:। कौ। सोमार्कौ। कस्य साकं सह। तथा सवासवौ धनिष्ठायां नक्षत्र इत्यर्थ:। तथा च तत्र यदि बृहस्पतिरास्ते। तदा किमित्याह। स्यात् तदादियुगम्। तदादियुगप्रारम्भो भवेत्। तथा तदैव माघो मास ऋतुर्वा भवेत्। तथा स एव तपो मासो भवेत्। तपश्च तपस्य श्चेति श्रुतौ। (तपश्च तपस्यश्च शैशिरावृतू इति। (तैत्तिरीयसंहिता, अष्टकः 4, अध्यायः 4, अनुवाक् 11) तथा शुक्ल: पक्ष इति वाक्यशेष:। तथा तदेव यस्मादुदगयनं भवेदिति प्रतिज्ञा। ननु यद्येवं कथमृतूनां वसन्तो जायते आद्यस्तत्पूर्वा: सर्वा: श्रुतय इति। उच्यते। तास्तु वर्णानां क्रमानुष्ठानाभिधायकत्वेन प्रवृत्ता:। यस्माच्छिशिरस्यैवाद्यं जन्म श्रूयते। शिशिराग्रे अग्नेर्जन्मति। तस्मादग्निरभिसृज्यतेऽभ्याजमाग्निजन्म यत: स्वयमनभिव्यक्तरूपमासीत् पश्चाच्च तेषामभिव्यक्तिं गतस्ततोऽस्य पश्चिमजन्मैतदित्यभिगतत्वादत एवात्र सर्ववर्णानां कर्माधिकारस्तस्मात्तदाद्यैव मुख्यप्रवृत्तिस्तथाप्येवम्।।6।।

सुधाकर: - इदानीं कस्य माघस्य शुक्लप्रतिपदि पञ्चवर्षात्मकयुगस्यारम्भ इत्याह स्वराक्रमेते इति। यदा सवासवौ धनिष्ठानक्षत्रसहितौ सोमार्कौ चन्द्रसूर्यौ साकं सह स्वराकाशे आक्रमेते गच्छतस्तदाऽऽदियुगं भवति। अत्रैतदुक्तं भवति। "यदा रविन्द्रधनिष्ठानां क्रान्तिवृत्ते ह्येकमेव स्थानं तदाऽऽदिर्युगस्य। न ह्यत्र धनिष्ठाचन्द्रसूर्यबिम्बानां युतिरपेक्षिता। ज्यौतिषसिद्धान्ते सर्वत्र दशार्दिशब्देन स्थानीययुतिग्रहणात्" इति बार्हस्पत्यमतम् (ज्योतिषवेदाङ्गविषये बार्हस्पत्यनामा कवि: सन् 1906 वर्षीयहिन्दुस्तानरिव्यू नामके मासिकपत्रे मार्चमासात् नोवेम्बरमासपर्यन्तमाङ्गलभाषायां स्वमतं विलिलेख इति सुधाकरः लिलेख)। कस्यचिद्विशिष्टकालस्य नाम युगमिति प्रसिद्धम्। अतो यस्मिन् काले बिम्बाभिप्रायेण त्रयाणां युतिर्जाता स एव युगादिरिति बहूनां मतम्। क्रान्तिवृत्तस्य समा: सप्तविंशतिभागा एव ज्यौतिषवेदाङ्गे नक्षत्राणि। अतोऽग्रिमश्लोकेन श्रविष्ठापदेन क्रान्तिवृत्ते तत्स्थानमेवापेक्षितमतोऽत्र बार्हस्पत्यमतमेव समीचीनमिति मन्मतम्। यदा युगादिस्तदैव माघो माघादि:। य एव माघ: स एव तप:। माघस्तपश्चैकार्थवाचिनौ शब्दावित्यर्थ:। तप:शब्देन तपो नाम ऋतुरिति बार्हस्पत्यमतं मन्मते न साधु। तपश्च तपस्यश्च शैशिरावृतू इति श्रुते:। यदा युगादिस्तदैव शुक्लपक्षादि:। तथा हीति निश्चयेनोदगयनमुदगयनादिश्चेति।।6।।

प्रपद्येते श्रविष्ठदौ सूर्याचन्द्रमसावुदक्।

सार्पार्धे दक्षिणार्कस्तु (दक्षिणार्कस्य इति पाठ: साधु:) माघश्रावणयो: सदा।।7।।

सोमाकर: - प्रपद्येते श्रविष्ठादाविति। सर्वेषु युगेषु सूर्याचन्द्रमसावुदक् प्रवृत्तिं प्रपद्येते। श्रविष्ठादौ प्रथमेऽशे। तथा सार्पार्धे श्लेषामध्ये ग्रीष्मान्ते सूर्यो दक्षिणां प्रपद्यते। एवं तस्यायने माघश्रावणयो: सर्वकालं पञ्चस्वपि संवत्सरेष्वित्यर्थ:। एवं भूतस्य।।7।।

सुधाकर: - इदानीमयने आह प्रपद्येते इति। सूर्याचन्द्रमसौ यदा श्रविष्ठादौ धनिष्ठादौ प्रपद्येते तदोदक् उत्तरमयनम्। तथा तौ यदा सार्पार्धे श्लेषार्धे तदा दक्षिणा दक्षिणमयनं भवति। सदा सर्वदाऽर्कस्य सूर्यस्य माघश्रावणयोस्ते उदग्दक्षिणायने भवत:।

अत्रोपपत्त्यर्थं तावज्ज्यौतिषवेदाङ्गसम्बन्धिनो रविभगणादय: प्रदर्श्यन्ते। वराहमिहिरकृतपञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते ये रविभगणादयो विलिखितास्त एव ज्यौतिषवेदाङ्गीया इति (मत्कृता पञ्चसिद्धान्तिकाटीका विलोक्या)।।

तत्रैकस्मिन् युगे रविवर्षाणि             =5= एतावन्त एव रविभगणा:।

                        सौरमासा:   =60 सौरदिनानि = 1800

                        चान्द्रमासा:  =62 चान्द्रदिनानि = 1860

                        क्षयाहा:         = 30

सावनदिनानि                             = 1830

भभ्रमा वा नक्षत्रोदया:                      = 1835

चन्द्रभगणा:                              = 67

चन्द्रसावनदिनानि                         = 1768

एकस्मिन् सौरवर्षे सावनदिनानि              = 366

एकस्मिन् सौरवर्षे चान्द्रदिनानि               = 372

एकस्मिन् सौरवर्षे नक्षत्रोदया:                = 367

अथैकस्मादयनाद् द्वितीयायनपर्यन्तं सौरदिनानि = 180

एते सौरांशा वा सौरदिनानि एकनक्षत्रभोगेन त्रयोदशांशै: सत्र्यंशैः र्भक्ता लब्धान्ययनयोरन्तरे नक्षत्राणि = = =   श्रविष्ठादिगणनया जातं द्वितीयमयनं श्लेषार्धेऽत उपपन्नम्। यद्वाऽयनाद् द्वितीयायनपर्यन्तं सौरवर्षार्धं तत्र रवे: सप्तविंशयर्धमितानि नक्षत्राणि पूर्वागतनक्षत्रसमानि। माघे धनिष्ठागतत्वाद्रवेरुत्तरमयनम्। श्लेषाधर्गतत्वेन र्किर्कराशिगतत्वाच्च श्रावणे मासि तस्य दक्षिणमयनमिति स्‍फुटम्।।7।।

घर्मवृद्धिरपां प्रस्थ: क्षपाह्रास उदग्गतौ।

दक्षिणेतौ विपर्यास: षण्मुहूर्त्त्ययनेन तु।।8।।

सोमाकर: - घर्मवृद्धिरपां प्रस्थ इति। तस्य सूर्यस्य उदग्गतौ निमित्ते घमर्वृद्धिर्भवतीति वाक्यशेष: घर्म इत्यहर्नाम। घर्म:। घ्रंस: (घस्रं इति पाठ: साधु:)। घृणि:। इत्यहर्नामसु पठितम्। तथा क्षपाह्रास:। रात्रि:। ज्ञपा। श्यावी। शर्वरी। इति रात्रिनामसु पठितम्। तदाप्रभृति दिनानि वर्धन्ते रात्रिश्चापचीयते (रात्रिश्चापक्षीयते इति पाठान्तरम्)। एवमेव तस्य द्वक्षिणेतौ विपर्यास:। दक्षिणायने दिनह्रासो रात्रिवृद्धिश्चेत्युक्तं भवति। कियती वृद्धिरित्याह षण्मुहूर्त्ती षणमुहूर्त्ता:।

तथा च गर्ग:।

उदग्गतेऽर्के षण्मासास्तपादीनार्कमानजा:।

क्रमादेद्रात्रय: षट्संख्या दिनवृद्धिमिति।।

उदग्गतेऽर्के षण्मासास्तपाद्या अर्कमानजा:।

क्रमादह्नां मुहूर्ता: स्यु: षट्संख्या दिनवृद्धये।।

एवमयने वृद्धिह्रासौ। तथा च सापि कियतीत्याह। प्रस्थो द्वात्रिंशत्पुलाकमित्यर्थ: (सार्धद्वादशपलानीत्यर्थ: इति पाठ: साधु:)। एवं पञ्चानामपि युगानामह: सामान्यलक्षणमाह।।8।।

सुधाकर: - इदानीमयनयोर्दिनरात्रिमाने आह घर्मवृद्धिरिति। उदग्गतावुत्तरायणे रवावपां पयसां प्रस्थमात्रं प्रत्यहं घर्मवृद्धिनवृद्धिर्भवति तथा तदैव प्रस्थमात्रं क्षपाह्रासो रात्र्यपचयो भवति। दक्षिणेतौ दक्षिणायने च विपर्यासो भवति, प्रत्यहं जलप्रस्थसमो दिनह्रासस्तथा रात्र्युपचयो भवतीत्यर्थ:। अयनेन तु एकस्मादयनाद् द्वितीयायनेन दिनरात्रय: षण्मुहूर्त्तो। मुहूर्त्तो घटिकाद्वयमित्यनेन द्वादशघटिकातुल्यौ दिरात्र्योर्वृद्धिक्षयौ भवत:। अत उत्तरायणारम्भे परमाल्पं दिनमानम्=24 नाडिका:। दक्षिणायनारम्भे च परमाधिकं दिनमानम्=36 नाडिका:। एवं विपर्ययाद्रात्रिमाने च।

अत्रोप्रपत्ति:।

द्रोणस्तु खार्या: खलु षोडशांश: 

स्यादाढको द्रोणचतुर्थभाग:।

प्रस्थाङ्घ्रिराद्यै: कुडव: प्रदिष्ट:।।

इति भास्करपाटीगणितप्रसिद्धपरिभाषाभिस्तथा

पलानि पञ्चाशदपां  धृतानि तदाढकं द्रोणमत: प्रमेयम्। त्रिभिर्विहीनं कुडवैस्तु कार्यं तन्नाडिकायास्तु भवेत् प्रमाणम्।। इति ज्यौतिषवेदाङ्गचतुर्विंशश्लोकेन त्रिभि: कुडवैर्विहीनं द्रोणं नाडिकाया: प्रमाणम्।

तथा

50 प.=1 आढक:। 4 आ.= 1द्रो. = 200 प.।

4 प्र.=1 आ. = 50 प प्र. = य.। 

4 कु. = 1 प्र. = प कु. = पलानि

अत: 3 कुङ = पलानि

एका नाडिका = 1 द्रो. - 3 कु. = 200 प. - प. = प.= प.                                                           प्रस्‍था: = प्र. = प्रस्था:।

द्वादशघटिकासु प्रस्थमानम् = = 183

अथायनयोर्मध्ये सूर्यसावनदिनानि सौरवर्षसावनदिनार्धसमानि = = 183। ततोऽनुपातो यदि 183 सावनदिनै: 183 प्रस्था लभ्यन्ते तदैकेन सावनदिनेन किं लब्धि: प्रस्थमितौ प्रत्यहं दिनरात्र्योर्वृद्धिक्षयौ भवत इत्युपपन्नम्। यथा पयसां षष्टिपलै: पूर्णा जलघटी प्राचीनै: श्रीपत्यादिभिर्निर्मिता यत्राधश्छिद्रेण प्रतिपलं जलं बहि: पतति तथा ज्यौतिषवेदाङ्गसमये तथैकं जलयन्त्रमासीत् यत्र प्रस्थमितं जलमधश्छिद्रेणैकघटीतुल्येन कालेन निरसरत्। तत्र प्रस्थमितजलनि: सरणकालश्च पानीयपलकालवत् प्रस्थसंज्ञका बोध्या इति। एवमत्र ज्यौतिषवेदाङ्गस्य यत्र रचना जाता तत्र परमं चरघटीमानं घटिकात्रयं सिध्यति ततो 'दिग्नागसत्र्यंशगुणैर्विनिघ्नी' इत्यादिभास्करप्रकारवैपरीत्येन तत्र देशे स्वल्पान्तरात् पलभाऽङ्गुलात्मिका = अथ चापीयत्रिभुजेन चरज्या = अक्षांशस्पर्शरेखा× क्रान्तिस्पर्शरेखा÷त्रिज्या।

अत्र नाडीत्रयं परमं चरं परमक्रान्तिं च जिनांशसमां गृहीत्वा सूक्ष्मज्याविधिना लघुरिक्थग्रहणेन

लास्पअ = लाज्‍याच = लास्पक्रां 10। अनेन समीकरणेन सूक्ष्मा अक्षांशा: = 340.।45'।47"। 8।

प्रथमं सप्तमं चाहुरयनाद्यं त्रयोदश।

चतुर्थं दशमं चैव 1द्विर्युग्माद्यं (द्विर्युग्मं इति पाठ: साधु:) बहुलेऽप्यृतौ।।9।।

सोमाकर: - प्रथमं सप्तमं चाहुरिति। एतानि आद्यनि दिनानि द्वे द्वे युगाब्दानां पञ्चानाम्। कथम्। प्रथमं सप्तमं चाद्यस्य माघशुक्लप्रतिपत् श्रावणशुक्लसप्तमी च तयोरुदगयनदक्षिणायने संवत्सरस्येत्याहुर्गर्गादय:। तथा द्वितीयस्य त्रयोदशं शुद्धं चतुर्थं कृष्णम्। एवं तृतीयस्या दशमं कृष्णम्। द्विरेवं पुनर्बहुलेऽप्यृतौ कृष्णपक्षकाले बहुलचन्द्रस्य कलास्ततो लीयन्ते। ततो बहुलमपरपक्ष:। कथम्। प्रतिपदादि द्वे द्वे इत्यर्थ:। एतत्तूत्तरस्मिन् श्लोके स्फुटतरं गर्गवाक्यै: प्रतिपादयिष्याम:।।9।।

सुधाकर: - अथैकस्मिन् युगे दशसु रव्ययनेषु तिथीराह प्रथममिति। प्रथमं सप्तमं त्रयोदशं चतुर्थं दशमं तिथिं द्विद्विवारमाचार्याअयनाद्यमाहु:। अत्रैतदुक्त भवति। 1। 7। 13। 4। 10। एतास्तिथयो द्वि: स्थाप्यास्तदा अयनाद्यास्तिथय: स्यु:। प्रथममयनं प्रतिपदि द्वितीयं सप्तम्यां तृतीयं त्रयोदश्यां चतुर्थं चतुर्थ्यां पञ्चमं दशम्याम्। पुन: षष्ठाद्यं प्रतिपदादिषु भवतीत्यर्थ:। तत्र युग्मं तिथिमानं चतुर्थी दशमी च बहुले कृष्णपक्षे ज्ञेयम्। अन्यानि तिथिमानानि चानुक्तत्वात् शुक्लपक्षे बोध्यानीति। अपि निश्चयेनैवमृतौ षट्तिथौ षडधिके तिथावेकायनतिथेरपरायनतिथिर्भवतीत्यर्थ:।

अत्रोपपत्ति:। एकायनादपरायनपर्यन्तं वर्षचान्द्रदिनार्धसमास्तिथयो भवन्ति। एकस्मिन् सौरवर्षे चान्द्रतिथय: = 372। एतदर्धमानम् = 186। अत्र मासानां प्रयोजनाभावात् त्रिंशत्तष्टे ह्येकायनतिथेरपरायनतिथि: षडधिका। तथाकृते जाता अयनाद्यास्तिथय: ।1।7।13।19।25।1।7।13।19।25।।

अत्र चतुर्थी पञ्चमी संख्या तथा नवमी दशमी संख्या च पञ्चदशतिथिवियोजनेन जाता कृष्णपक्षीया चतुर्थी दशमी च। अत्र शुक्लपक्षादिमासो गृहीत: सप्तमश्लोके माघश्रावणयो: सदेत्युक्तत्वात्। प्रथममयनाद्यं माघशुक्लप्रतिपदि। द्वितीयमयनं श्रावणशुक्लसप्तम्याम्। तृतीयं माघशुक्लत्रयोदश्याम्। चतुर्थं श्रावणकृष्णचतुर्थ्याम्। पञ्चमं च माघकृष्णदशम्यां भवति। एवं नवदशमे अपि श्रावणकृष्णचतुर्थीमाघकृष्णदशम्यो: क्रमेण भवत इति सर्वं निरवद्यम्। इदं बार्हस्पत्यव्याख्यानं समीचीनम्। तत्र ऋतुशब्देन मासो मन्मते न समीचीन: किन्तु ऋतुशब्देनात्र प्रसिद्धा षट् संख्या ग्राह्येति।।9।।

वसुस्त्वष्टा भवोऽजश्च मित्र: सर्पोऽश्विनौ जलम्।

धाता(अर्यमा कोऽयनाद्या: इति पाठ: साधु:)कश्चायनाद्या: स्युरर्धपञ्चमभस्त्वृतु:।।10।।

सोमाकर: -  वसुस्त्वष्टा भवोऽजश्चेति। वसुर्धनिष्ठा: देवते: पलक्षिता। एवं त्वष्टा चित्रा। भवो रुद्र आर्द्रा। अज्ञ: पूर्वप्रोष्ठपदा:। मित्रोऽनुराधा:। सर्प आश्लेषा:। अश्विनावश्वयुजौ। जलं पूर्वाषाढा:। धाता उत्तरफाल्गुनी धातार्यमेति मन्त्रवर्णात्। को रोहिणी। एवमेते ऋक्षा:। एतेनैव क्रमेणायनाद्या: स्युर्भवेयु:। एवमप्यर्धपञ्चमभस्त्वृतु:। ऋतौ ऋतौ सार्धाश्चत्वार ऋक्षा भवन्ति। वक्ष्यमाणनक्षत्रैर्जावद्यै:। एतस्मिन्नर्थें प्रतिपत्त्यर्थं विस्तरेणाह गर्ग:।

तद्यथा ।

अयनान्यृतवो मासा: पक्षास्तृक्षं तिथिं दिनम्।

तत्त्वतो नाधिगम्यन्ते यदाब्दो नाधिगम्यते।।1।।

यदा तु तत्त्वतोऽब्दस्य क्रियतेऽधिगमो बुधै:।

तदैवैषाममोह: स्यात् क्रियाणां चापि सर्वश:।।2।।

तस्मात् संवत्सराणां तु पञ्चानां लक्षणानि च।

कर्माणि च पृथक्त्वेन दैवतानि च वक्ष्यति:।।3।।

यदा माघस्य शुक्लस्य प्रतिपद्युत्तरायणम्।

सहोदयं श्रविष्ठाभि: सोमार्कौ प्रतिपद्यत:।।4।।

तदा नभस्यसप्तम्यां क्रियते दक्षिणायनम्।

सार्पार्धे कुरुते युक्तिं चित्रायां च निशाकरे।।5।।

प्रथम: सोऽग्निदैवत्यो नाम्ना संवत्सर: स्मृत:।

यदा माघस्य शुक्लस्य त्रयोदश्यामुदग्रवि:।।6।।

युक्ते चन्द्रमसा रौद्रे वासत्वं प्रतिपद्यते।

चतुर्थ्यां नभस: कृष्णे तदार्को दक्षिणायनम्।।7।।

सार्पार्धे कुरुते सूर्यस्त्वजयुक्ते निशाकरे।

द्वितीयश्चार्कदैवत्य: स नाम्ना परिवत्सर:।।8।।

कृष्णे माघस्य दशमी वासवादौ दिवाकर:।

उदीचीं दिशमातिष्ठेत् मैत्रस्थे कृष्णतेजसि(ऽनुष्णातेजसि-इति पाठ: साधु:)।।9।।

नभसश्चातिवर्तेत शुक्लस्य प्रथमे तिथौ।

चन्द्रार्काभ्यां सुयुक्ताभ्यां सार्पार्धे वायुदैवतम्।।10।।

तदा तृतीयं तं प्राहुरिदासंवत्सरं जना:।

सप्तम्यां माघशुक्लस्य वासवादौ दिवाकर:।।11।।

अश्विनीसहिते सोमे यदाशामुत्तरां व्रजेत्।

सौम्ये चाप्ये च संयुक्ते सार्पार्धस्थो दिवाकर:।।12।।

व्रजेत याम्यां शुक्लस्य श्रावणस्य त्रयोदशीम्।

चतुर्थमिन्दुदैवत्यं प्राहुश्चाप्यनुवत्सरम्।।13।।

फाल्गुनीमुत्तरां प्राप्ते सोमे सूर्ये च वासवे।

यद्युत्तरायणं कृष्णे चतुर्थ्यां तपसो भवेत्।।14।।

श्रावणस्य च कृष्णस्य सार्पार्धे दशमो पुन:।

रोहिणीसहिते सोमे रवे: स्याद्दक्षिणायनम्।।15।।

इद्वत्सर: स विज्ञेय: पञ्चमो मृत्युदैवत:।

एवमेतद्विजानीयात् पञ्चवर्षस्य लक्षणम्।।16।।

दृष्ट्वा स्वरूपं युक्तस्य तद्वर्षमिति निर्द्विशेत्। इति।

अर्धपञ्चमभस्त्वृतुरितीह प्रतिज्ञा यस्मादृतुसंख्यायां विप्रतिपत्तिराचार्याणाम्। पञ्चर्त्तव: (द्वादश मासा: पञ्चर्त्तव: संवत्सर: संवत्सर इति। (अगब्रह्मणप‍ञ्चिका 7, खण्ड 8) संवत्सरस्येति च ब्राह्मणम्। तथा गर्गस्त्रय ऋतव इत्याह। कृष्णात्रेय: षट् द्वादशेति। नारदश्चतुर्विंशतिरित्याह। भागुरिस्त्रीणि शतानि सष्टषष्टीनीत्याह। क्रौष्टुकि: न सर्वे ह्येते मता ऋतव ऋषिभिरिति। एवमिहोक्तऋतुऋक्षं च।।10।।

सुधाकर: - इदानीमयनेषु नक्षत्राणि ऋतुनक्षत्राणि चाह वसुरिति। वसुर्धनिष्ठा। त्वष्टा चित्रा। भवो रुद्र आर्द्रा। अज एकपात्। मित्रोऽनुराधा। सर्प आश्लेषा:। अश्विनावश्विनी। जलं पूर्वाषाढा। अर्यमा उत्तरफाल्गुन्य:। को रोहिणी। एता अयनाद्याश्चन्द्रोडव: स्यु:। ऋतुश्चार्धपञ्चमभ:। पञ्चमभस्य यदर्धं सार्धवेद सूर्यनक्षत्राणि चैकर्तौ भवन्ति।

अत्रोपपत्ति:। एकस्मिन् युगे चन्द्रनक्षत्राणि। दशभिर्हूतानि लब्धान्येकस्मिन्नयने नक्षत्राणि। सप्तविंशतितष्टानि । एकद्वित्र्यादिगुणानि एतानि सप्तविंशतितष्टानि जातानि। । धनिष्ठात एतत्संख्यान्तरचन्द्रानक्षत्रेषु अयनानि भवन्ति। यथा धनिष्ठात एकोनविंशतितमनक्षत्रे चित्रायामन्यदयनम्। धनिष्ठात एकादशे नक्षत्रे आर्द्रायां ततोऽन्यत्। धनिष्ठातस्तृतीये नक्षत्रे पूर्वभाद्रपदायां ततोऽप्यन्यदयनम्। एवमन्यान्यानीतचन्द्रनक्षत्रेषु भवन्ति। अथैकस्मिन् वर्षे सूर्यनक्षत्राणि = 27। षड्भिर्हूतानि लब्धान्ये कर्त्तौ सूर्यनक्षत्राणि अत उपपन्नं सर्वम्।।10।।

एकान्तरेऽह्नि मासे च पूर्वान् कृत्वा दिरुत्तर:(कृत्वादिमुत्तर: इति पाठ: साधु:)

अर्धयो: पञ्चपर्वाणां मृदू पञ्चदशाष्टमौ।।11।।

सोमाकर: - पुनरेकान्तरेऽह्नि यस्मिन्नर्हान सूर्यसङ्क्रमणं तस्मादहृस्तृतीयेऽह्नि ऋतुरन्यो भवतीति वाक्यशेष:। कथम्। मासे च मासमतिक्रम्य तं द्वितीयं तृतीयमिति। तस्मादर्धपञ्चमभस्त्वृतुरिति द्वावेवोक्तौ। यस्माद्भचोदनमप्याह। पूर्वान् कृत्वादिरुत्तर:। उत्तर आर्द्रादिर्वक्ष्यमाणऋक्ष:। स एकान्तरेऽह्नि मासे चापि भवेत्। तत् अश्विन्युपलक्षितमाश्वयुज्यां तत एकमतिक्रम्यान्तराणां (अतिक्रम्य भरणीं इति बा.द्वि. पुस्तके पाठ:) कृत्तिकायुक्ता कार्त्तिकी भवेदित्युत्तरमेव। अथवान्यो वा ऋतु:। एकान्तरे च दिने मासे च। एवमृतावन्यस्मिन्। कथम्। पूर्वान् जावादीन् पञ्च पूर्वान् कृत्वा अतिक्रम्येत्यर्थः क्व। पञ्चपर्वाणां पक्षाणामर्धसन्धीनां वक्ष्यमाणाशंकल्पनया मध्ये पञ्चाशीप्रतिपदोर्भवेदित्यर्थ:। एतदुक्तं भवति। जाविति चोदिताश्विनी यस्मिन् पर्वणि विहिता तस्मादुत्तरं पञ्च पञ्चर्क्षान् पञ्च पर्वाण्यतिक्रम्य भरण्यार्दीश्च ऋक्षांस्ततो द्रेति चोदितार्द्रा भवति। भरण्यादयश्चान्तरपर्वसु यागदिवसेष्वित्युक्तं भवति। ते च पुनरेकान्तरेऽह्नि मासे च पौर्वापर्येण भवन्ति। तद्यथा च। यत्र ह्यश्विनी तत: पुन: षड्विंशेऽह्नि पञ्चविंशे वा भवेत्।

तथा च गर्ग:।

यावता त्वेव कालेन भवर्गं त्रिणवात्मकम्।

भुङ्क्ते चन्द्र: स आर्क्षो मास्तस्यार्धं पक्ष उच्यते।।

यतचात्वारि मानानि तानि तु गर्गवाक्यैर्दर्शयिष्यामि।

तद्यथा ।

      सावनं चापि सौर्यं च चान्द्रं नाक्षत्रमेव च।

चत्वार्येतानि मानानि यैर्युगं प्रविभज्यते।।1।।

अहोरात्रात्मकं लौक्यं मानं च सावनं स्मृतम्।

अतश्चैतानि मानानि प्रकृतानीह सावनात्।।2।।

तत: सिद्धान्यहोरात्राण्युदयाश्चाप्यथार्कज्ञा:।

त्रिंशच्चाष्टादशशती दिनानां च युगे स्मृता।।3।।

मासस्त्रिंशदहोरात्रा: पक्षोऽर्धं सावनं स्मृतम्।

अहोरत्रलवानां तु चतुर्विंशं शतात्मकम्।।4।।

सौर्यं तु सूर्यसम्भूतं परिसर्पति भास्करे।

यावता ह्युत्तरां काष्ठां गत्वा गच्छति दक्षिणाम्।।5।।

कालेन सोऽब्दस्तस्यार्धमयनं तु त्रयोर्त्तव:।

ऋतोरर्धो भवेन्मासस्त्रिंशद्भागो दिनोऽर्कज्ञ:।।6।।

तस्यार्धमर्कज: पक्षस्तस्मात् पञ्चदशं दिनम्।

शतं1लवानां (100+ 26+= एते लबा:) 

षड्विंशं लवा: पञ्चदशस्तथा।।7।।

यतश्चाष्टादशशतं 1800 युगमार्कौर्दनै: स्मृतम्।

वृद्धिक्षयाभ्यां सम्भूतं चान्द्रं मानं हि चन्द्रत:।।8।।

लवं लवमथोनेन सवानेन निशाकर:।

क्षयवृद्धिमवाप्नोति स चान्द्रा मास उच्यते।।9।।

तस्यार्धं पार्वण: पक्षस्तस्मात् पञ्चदशी तिथि:।

प्रमाणेन लवानां तु द्वाविंशं शतमुच्यते 122।10।।

सोमस्याष्टादशशती युगे षष्ट्यधिका 1860 स्मृता।

यावता त्वेव कालेन भवर्गं त्रिणावात्मकम्।।11।।

भुङक्ते चन्द्र: स आर्क्षो मास्तस्यार्धं पक्ष उच्यते।

आर्क्षात् पक्षात् पञ्चदशं नाक्षत्रं दिनमुच्यते।।12।।

प्रमाणेन लवानां तु द्वादशं शत 112 मुच्यते।

षष्टया तु सप्तषष्टयंशे नाधिकोऽस्मिन् परो लव:।।13।।

दशोत्तरे द्वे सहसे 2010 युगमार्क्षैर्दिनै: स्मृतम्। इति।

एतदुत्तरप्रतिपत्त्यर्थमाश्वलायनोदाहूतम्। यस्मादेतदेवाभिप्रेत्येदं शास्त्रं प्रवृत्तम्। वक्ष्यति च 'उदया वासवस्य स्यु:' इति। एतेनोत्तरमन्यदूहितुं शक्यते। तेषां वक्ष्यमाणानामृक्षाणां मृदू पञ्चदशाष्‍टमावनुराधातिष्यं (आश्लेषा: इति पाठ: साधु:) च। 'अनुराधा चतुस्तारं मृदु मित्रोऽत्र दैवतम्'-इति। एतत् स्वरूपसूचनं "क्रूराण्युयाणि च" वक्ष्यति यस्मादेवं तस्मात्।।11।। 

सुधाकरः - इदानीं मासान्तरे दिनानयनं पर्वविशेषं चाह एकान्तरेऽहि मासे चेति। पूर्वान् वारानादिं कृत्वा एकान्तरेऽहि मासे चोत्तरो दिवसो ज्ञेयः। यस्मिन् चान्द्रे मासे यो वारस्तदग्रिमे चान्द्रे मासे तदुत्तरो वारो ज्ञेयः। यथा यदि प्रथमचान्द्रमासारम्भे रविवारस्तदा द्वितीयमासारम्भे चन्द्रवारो भविष्यति स्वल्पान्तराच्चन्द्रमास्यैकोनत्रिंशत्सावनदिनातमकतवात्। अत्र वारगणनया यदि वारेऽन्तरं पतित तदा वारः सैकः कार्य इति ज्योतिर्विदामुर्गणवारानयनवत् स्फुटमेव। वक्ष्यमाणचतुर्दशश्लोके यानि दिवसस्च पञ्चभकगातमकानि पञ्चपर्वाणि तेषामर्धयोः खण्ययोर्यौ पञ्चदशाष्टमौ खण्डो तच्च रव्ततेजोमन्दात् मृदू ज्ञेयौ। तौ मृदुसंज्ञौ ज्ञेयावित्यर्थः।।11।।

दुहेयं (द्योर्ज्ञेयं-इति पाठ: साधु:) पर्व चेत् पादे पादस्त्रिंशत् तु सैकिका।

भागात्मनापवृज्यांशान् निर्द्दिशेदधिको(निर्द्दिशेदधिकं यदि इति पाठ: साधु:) यदि।।12।।

सोमाकर: - दुहेयं पर्व चेत् पाद इति। पर्वार्धमास:। यथाह नैरुक्त:। अर्धमास: पूर्व देवा अस्मिन् प्रीणन्तीति वचनात्। तच्चेद्यदि दुहेयं गर्गोक्तलवादिकल्पनयाऽधिकमासार्थं यच्छिष्यते तत् संख्यायैकं कल्पयेत्।

यथाह गर्ग:।

तत: प्रक्षीयमाणस्य तिथिरित्येव संज्ञता।

द्विलवोनमहोरात्रं सोमस्य गतिरुत्तमा।। इति।

एतदूनं कियद्भवेदित्याह। पाद इति। तदप्यप्रतीतमित्याह पादस्त्रिंशत् तु सैकिका नाडिकेति वाक्यशेष:। तत्राधिकमासनिष्पत्ति:।

यथाह गर्ग:।

द्विलवक्षयसम्भूतो द्वाषष्टिर्भवते तिथि:।

ऋतोरन्तमनुप्राप्य हीनरात्रेति नामत:।।

यस्मात् तस्मादेतावन्मात्रमर्धमासस्याह्ना हसते तस्य भागात्मनापवृज्यांशान् निर्द्दिशेत। सङ्कलितं व्यवस्थायैकत्र सङ्कलयेदंशं लवानां कुतस्तदधिकदिनानां लुप्तत्वादिति वाक्यशेष:। एवं तूक्तभागानां विसूचितानामुत्तरत्र वक्ष्यमाणानामंशानाम्।।12।।

सुधाकर: - अथ पर्वणि अंशसाधनमाह द्योरिति। चेद् द्योर्द्निस्य पादे पर्व भवेत् तर्हि गणितागतमेवांशमानं ज्ञेयम्। यद्यंशमानं पादतोऽधिकं तदा तेभ्योऽशेभ्य: पादांशानपवृज्य वर्जायत्वा शेषानंशान् गणको निर्द्दिशेत्। पादे कियन्ताऽशा इत्याह। पादस्त्रिंशत तु सैकिकेति भागासमन् विभागावयवेन पादे एकत्रिंशद्भवति। अत्रैतदुक्तं भवति। ज्यौतिषवेदाङ्गे सावनदिनस्‍य नक्षत्रादिमानस्य च चतुर्विंशत्यधिकशतभागा: कृता: सन्ति। ते च भागा अंशा वोच्यन्ते। अतो दिनादिचतुर्थांशे एकत्रिंशद्भागा भवन्ति। सावनदिनेन सावनमहोरात्रं गृह्यते। अत: पादांशा मध्याहृपर्यन्तं भवन्ति। ततोऽधिकेभ्यभागेभ्य: पादांशान् विशोध्य शेषांशा दिनोत्तरदले बोध्या:। एवं रात्रावपि निजपादीया भागा: साधनीया:। यथा यदि रात्रिपूर्वार्धे पर्वमानं दशभागमितं तदा सूर्योदयात् पादद्वयमिते दशपादाधिके पर्वमाने पादयो: स्वतो ज्ञानात् पर्वणोऽशा दशसमा इत्येव गणका वदन्तीति। अत्र 'दुहेयं' वा बार्हस्पत्यशोधितं 'दुर्हेय' इति मन्मते न समीचीनमिति।।12।।

निरेकं द्वादशाभ्यस्तं द्विगुणं चाप संयुतम् (गतसंयुतम्-इति पाठ: साधु:)

षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते।।13।।

सोमाकर: - निरेकं द्वादशाभ्यस्तमिति। अर्धयो: पञ्चपर्वाणां जावाद्युक्तं प्रकृतं यस्मिन् पर्वणितस्मिन् वक्ष्यमाणचोदनया यावन्तोऽशा भवन्ति द्वौ त्रयश्चत्वारो वा तेषां निरेकमेकं निरस्य त्यक्त्वेत्यर्थ:। तत: शेषं द्वादशाभ्यस्तं द्वादशभिर्गुणयेत्। यद्येकस्तदा द्वादश। यदि द्वौ तदा चतुर्विंशति:। यदि त्रयस्तदा षट्त्रिंशत्। ततश्चापसोयुतं कुर्यात्। चतुर्विंशतिरष्टचत्वारिंशत् द्वासप्ततिर्वा। ततश्चापसंयुतं कुर्यात्। आपो युगा: कृतादयश्चत्वार:। कृतमापानामिति श्रुते:। चत्वारस्तदुपरि भवन्त्यन्ये। ततस्तेषामेव षष्ट्या षष्ट्या युतं द्वाभ्यां तदुपरि द्वाभ्यां षष्टिद्वोषष्टि 62 र्भवति। एवमेतत्सर्वं तदेकीकृत्य यावद्भवति स पर्वणां यागकर्मणि राशिरुच्यते ज्योतिर्विद्भिरापर्वणस्तदा वा समाप्ते:। एतदुक्तं भवति। द्वयंशस्य (सोमाकरव्याख्यानेन शस्य पर्वराशि: =2{122-1}+4+62=90 नाडिका:। एवं त्र्यंशस्य पर्वराशि: =2{12(3-1)}+4+62=114 ना.। चतुरंशस्य पर्वराशि: =2{12(4-1)}+4+62=138 ना.) चोदितस्य जावादीनां मध्यात् ऋक्षस्य नवतिर्नाडिका: 90 पर्वकालराशि:। त्र्यंशस्य चतुर्दशाधिकं शतम् 114। चतुरंशस्य अष्टत्रिंशदधिकं शतम् 138। तस्य राशे: पर्वसन्धिकालात् पूर्वं पञ्चदश्युत्तरार्धे कार्यम्। उत्तरं प्रतिपदि यागाय। एवं त्वेष पर्वराशि: पौर्णामास एव पर्वक्षेन्दुसम्बन्धात्। अमावास्यायां तू परिष्टाद्वक्ष्यत्येकादशभिरभ्यस्येति सूर्यसम्बन्धेनान्तरालमृक्षाश्रये। अत एवमुभयमेतत् तु राकाकुहूकालगत इति चोदितेन तत्त्वादनुवादिनापि कि‍ञ्चित् सङ्गतं विशेषमुत्तरत्र ऋक्षविधाने दर्शयिष्याम एवमपि।।13।।

सुधाकर: - इदानीं युगादेरिष्टपर्वपर्यन्तं पर्वगणानयनमाह निरेकमिति। अत्र पूर्णान्तदर्शान्तयो: पर्वसंज्ञा ज्ञेया। वर्तमानसौराब्दमानं चाध्याहायम्। ततोऽस्य श्लोकस्यैवं व्याख्यानं कार्यम्। वर्तमानसौराब्दमानं निरेक शेषं द्वादशभिरभ्यस्तं गुण्यं गुणनफलं च द्विगुणं कर्तव्यम्। तच्च गतै: पर्वभि: संयुतं कार्यम्। संयुतं च षष्ट्या षष्ट्या द्वाभ्यां युतं कार्यम्। संयुतमानं द्विगुणं षष्ट्या विभक्तं निरग्रलब्धं च संयुतमान एव योज्यमित्यर्थ:। तदेव पर्वणां चान्द्रपर्वणां राशिर्गण उच्यते आचार्यैरिति।

अत्रोपपत्ति:। मासार्धं स्वस्वपर्वेति एकयुगे सौराब्दा:=5। सौरमासा: =60। सौरपर्वाणि=120। चान्द्रमासा:=62। चान्द्रपर्वाणि=124। सौरचान्द्रपर्वान्तरं युगेऽधिपर्वाणि=4। एतानि विंशत्यधिकशतसौरपर्वसु जातानि तेन षष्टिसौरपर्वसुं अधिपर्वमानम्=2। अथ वर्त्तमानसौराब्दमानं निरेकं गतसौराब्दमानं जातम्। तद् द्वादशगुणं जाता गतसौरमासास्ते द्विगुण जातो गतसौराब्दान्ते गतसौरपर्वगण:। तत्र वर्त्तमानचान्द्राब्दीयगतचान्द्रपर्वसंख्यासमा गतरविपर्वसंख्यैव योजिता। एवं गतचान्द्रपर्वाग्रे यद्रविपर्व तत्पर्यन्तं रविपर्वगणो जात:। तस्य चान्द्रपर्वकरणार्थं त्रैराशिकेनाधिपर्वानयनम्। यदि षष्टिमितै: सौरपर्वभिर्द्वयमधिपर्वमानं तदा गतसौरपर्वमणेन किम्। लब्‍धमधिपर्वमानं तच्छेषं च यदि गतरविपर्वगणे योज्यते तदा गतसौरपर्वान्ते सावयवश्चान्द्रपर्वगणो भवेत्। तत्र चान्द्ररविपर्वान्तरमधिपर्वशेषसमं वियोज्यं तदा निरवयवो गतचान्द्रपर्वणोभवेत्। एवं स्थितौ निरग्रमधिपर्वमानमेव गतरविपर्वगणे योज्यं तदा लाघवेन गतचान्द्रपर्वगणो भवतीति। यथा सिद्धान्तशिरोमण्यादौ सिद्धान्तग्रन्थे चान्द्रमासगणानयनार्थमधिशेषत्यागकारणं विलिखितं तथैवात्रापि बोध्यमिति स्फुटं ज्योतिर्विदाम्। अत्र बार्हस्पत्यव्याख्यानं तच्छोधितं पद्यं च शङ्करबालकृष्णदीक्षितशोधितानुरूपं समीचीनम्। परन्तु तदुपपत्तौ च सशेषमधिपर्वमानमागच्छति येन गतरविपर्वान्ते सावयवो गतचान्द्रपर्वराशिरायाति तत्र समीचीनं चान्द्रपर्वगणस्य निरवयवत्वादिति स्फुटं ज्योतिर्विदामिति।।13।।

स्यु: पादोऽर्धं 

(स्यु:) (स्यु: पादार्धास्त्रिपद्या ये त्रिद्वयेकेऽहू: क़ृतस्थिते:। 

साम्येनेन्दोस्त्रयोन्ये तु पञ्चका: पर्वसम्मिता:।। इति पाठ: साधु:)

त्रिपद्यायास्त्रिद्यवेकेऽहृ: कृते स्थितिम्।

साम्येनेन्दो: स्तृणोऽन्ये तु पञ्चका: पर्वसम्मिता:।।14।।

सोमाकर: - एवं जावादिचोदितानामृक्षाणामेकैकस्मिन् पञ्च पञ्च चोदिता: क्रमश्रुता: स्तृण ऋक्षा: स्युर्भवेयु:। कीदृशा:। पर्वसम्मिता:। चोदितपर्वर्क्षसदृशा इत्यर्थ:। किमेत एव। न। अन्यदपि। किम्। त्रिपद्याया: पञ्चदश्या: पाद: पश्चिमो दिनभाग उपवसनीय: सोम: सोऽपि भवेत्। तथाऽर्धमपि। य: पर्वभाविराशेरुत्तरार्धविभाग: सोऽपि तथैव भवेदित्यर्थ:। किमेकवारम्।न। त्रिद्वि:। त्रीन् वारान्। द्विवारान्। पञ्चवर्षाणि पौन: पुन्येनेत्यर्य:। तथैवापि त्रिपद्यायास्त्रिपदोपलक्षिताया: प्रतिपद:। "आद्या: प्रतिपदस्त्रय:" इति यदुक्तं तदपि भवेत्। किमेवं सर्वं आहु:। न। एकेऽह्न: कृते स्थितिम्। अह्नो यागदिवसस्यैवं कृते कल्पनायामेतां स्थितिं व्यवस्थामाहुर्न सर्वे। अन्ये तु जावाद्यक्षव्यवस्थां पञ्चस्वपि एवमाहु:। स्तृण इति वा षष्ठी। तत्सम्बन्धिनी व्यवस्थेत्यर्थ:। तस्य तत्र।।14।।

सुधाकर: - इदानीं दिनस्याष्टयामेषु पर्वणि गते यामसंज्ञामाह स्युरिति। अह्नो दिनस्य ये त्रयस्त्रिद्वियेके पादार्धास्ते त्रिपाद्या: पादार्धा: स्यु:। तत्र कृतस्थिते: कृता स्थितिर्येन तस्येन्दोश्चन्द्रस्य साम्येन कारणेन पर्वदिने त्रिपदी योगविशेषो भवतीत्यर्थ:। पदार्धद्वितीये यदि पर्व तदा तत्पूर्वापरयो: पादार्धयोरपि पर्वसाविध्यात् स्नानदानादौ विशेषत: पुण्यमत: पादत्रयस्य त्रिपदी योगवैशिष्टयात् पूर्वै: संज्ञा कृतेति। एवं तस्मिन् पर्वणि येऽन्ये पञ्च पादार्धा अवशिष्टास्ते पूर्वसम्मिता:। तेषु स्नानदानादिजन्यं तथैव पुण्यं यथाऽन्यसाधारणपर्वसु भवतीत्यर्थ:।।14।।

भांशा: स्युरष्टका: (स्युरिष्टका: इति पाठ: साधु:)कार्या: पक्षा द्वादशकोद्गता:।

एकादशगुणश्चोन: (एकादशगुणाश्चेन्दो: इति पाठ: साधु:)शुक्लेऽधं चैन्दवा यदि।।15।।

सोमाकर: - भांशा: स्युरष्टका: कार्या इति। यदृक्षो जावादि:। तस्य येऽशा: स्युर्भवेयु:। चत्वार 4 स्त्रयो 3 द्वौ 2 वा तेऽष्टका: कार्या अष्टनाडिका इत्यर्थ:। एवं सामान्यव्यवस्था। एवमेव यागकालापेक्षया कल्पना च ततो व्याप्ति:। तेषामन्यथैवोपरिष्टाद्वक्ष्यति 'ससप्तैकं भयुक् सोम:'। इति। द्व्यष्टकावेति पाठ:। दिवसाष्टभागा इत्यर्थ:। तथापि, पक्षा द्वादशकोद्गता द्वादशदिवसाभ्यधिका: सार्धास्त्रयोदश वा। किं सर्वे। न। आर्क्षा एव वक्ष्यमाणभेदविधानात्। यतो जावादिना ये पञ्च चोदितास्तदा स्थितानि पञ्च पर्वाण्यतिक्रम्य आक्षंचोदना ततश्च षष्टितमेऽह्नि इत्यन्ते च भवति। एवमेषाऽऽर्क्षी व्याप्ति: पाञ्चार्षिक्युक्तैकेन प्रयत्नेनेति तस्मादेव चोदना। किं च एकादशगुणश्चोन:। यदि पक्षाद्भागस्तदैकादशगुणो भवेत् एकादशदिवस इत्यर्थ:। किं च शुक्लोऽर्धं भवेदिति वाक्यशेष:। यदि शुक्लपक्षस्तदार्धं भवेन्मासस्येति वाक्यशेष:। एवमैन्दवा यदि। यदि चान्द्रा मासोऽभिप्रेतस्तदा तिथिसंख्या या पूर्वपक्षादिचोदना सावनसौराणां तत् एव व्यवस्था।।15।।

सुधाकर: - इदानीं पर्वणि चन्द्रनक्षत्रानयनार्थं भांशानयनमाह भांशा इति। वर्त्तमानाब्दे द्वादशकेषु मासेषु उद्गता: प्राप्ता इष्टका अभीष्टा: पक्षा: कार्या:। 'निरेकं द्वादशाभ्यस्त'  मित्यादिना पूर्वोदितेन प्रकारेणाभीष्टपर्वणि पर्वगण आनेयस्त एवत्रिष्टका: पक्षा: सन्ति। तेच पक्षा एकादशगुणा इन्दोश्चन्द्रस्य भांशा: स्यु:। यदि ऐन्दवाश्चान्द्रा: पक्षा: शुक्ले शुक्लपक्षे तदा पूर्वागतभांशेषु अर्धं च-शब्दाद्योज्यम्। भांशानां चतुर्विंशत्यधिकैकशतमितानार्धं द्विषष्टिर्याज्या तदा चन्द्रस्य भांशा: स्युरित्यर्थ:।

अत्रोपपत्ति:। एकस्मिन् युगे चान्द्रमासा:=62। तत्पक्षा:=124। चन्द्रभगणा:=67। एते सप्तविंशतिगुणाश्चन्द्रभुक्तनक्षत्राणि=1809। ततोऽनुपातो यदि 124 पक्षे: पर्वभिर्वा 1809 नक्षत्राणि तदैकपक्षेण किं जातान्येकपक्षे नक्षत्राणिनक्षत्राणि + 73 भांशा:। यत एकस्मिन्नक्षत्रे भांशा:=124। इति पूर्वमेव प्रतिपादितम्। अत्र नक्षत्राणां प्रयोजनाभावात्त्यागे एकस्मिन् पक्ष भांशा:।

=73=62+11। ततोऽनुपातो यद्येकस्मिन् पक्ष एते भांशास्तदा पक्षगणे कियन्त:। लब्धा इष्टपक्षेषु भांशा: =62 इप +11 इप। अत्र यदि पक्षा: समा: कृष्णपक्षे तदा प्रथमखण्ड पूर्णानि नक्षत्राणि लभ्यन्ते तेषां त्यागेन तदा भांशा: =11 इप। अथ यदि पक्षा विषमा: शुल्कपक्षे तदा प्रथमखण्डे पूर्णनक्षत्राणां त्यागात् भांशा:=62। अतस्तदा वास्तवा भांशा:।

=62+11 इप। एवत्राभीष्टे पक्षान्ते यत् किमपि नक्षत्रं तस्य भुक्ता भांशा आगच्छन्तीति सर्वं निरवद्यम्। अत्र बार्हस्पत्यव्याख्यनं तदुपपत्तिश्च निरर्थकेति।।15।।

नवकैरुद्गतोऽशः स्यादून: (स्याद्युत: इति पाठ: साधु:) सप्तगुणो भवेत्।

आवापस्त्वयुजे द्वौ (द्वु इति पाठ: साधु:) स्यात् पौलस्त्येऽस्तं 3गते (गतेऽपरम् इति पाठ: साधु:) परम्।।

सोमाकर: - नवकैरुद्गतोऽश: स्यादिति। स पर्वांश: पक्षयोरर्धमासयोर्नवकैरुद्गतोऽश: स्यान्नव नाडिका 9 इत्यर्थ:। ऊन: सप्तगुण: सप्तनाडिका इत्यर्थ:। आवापस्त्वयुजे द्वौ स्यात्। यदि स ऋक्षो द्वावं शौ भवेत् तदा त्वयुजे प्रथमश्रावणे विकार: स्यात् "कला एकान्न विंशति:" वक्ष्यमाणस्तत्रादौ कुर्यात्। कालापेक्षया तथा परमंशं द्वितीयं पौलस्त्ये पुरस्ताच्चन्द्रमा (यस्य हविर्निरुक्तं पुरस्ताच्चन्द्रमा अभ्युदेति इति (तैत्तिर्यसंहिता अष्टक 2, अध्याय 5 अनुवादक 5) अभ्युदियादिति श्रुते:। पौलस्त्ये चन्द्रमस्यस्तं गते द्वितीयमंशं कल्पयेद्दर्श इति वाक्यार्थशेष:। प्रथम उपवसनीये यजनीय इत्यर्थ:। एवमत्र।।16।।

सुधाकर: - अधुना वक्ष्यमाणविंशश्लोकागततिथिनक्षत्रभांशेषु द्वितीयखण्डजन्यं संस्कारविशेषं कथयति नवकैरिति। अयुजे विषमे पक्षे शुक्लपक्षावसाने पञ्चदशतिथौ आवाप: 'तिथिमर्कदशाभ्यस्ताम्'-इत्या' दविंशश्लोकविधिना लब्धोऽशो भांशो। नवकैर्नवभिर्भांशैरुद्गतो वर्धित: कार्यस्तदा वास्तवभांशमानं भवेदित्यर्थ:। अथ तदा 'कार्या भांशाष्टकास्थाने' इत्यादि एकोनविंशश्लोकविधिना या भादानकलास्तत्र ऋक्ष: सप्तगुणो युतस्तदा द्यु रविसावनदिनं सावयवं स्यात्। पौलस्त्ये चन्द्रऽस्तं गते दर्शान्ते तु अपरं मानं कुदिनमानमेव साध्येत्। तत्र ब्रवकैरुद्गतोऽशो न कार्य इति।

अत्रोपपत्ति:। विंशश्लोकप्रतिपादितनक्षत्रानयने द्वितीयखण्डं ति यत् त्यक्तं तत्र पञ्चदशतिथिषु नव भांशा उत्पद्यन्ते। अबान्तरेऽनुपातेन भांशा आनेया इत्यनुक्तमपि बुद्धिमता ज्ञायते। दर्शान्ते च तिथ्यभावादयं संस्कार: शून्यसमो भवत्यत: शुल्कपक्षान्ते पूर्वागता भांशा नवभिर्भांशैर्वर्धनीया:। दर्शान्ते च यथाऽऽगतास्तथैव ज्ञेया: अथैकस्मिन् नक्षत्रे एकं भूदिनं सप्तकलाधिकं भवत्यतो नक्षत्रसंख्या सप्तगुणा तत्रत्यभादानकलासु युता रविसावनं दिनं स्यात्। दर्शान्ते च भांशसंस्काराभावात् सावनं द्युमानमेव साध्यं तच्च तिथिनक्षत्राभावात् पर्वभादानसमं भवतीति। बार्हस्पत्येन पौलस्त्यपदेन सोमाकरसम्मतोऽर्थश्चन्द्रवाचक: साधुर्गृहीतस्तथाऽप्यन मन्मते न तद् व्याख्यानं समीचीनमिति।।16।।

जावाद्यंशै: समं विद्यात् पूर्वार्धे पर्वसूत्तरा: (पर्व तूत्तरे इति पाठ: साधु:)

भादानं स्याच्चतुर्दश्यां द्विभागेभ्योऽधिको (द्विभागेभ्योऽधिके यदि इति पाठ: साधु:) यदि।।17।।

सोमाकर: - जावाद्यांशै: समं विद्यादिति। वक्ष्यमाणं जावादिकमृक्षमंशैरवयवै: समं विद्यात्। एतदुक्तं भवति। यमृक्षं चोदयिष्यति जौ-द्रा-ग इत्येवं समं विद्याज्जानीयात्। तदा येनाक्षरेण तद्देवताकेन वा चोदितस्तस्य तावन्तोऽशां भवन्ति। जावित्याश्वयुजे चत्वार:। द्रा इति द्वौ तदुत्तरस्मिन् निर्देशे वक्ष्याम:। तेषां पूर्वार्धे पर्वसु उत्तरा अंशा: कार्या:। औपषसथादौ यदा तै: पञ्चदशी समया व्याप्यते तदा भादानं स्याच्चतुर्दश्यां तदा तस्या: पूर्वं चतुर्दशीशेषे न्यसेत्। कदैतत्। द्विभागेभ्योऽधिको यदि। यदि स ऋक्षस्त्र्यंशश्चतुरंशो वा भवेत्। एतदेवाभिप्रेत्यैकादशीगणना राका कुहू: इत्यादीनां ज्योतिर्विद्भि: कल्पिता।

तथा च परिशिष्टकृत्।

अर्धे चतुर्दशी यत्र परे पञ्चदशी यदि।

चतुर्दश्यवसाने तु पितृयज्ञं तु कारयेत्।।इति।

तथा च गर्ग:।

      चतुर्दश्यां यदा कृष्णे क्षयमभ्येति चन्द्रमा:।

      दृश्यो भवति वाप्युच्चै: सिनीवाली ततस्तदा।।इति।

      अमावास्यामदृष्टेऽपि सोमे प्राधान्यकारणात्।

      केचिदिच्छन्ति दृष्टेऽपि केचितेन गताध्वनि।।

      निश्युद्गतोऽथवाऽप्युच्चैरस्तं वाप्युपपच्छति।

      तदा पूर्वेऽप्यृतौ ह्येतत् कार्यं चन्द्रवशाद्भवेत्।।इति।

एतत्सर्वं सूत्रकारापेक्षमेकाङ्गवैकल्यापेक्षं चोत्तरत्र ह्नासदर्शनं पूर्वां पौर्णमासीमुत्तरां वोपवसेदित्यादि। एतेन ज्ञायते चतुर्दशीपञ्चदश्यौ या (या पूर्वा पौर्णमासी सानुमतिरिति। (ऋगब्राह्मणपञ्चिका 7, खण्ड 11। तथा निरुक्त उत्तरषटक अध्या 5 खण्ड 29) पूर्णमासी सानुमतिरित्यादौ विवक्षिते न पञ्चदशीप्रतिपदौ। एवं तु दाक्षायणयज्ञसिद्धि:। एवं च पूर्वं कृत्वा उत्तरां सचोदितां सप्रतिपत्त्या प्रतिपदादौ याग:। तदतिक्रमे कालस्याग्नेयमेवाग्नेये पथि (जुहुयादग्नये पथिकृते स्वाहेति (ऋगब्राह्मणपञ्चिका 7, खण्ड 8)  कृते कुर्यादिति चोदना। पूर्वापरार्धे चाभ्युदिते चाभ्युदितेष्टिरिति। एवमेतत् सुविदितं कृत्वोपवसथादिस्वकाले कार्यम्। पूर्वां पौर्णमासीमुपसवेदिति यथा चोदितम्। अन्यथा तु दोष:। यथाह श्रुति:। ते असुरा अयज्ञा अदक्षिणा अनक्षत्रा अदर्शमपौर्णमासमनाययणमतिथिवर्जं तं चाहुतमवैश्वदेवमश्रद्धयाऽविधिना हुतमासप्तमान् तस्य लोकं हिनस्तीति। तस्मादुभयसम्भवे ये चतुर्दशीमुपवसन्ति ते नि:फलमेवात्मना यागं कृत्वा प्रजानां महान्तं दोषं जनयन्ति। 

यथाह स्मृति:।

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमै:।

विप्राणां कर्मदोषैस्तै: प्रजानां जायते भयम्।।इति। 

तस्मादुभयकालसंरक्षणायेदं ज्योति:शास्त्रं महर्षिणा आम्नातम्। तत्र पञ्चानामपि वर्षाणां मासद्वयचोदनायामेकमेकमृक्षं चतुर्भिरन्तरान्तरवर्त्तमानै: सहितं निदर्शयति युगपदस्य सकृदेव। तद्यथा।।17।।

सुधाकर: - इदानीमग्रिमश्लोकोक्तसङ्केतेन पक्षान्ते भांशज्ञानतो नक्षत्रमाह जावाद्यंशैरिति। पर्वसमये अंशैर्भांशै: समं तुल्यं जौ-आदि नक्षत्रं गणको विद्याज्जानीयात्। अत्रैतदुक्तं भवति। पर्वकाले "भांशा: स्युरिष्टका: कार्या: पक्षा द्वादशकोद्गता:" इति पूर्वोदितप्रकारेण ये भांशा: समागतास्तत्सङ्ख्या 'जौ द्रा ग: खे' इत्यादिक्रमेण गणनया यस्मिन् नक्षत्रे स्यात् तदेव पर्वणि नक्षत्रं स्यात्। यथा यदि भांशमानम्=2। तदा क्रमगणनया द्वितीयं द्रा आर्द्रा भं स्यात्। एवं यदि भांशमानम्=27। तदा क्रमगणनया सप्तविंशतिसंख्याकं ष्ठा श्रविष्ठभं स्यात्। यदि भांशमानम्=28। तदेदं सप्तविंशतितष्टं शेषेणैकेन समं पुन: क्रमगणनया जौ अश्विनीभं स्यात्। एवं कस्मिँश्चिद्भांशमाने सप्तविंशतितष्टतो। नक्षत्रं स्यात्। तस्य भस्य चानीता भांशा गता: म्युरित्यर्थ:। अथ रविसावनदिनस्य पूर्वार्धे मध्याह्नात् प्राक् पर्व भवेत् तदा तस्मिन्नेव दिने पर्व ज्ञेयं तदैव स्नानदानादिकं कार्यमिति। यदि तूत्तरे दिनस्योत्तरार्धे पर्व तथा द्विभागेभ्यो द्विपादभागेभ्योऽधिके भांशमाने तदा तद्दिने चतुर्दश्यामेव पूर्वविधिनाऽऽगतस्य भस्यादानं ग्रहणं कार्यम्। अत्रैतदुक्तं भवति। भागद्वयमतिक्रम्य मध्याह्नानन्तरं यदि पर्व तदा तद्दिने न दर्शपौर्णमासप्रारम्भ: किन्तु स्नानदानादिकर्मणि तद्दिने उदये चतुर्दशी ज्ञेया। पूर्वविधिनाऽऽगतनक्षत्रस्य ग्रहणं च तस्यां चतुर्दश्यामेव कार्यम्। अथं श्लोक: 'जौ द्रा ग' इत्यादि श्लोकस्य प्राक् प्रमादतो विलिखित:।

imageअत्रोपपत्ति:। एकस्मिन् युगे चान्द्रपर्वाणि वा पक्षा:=124। चान्द्रनक्षत्राणि=1809 पूर्वमेव पञ्चदशश्लोकभाष्ये लिखितानि। अथ यदि पर्वगणमानम्=प, तचत्यगतनक्षत्रमानम्=न। वर्त्तमाननक्षत्रस्य गता भांशश्च=भा, तदा यदि 124 पक्षै: पर्वभिर्वा 1809 नक्षत्राणि लभ्यन्ते तदा प-पर्वभि: किमिति लब्धानि न-नक्षत्राणि शेषाणि भा-भांशा:। अतो लब्धिगुणो हर: शेषयुतो भाज्यराशिसम:। 

तेन 1809 प=124 न+भा। अत: प= । अत्र पमानमभिन्नम्। अत: कुट्टकेन रूपक्षेपे।

 

0/14 ततो लब्धिगुणौ 17। 248। स्वक्षेपेण भासंज्ञकेन

1/1  गुणौ जातौ भा-क्षेपे लब्धिगुणौ 17 भा।

वल्ली      2/3 248 भा। ''ते भाज्यतद्भाजकवर्णमाने'' इति भास्क

1/0 रबीजोक्त्या न = 248 भा = (9×27+5) भा।

 

प=17 भा। नक्षत्राणां सप्तविंशतेरल्पत्वात् भा-वशेन गतनक्षत्राणि= न=5 भा। अत्र भा-मानस्य हरा-124 ल्पत्वात् भामानं 1,2,3....,124। इत्यादिभिरुत्थाप्य श्रविष्ठादिगणनया जावादिनक्षत्रक्रमाण्युपपद्यन्ते।

यथा यदि भांशमानम्=भा=1 तदा गतनक्षत्रसंख्या=न=5। अविष्ठात: क्रमगणनया गतभं रेवती वर्त्तमाननक्षत्रं चाश्विनौ जौ वा। एवं यदि भा=2 तदा गतनक्षसंख्या=10। श्रविष्ठात: क्रमगणनया गतभं मृगशिरो वर्त्तमानं चार्द्रा वा द्रा-इति। एवमन्यानि पाठपठितान्यायान्तीति। अथ यदि भा=27इ+शे तदा गतनक्षत्रसंख्या=27×5×इ+5शे सप्तविंशतितष्टेन गतनक्षत्रसंख्या=5शे। अत: सप्तविंशतितष्ट-भांशमानेन एकद्व्यादिसमेन पुन: पुनस्तान्येव नक्षत्राणि समायान्ति। एवंलब्धिमानम् "17 भा" अस्मिन् भास्थाने 1,2,3,.....,124 उत्थापनेन पर्वमानं समायाति। यथ्ज्ञज्ञ यदि भा = 1 तदा पर्वमानम् = 17। युगादित: 17 मिते पर्वगणे भांशमानं रूपं तत्रस्थं नक्षत्रं च 'जौ' भवतीति। एवं वास्तवभांशमानत: पर्वसंख्या तत्र स्थितं नक्षत्रं च सुलभेन ज्ञायते। पूर्वोदितेनैव प्रकारेण डॉ. थिबो-लिखिता पर्वनक्षत्रसूची उत्पद्यते। इदं सर्वं हि प्रकारान्तरेण बार्हस्पत्येन साधु प्रतिपादितं परन्तु 'जावाद्यंशै' रिति श्लोकस्य तदीयं व्याख्यानं न साध्विति सुजनैर्निपुणं विलोक्यमित्यलं पल्लवितेन।।17।।

जौ द्रा ग: खे श्वे ही रो षाश्चिन्मूषक्ण्य: सूमाधाण:।

रेमृ (म्रे) घा: स्वा पो ज: कृष्योह ज्येष्ठाइत्यृक्षा लिङ्गै:।।18।।

सोमाकर: - जौ द्रा ग: खे श्वे इति। सप्तविंशतिभिरक्षरैर्नामदेवता-वयवभूतैर्नक्षत्राणि। तेषामवयवास्तेषां क्रमस्तस्य च कालव्यवस्था तथा तिथेऋतोर्नक्षत्रस्य युगस्य चाधिमाससम्भवस्योत्तरनक्षत्राणां वर्षस्य मानान्येतानि दश वस्तूनि चोदितानि भवन्तीति वाक्यशेष:। तेषां संख्याद्योतनार्थं स्थाननियमार्थं चैवं निर्देश:। यस्य पादाक्षरं यत्सङ्ख्याकं प्रतिपदादौ भवति पूर्वं पञ्चदश्यन्ते यदि द्वौ तदोभौ विभज्यौ। यथा द्वयंशमार्द्रा द्रेति चोदितम्। एवं सर्वाणि द्वयक्षरचोदितानि। त्र्यक्षराणां तु चोदिताक्षरनिर्दिष्टोऽशं: प्रतिपदादौ स यदि द्वितीयस्तदाऽऽद्य: पञ्चदश्य न्तद्वावुत्तरे। यथा षेति चोदिते आश्लेषा तृतीये तु चोदितौ द्वौ पूर्वमुत्तर: प्रतिपदि यथा ण्य इति भरणी। यदि चतुरंशस्तदा चोदितोऽश: प्रतिपदादौ त्रय: पूर्वम्। यथा जावित्यश्चयुजोपलक्षिताश्विनीति। एतदर्थं भादानं स्याच्चतुर्दश्यामित्युक्तम्। पूर्वार्धे पर्वसूत्तरा इति वचनात्। संख्याक्षरचोदितानां पूर्वाक्षरचोदितानां तु प्रथमोऽश: पञ्चदश्यन्ते शिष्टा: प्रतिपदि यावन्तो भवेयु:। यथा रो इति रोहिणी एव मन्येषां सर्वेषाम्। अथवा सैव प्रतिपदादौ चोदिता रो इत्यादिको भवेत् तदा तु न नववास: (नवाध्यंश: इति पाठ: साधु:) पञ्चदश्यन्ते "नवकैरुद्गतोऽशं" इति विधानात्। अथैषा चोदना। अथवा दर्शप्रधाना चैव वा। तेषां तत्र पूर्वाक्षरचोदिताऽपेक्षया च। एवं जावित्यश्विन्यन्तेन निर्देशं पर्व तदैषामपि देवतोपलक्षितानां तयोपलक्षित आश्वयुज्यादौ यागकालस्तस्मिन् सत्यपि वा। तत: प्रभृति पञ्चवर्षाणि सैव व्यवस्था कर्तुं यावत्। तत्र तु अष्टत्रिंशं शतं पर्वराशिर्भवति। ततोऽर्धभागेनैकोसप्तति: 69 पूर्वं पूर्णान्तात् पृष्ठे विहाय पर्वोत्तरमेकोनसप्तति 69 रन्या नाडिका यागकाल:। एवमेषां चतुरंशानां व्यवस्था। एषैव तदुत्तराणां चतुर्णामन्येषां पर्वणां व्यवस्थेत्येके आहु:। यस्मादेतदर्थमेवान्यानि चत्वारि नक्षत्राण्यन्तरा नोक्तानि। अन्ये त्वाहुर्यस्मात् पञ्चानामपि पर्वणामेकेनैव प्रत्यत्नेन सकृदेव व्यवस्षाव्यते एकेनैवर्क्षपर्वङ्ग्रहेण। तस्माद्यस्य या व्यवस्था साङ्गतया मुख्ययाऽऽवृत्त्या स्वचोदिते पर्वणि भवत्यन्यत्र तु गौणी। तस्मात् पर्वर्क्षचोदिता व्यवस्थेत्यन्येषां व्यवस्थामाहु:। एवमुत्तरेषामपि अन्तर्क्षाधिमासे कृत्तिकानां नियतग्रहणं यतस्तयोपलक्षित: कार्त्तिक:। कालचोदनायामनिर्दिष्टानां भरण्यादीनामपरपक्षपञ्चदशीषु कालावाप्ति स्तृतीया (तृतीया व्यवस्था इति पाठ: साधु:)। एवमन्येषाम्। एवमेतेनैवैकेन निर्देशेन पञ्च वर्षाणि गम्यन्ते। द्रेत्यार्दा द्वावंशौ मार्गशीर्ष्यामुक्त                                   प्रायमन्यत्। ग इति भगदेवतोपलक्षिता पूर्वाफाल्गुनी तस्या द्वावंशौ उक्ता व्यवस्था सा तु फाल्गुन्याम्। खे इति विशाखा त्रयोऽशा वैशाख्यामुक्ता व्यवस्था। श्वे इति विश्वेदेवास्तदुपलक्षितोत्तरषाढी तस्यां चन्द्रगत्यपेक्षयांशकल्पनाश्चत्वारो द्वौ...वा। एवमेव हिरित्यहिर्बुध्योपलक्षिता प्रोष्ठपदा। रो इति रोहिणी त्र्यंशा द्वितीये वर्षे तत: पञ्चपर्वाण्यतिक्रम्याधिकमासकल्पनार्थे कालव्यत्यास: सा कार्त्तिक्याम्। षा इत्याश्लेषास्त्र्यंशा इत्येव। त्रिदिति चित्रा तथा चैत्र्यां द्वौ। मू इति मूले द्वौ। षक्-इति शतभिषक् चतुरंशा:। ण्य इति भरणी त्रयोऽशा:। (ज्यैष्ठ्यां तृतीयवर्षादि:)। सू-इति पूनर्वसू चतुरंशोऽधिकमासपेक्षा। मेत्यर्यमोपलक्षितोत्तराफाल्गुनी त्र्यंशा:। तथैव धेत्यनुराधा चतुरंशकल्पना। ण इति श्रवणां त्र्यंशम्। तथैव रे इति रेवती चतुर्थे संवत्सरे (प्रथम) त्र्यंशा:। मृ इति मृगशिरश्चतुरंशं तथैव। घेति मघा द्वंशं तथैव। स्वेति स्वाती तथैव। आप: पूर्वाषाढा तथैव। अज इति पूर्वप्रोष्ठपदा द्वयंशं चतुरंशं वा। कृ इति कृत्तिका पञ्चमवर्षे त्र्यंशम्। ष्येति तिष्यं द्वयंशं तथैव ह इति हस्त द्वयंशम्। ज्ये इति ज्येष्ठा तथैव (ज्यैष्ठयां) मासापेक्षया नियम:। ष्ठा इति धनिष्ठा श्रावण्यन्ते त्र्यंशम्। एवमेभि: स्मर्यमाणैऋक्षैर्यागकाल: प्रकल्प्य:। एवमेव त्वृक्ष चन्द्रगत्यपेक्षया। अयवैतत्तु ऋक्षं चोदनायामुत्तरोत्तरं षष्टिसङ्ख्याक्रमेणोदाहृता। आर्द्रा पौन: पुन्येन षष्टितमा स्यात्। गेति तस्मात् खे इति एवं सर्वे तस्मात् तथैव्‍ संख्यया पर्व ततस्ततोऽपि प्रकल्प्या:। एवं तु द्विमासान्तरचोदनाय पूर्वर्क्षचोदनायैव व्यवस्था। पौषमाघमासयोर्यथादौ यत: पञ्चानामृतवस्त्र्यंशात् पर्वर्क्षाश्च सप्तविंशति:। तस्मादर्धपञ्चमभकल्पनयैव सर्वे प्रत्येतव्या:। तस्मादेवं सर्व एव प्रवक्ष्यतेऽस्य मासोपलक्षकाश्चापि भरण्याद्या:। तस्मादेव कालसाम्यम्। एवमेतेषाम्।।18।।

सुधाकर: - इदानीं पक्षान्ते पूर्वागतभांशतो नक्षत्रज्ञानार्थमादौ लाघवेन नक्षत्रनामस्‍रणार्थं भांशक्रमतो नक्षत्राणां लघुनामान्याह जाविति। जौ (आश्वयुजौ = अश्विनौ)। द्रा (आर्द्रा)। ग: (भग:=पूर्वफाल्गुन्यौ)। खे (विशाखे)। श्व (उत्तराषाढा = विश्वे)। हिर् (उत्तरभाद्रपदा=अहिर्बुध्यम्)। रो (रोहिणी)। षा: (आश्लेषा:)। चित् (चित्रा)। मू (मूलम्)। षक् (शतभिक्)। ण्य: (भरण्य:)। सू (पुनर्वसू)। मा (उत्तरफाल्गुन्यौ = अर्यमा)। धा: (अनुराधा:)। ण: (श्रवणा:)। रे (रेवती)। मृ (म्रे) (मृगशिर:)। घा: (मघा:)। स्वा (स्वाती)। प: (पूर्वाषाढा = आप:)। ज: (पूर्वभद्रपदा = अज: = एकपात्)। कृ (कृत्तिका:)। ष्य (पुष्य:)। ह (हस्त:)। ज्ये (ज्येष्ठा)। ष्ठा: (श्रविष्ठा: = धनिष्ठा:)। इति लिङ्गै सङ्केतै: ऋक्षा नक्षत्राणि द्राक्स्‍मरणार्थं ज्ञेया इति। इदं विद्युन्मालानाम छन्द:। तत्र सर्वे वर्णा दीर्घा भवन्ति। लाघवेनैकाक्षरेण नामग्रहणे सर्वेषां नामानि भिन्नानि यथा भवेयुर्यथा। छन्दोभङ्गोऽपि न भवेत् तथा स्वेच्छया नक्षत्रनामत: पूर्वात्रये उत्तरात्रये च तुल्याक्षरग्रहणे नामैक्यदोषात् तत्तद्देवतानामतोऽक्षराणि गृहीतानि आचार्येण। मन्मते चित्रायामाचार्येण 'चित्'-इति गृहीतम् तेन 'चिन्मू' इति पाठ: साधु:। एवं वैदिकव्याकरणानुसारेण 'मृ' इत्यस्योच्चारणं 'म्रे' इति भवति तेन न छन्दोभङ्गदोष इति। अच बार्हस्पत्यव्याख्यानं समीचीनम्। युक्तपरो हि वर्णो दीर्घो भवति-इति बुद्ध्याऽऽचायर्येण नक्षत्रनामसु आदिमध्यान्ताक्षराणि गृहीतानि यतो नामाक्षराणां कस्याप्यक्षरस्य ग्रहणेन न काश्चिद्विशेषस्तदक्षरेण तस्यैव नक्षत्रस्य ग्रहणादित्यलम्।।18।।

कार्या भांशाषृकास्थाने कला एकान्नविंशति:।

ऊनस्थाने द्विसप्तति मुद्वपेद्युक्तसम्भवे (मावपेदिनसंयुताम्-इति पाठ: साधु:) ।।19।।

सोमाकर: - कार्या भांशेति। तेषामृक्षाणां ये स्थानमुक्तस्तेऽष्टका: (भांशा उक्ता इति पाठ: साधु:) कार्या अष्टनाडिका इत्यर्थ:। उक्तमेतद्विशेषार्थं पुनरुच्यते। विशेषस्तु कला एकान्नविंशतिरधिका उद्वपेदादाविति वाक्यशेष:। तथा ऊनस्थाने द्विसप्ततिमपि तत्र दद्यात्। किं सर्वकालम्। ऊनस्थाने युक्तसम्भवे ऊनर्क्षचन्द्रयोग इत्यर्थ:। एवमत्रैषा यागकालचोदना मिश्रिताभिप्रायानुसारिणी तथा ऋतुयाजी वान्यश्चतुर्मास्ययाजीति। तथा तामेव चोदितां गणनार्माभिप्रेत्य लौगाक्षिणा तान्येव पञ्चवार्षिकाण्याम्नातानि। संवत्सरस्य षडहेऽतिरिच्यत इत्यादि यथा तस्मात पञ्चानां वर्षाणामेक एव प्रयत्न:।

सुधाकर: - इदानीं पर्वभांशत: कलानयनमाह कार्या इति। एकस्मिन् वर्षे अष्टकाश्चतस्रो भवन्ति (अश्नन्ति पितरोऽस्यामित्यष्टका) ताश्च वेदे (हेमन्तशिशिरयेश्चतुर्णापरपक्षाणामष्टमीष्वष्टका एकस्यां वा इति आश्वलायनसूत्रम्। माध्या: पूर्णामास्या उपरि द्वयष्टका तस्यामष्टमी ज्येष्ठया संपद्यते तामेवाष्टकेत्यावक्षते-इति अपस्तम्बसूत्रम्। ऊर्ध्वमाग्रहायण्यास्तिस्रोऽष्टका:। ऐन्द्री वैश्वदेवी प्राजापत्या पित्र्या इति पारस्करगृह्यसूत्रम्। मध्या वर्षे च तुरीया शाकाष्टका इति तत्रैव) प्रसिद्धास्तेनाष्टकाशब्देन चत्वारि गृह्यन्ते। ततोऽस्य श्लोकस्य व्याख्यानम्। भांशानामष्टका भांशाष्टका तत्स्थाने एकोनविंशति: कला: कार्या:। तथा ऊनस्थाने हीनस्थाने हीनजातीयकाष्ठास्थाने गणक इनै: सूर्यैर्द्वादशभि: संयुतां द्विसप्ततिं चतुरशीतिमावपेत् प्रक्षिपेत्। अत्रैतदुक्तं भवति। भांशाना प्रतिश्चतुष्कं एकविंशति: कलाश्चतुरशीति: काष्‍ठाश्च कार्या इति।

अत्रोपपत्ति:। यदि युगचन्द्रनक्षत्रै: 1809 युगकुदिनानि 1830 लभ्यन्ते तदैकेन चन्द्रनक्षत्रेण किम्। लब्धम् एकं कुदिनं कुदिनशेषं च। तत्रैकस्य कुदिनस्य हरसमान् त्र्यधिकषट्शतमितान् भागान् कृत्वैकस्‍य भागस्य संज्ञा कला कृता। तत एकस्मिन् चन्द्रनक्षत्रे एकं कुदिनं सप्तकला वा 603+7=610 कला भवन्ति। चक्ष्यति चाचार्य: "ससप्तकै भयुक् सोम:" इति। पुनरेककलायां चतुर्विशत्यधिकशतसमान् भागान् कृत्वा एकभागस्य काष्ठा संज्ञा कृता। इदमपि वक्ष्यति चाचार्य: "काष्ठानां चैव ता: कला" इति। ततोऽनुपातो यद्येकचन्द्रनक्षत्रेण वा चतुर्विंशत्यधिकशतभांशै: 610 कला लभ्यन्ते तदा चतुर्भिर्भांशै: किम्। लब्धा एकाष्टकायां कला:= कला: + 84 काष्ठा:। अत उपपन्नं सर्वम्। अत्र बार्हस्पत्यव्याख्यानं तदुपपत्तिश्च न साध्वीति।।19।।

तिथिमेकादशाभ्यस्तां (तिथिमर्कदशाभ्यस्तां इति पाठ: साधु:) पर्वभांशसमन्विताम्।

विभज्य भसमूहेन तिथिनक्षत्रमादिशेत्।।20।।

सोमाकर: - एवमत्र या तिथिचोदना तामाह तिथिमेकादशाभ्यस्तामिति। पर्वचोदितां तिथिमेकादशाभ्यस्तां पञ्चदशीमेकादशभिर्गुणिताम्। सङ्गुण्य पञ्चषष्टि: शतं भवति। विभज्य भसमूहेन सप्तविंशत्या भागमहृत्य त्रीण्यवशिष्यन्ते। एवं पुनस्तृतीयं पर्वर्क्षं तस्माद्यवति प्रागुक्तादेकान्तरेऽह्वीति। यदुक्तम्। अथवा तिथिपरिमाणमुत्तरे श्लोके वक्ष्यति तासु सप्तगुणां तिथिमिति। एवं तिथे: सप्तावयवास्तानेकादशभिर्गुणयेत् सप्तसप्ततिर्भवति। तत: पर्वभांशसमन्वितां कुर्यादिति वाक्यशेष:। एतदुक्तं भवति। तिथ्यवयवेषूपरि पर्वनक्षत्रावयवान् विन्यसेत् द्वौ वा त्रीन् चतुरो वा तत एकान्नाशीति 79 रशीति 80 रेकाशीति 81 र्वा भवति। ततस्तान् विभज्य भसमूहेन ऋक्षगणेन जातं (सप्तविंशतिमितेन तेन) सप्तविंशतिस्तेन भागमपहृत्य पञ्चविंशं षड्विंशं सप्तविंशं वा नक्षत्रं तस्मिन्नहनि तिथिनक्षत्रमादिशेत् कथयेदित्यर्थ:। सा च संख्या पर्वभांशसमन्वितामिति वचनात् तस्मादेव नक्षत्रादारभ्य प्रवर्त्तते नाश्विन्यादे:। एवं तु येन यो मास उपलक्षितस्तस्मिंस्तस्मादेव गणना प्रवर्त्तते। तथा तूत्तरेषु सर्वेषु स्फुटतरा प्रवृत्तिर्भवति। यतस्तथोपलक्षितं नक्षत्रं नियमेन सर्वकालं भवति। यदि त्वेवं सर्वासां तिथीनां नक्षत्रानयनमिच्छेत तदा नष्टकालानयनान्यन्यानि करणान्यनुसृत्योहापोहाभ्यां कल्पयेदस्याकृत्स्नत्वात् तेनेहोपकारकृत्। यस्मादिह पर्वचोदनया पक्षद्वयचोदितो यागकाल एव प्रकृतस्तस्मादेतदेवोच्यते।।20।।

सुधाकर: - इदानीमिष्टतिथौ नक्षत्रानयनमाह तिथिमिति। अर्कैर्द्वादशभिर्दशभिश्चाभ्यस्तां गुणितां तिथिं किंविशिष्टाम्। पर्बभांशसमन्विताम्। पर्वणि 'भांशा: स्युरिष्टका: कार्या: पक्षा द्वादशकोद्गता:' इति विधिना ये भांशा: स्युस्तै: समन्विता युक्तेति तां भसमूहेन भांशसमूहेन चतुर्विंशत्यधिकशतेन विभज्य लब्धं गणकस्तिथिनक्षत्रं तिथिसम्बन्धिनक्षत्रमादिशेत् कथयेदिति।

अत्रोपपत्ति:। एकयुगे चन्द्रदिनानि वा तिथय: = 1860। चन्द्रनक्षत्राणि च = 1809। ततोऽनुपातो यदि युगतिथिभिर्युगनक्षत्राणि तदेष्टतिथिभि: किम्। लब्धानि नक्षत्राणिति वा नक्षत्रांशा: तितिति= 120ति+ति अत्र द्वितीयखण्डं त्यक्तं तदर्थं16 श्लोके नवकैरित्यादौ संस्कारविशेष: कथित आचार्येण। अत्र पर्वभांशयुतेनेष्टतिथौ भांशमानमेकनक्षत्रभांशमानेन भक्तं तिथिनक्षत्रमानं स्फुटमत उपपन्नम्। मन्मतेऽस्य श्लोकस्याय एव

16 श्लोकनिवेश उचित:। अत्र बार्हस्पत्यशोधितपाठस्तद्व्याख्या तदुपपत्तिश्चेति सर्वं न साध्विति सुधीभिर्भृशं विचिन्त्यम्।।20।।

 

या: पर्वभादानकलास्तासु सप्तगुणा तिथि:।

उक्ता स्तासां (युक्ता ताश्च इति पाठ: साधु:)विजानीयात् तिथिभादानिका: कला:।।21।।

सोमाकर: - पवमत्र चोदितायास्तिथे: परिमाणमाह या: पर्वभादानकला इति। या: पूर्वमुक्ता: कथिता: पर्वभादानकला:। भांशा: स्युरष्टका: कार्या इति। सप्तनवकैस्त्वावापो यदि नेह विवक्षितस्तिथीनां समूहत्वात्। कलापरिमाणमुपरिष्ठाद्वक्ष्यति पर्वणां स्याच्चतुष्पादी काष्ठानां चैव ता: कला इति। किं तासामित्याह। तासु सप्तगुणा तिथिर्भवेदिति वाक्यशेष:। एतदुक्तं भवति। पर्वभांशसमन्वितैरंशै: सप्तभिस्तिथिपरिमाणं कल्पयेत्। सप्तांशानि तिथिर्भवतीत्यर्थ:। एवमतस्तासामपि कारणभूतानां सम्यग् विजानीयात् कास्तिथिभादानिका: कला या: पूर्वचोदिता: कला। पूर्वार्धे पर्वसूत्तरा इत्यादौ तिथिभादानिका: कलास्तस्यां तिथौ पर्वनक्षत्रकल्पना तस्यामेव भवेदित्यर्थ:। पूर्वपूर्णमास्यां तदंशचोदितयागकालकल्पनयौपवसथादि कार्यमित्यर्थ:।।21।।

सुधाकर: - इदानीमिष्टतिथितुल्ये गतनक्षत्रे तत्कलानयनमाह या इति। पुर्वप्रकारेण पर्वसमये या भादानकला आगतास्तासु सप्तगुणतिथिर्युक्ता ताश्च गणकस्तिथिभादानकलास्तिथितुल्ये गतभे सति आदानकला ग्रहणयोग्या: कला विजानीयात्। यदि पर्वतो गततिथिसंख्यासममेव गतनक्षत्रमानं तदा पर्वभादानकलासु सप्तगुणतिथिर्योया। योगसमास्तिथितुल्ये पर्वतो गतभे तस्यादानकला भवन्तीति।

अत्रोपपत्ति:। तिथितुल्ये पर्वतो गतभे तिथिसंख्यासमा गतनक्षत्रसंख्या। एकैकस्मिन् नक्षत्रे तु एकं कुदिनं सप्तकलाधिकं भवति "ससप्तैकं भयुक् सोम:" इति वक्ष्यमाणवचनात्। अतो दिनस्य प्रयोजनाभावात् पर्वभादानकलासु सप्तगुणा तिथिर्युक्ता ताश्च तिथिदिने भस्यादानकला भवन्तीति स्फुटम्। अत्र बार्हस्पत्यव्याख्यानं न स्फुटमिति।।21।।

अतीतपर्वभागेभ्य: शोधयेदू द्विगुणां तिथिम्

तेषु मण्डलभागेषु तिथिनिष्ठां गतो रवि:।।22।।

सोमाकर: - तथा परपक्षार्थमाह अतीतपरभागेभ्य इति। द्वौ त्रयश्चत्वारो वा षोडश चतुर्विंशतिर्द्वात्रिंशद्वा तेभ्य: शोधयेत् पातयेत् द्विगुणां तिथिं द्वौ सप्तकौ चतुर्दशेत्यर्थ:। तत: किम्। तेषु मण्डलभागेषु भायावत्सङ्ख्याकेषु तिथिनिष्ठां गतो रविर्भवेदिति वाक्यशेष:। एतदुक्तं भवति। अमावास्यायां पर्वर्क्षचोदनाभावात् तत: परं पञ्चदशं यत् तदपेक्षयौपवसथादौ प्रवृत्ति:। पूर्वेऽशे तिथेर्निष्ठा निष्पत्तिगतो रवि:। तद्दिवससूर्यर्क्षभागकल्पना एवं वा भवन्तु।।22।।

सुधाकर: - इदानी तिथिमानमानयति अतीतेति। सूर्योदयादतीतपर्वणो गतपर्वणो ये भागा भोगभागा उन्नतांशा ये चैकसावनदिने चतुर्विंशत्यधिकशतमिता भवन्ति तेभ्यो द्विगुणां तिथिं गणक: शोधयेत्। शेषेषु तेषु मण्डलभागेषु स्वाहोरात्रवृत्तभागेषु यदा रविरागच्छति तदा स रविस्तिथिनिष्ठां तिथिमानान्तं गतो भवति। द्विगुणतिथिशोधनेन येऽहोरात्रवृत्तभागा आगतास्त एव तिथिभोगभागास्तद्भागसमो यदा रविरुन्नतस्तदा तिथ्यन्ते स्थितो भवतीत्यर्थ:।

अत्रोपपत्ति:। अतीतपर्वभागास्तद्दिने पर्वणो भोगभागा:। अथैकतिथौ रविसावनभागानयनार्थमनुपातो यदि 1860 तिथिभि: 1830 सावनदिनानि लभ्यन्ते तदैकतिथौ किमिति लब्ध: सावनदिनावयव: तिति=ति-ति=ति-ति= तिथिसमानि दिनानि - 2तिथिभागा:। अत्र दिनानां प्रयोजनाभावात् द्विगुणतिथिसमा भागा: पर्वभागेभ्यो विशोधितास्ते वर्त्तमानतिथेर्भोगभागा भवन्तीति बार्हस्पव्यव्याख्यानं गणितं च समीचीनमिति।।22।।

विषुवन्तं (विषुवत् तद् इति पाठ: साधु:)द्विरभ्यस्तं रूपोनं षङ्गुणीकृतम्।

पक्षा यदर्धं पक्षाणं तिथि: स विषुवान् स्मृत:।।23।।

सोमाकर: - विषुवन्तं द्विरभ्यस्तमिति। द्विरिति द्वैविध्यमुक्तं तद्विषुवत्संज्ञकमुक्तं दिवससंज्ञकमुक्तम्। तदेव पक्षा वा तदेव परिमाणं चतुर्दश रूपोनमेकेनोनं त्रयोदशकं तावन्मात्रं दिनद्वयं षङ्गुणीकृतं द्वादशगुणनया दिनानि पक्ष:। असावार्क्ष एव न चान्द्र एतदेवागमतो यदेतत्तद्रूपोनमध्यर्धं मध्यतिथे: स विषुवान् स्मृत:। तिथिदिनानां तु चान्द्रमस एव न सौर्य:। पक्षा द्वादशका इति यदुक्तं तदेव शुनकप्रतिपादितं वक्ष्यमाणतत्सङ्ख्योपयोग्यम्।।23।।

सुधाकर: - इदानीमभीष्टविषुवत्समये युगादित: पक्षतिथ्यानयनमाह विषुवदिति। "समरात्रिदिवं कालं विषुवद् विषुवं च तत्" इत्यमर:। विषुवच्चैकस्मिन् सौरवर्षे सायनमेषादौ सायनतुल्यादौ भवतीतिवर्षमध्ये वारद्वयं भवति। ज्यौतिषवेदाङ्गे रविचन्द्रादीनां समानवेगेन चलनाद् द्वयोर्द्वयोर्विषुवतोर्मध्ये समानान्येव सौश्रचान्द्रदिनानि भवन्तीति प्रसिद्धम्। विषुवद् युगादितोऽभाष्टविषुवत: संख्यात्मकं यन्मानं भवेत् तद् द्विर्द्विकेनाभ्यस्तं गुण्यं गुणितफलं रूपेणैकेनोनं शेषं षङ्गुणीकृतं षङ्गुणं कार्यम्। इदं गुणनफलं स्वविषुवति युगादित: पक्षा भवन्ति तथाऽऽगतानां पक्षाणां यदर्धं यद्दलं स एव विषुवान् तिथि: स्मृत: आचार्यैरिति। "तिथिर्द्वयो:" इति लिङ्गानुशासनात् तिथिशब्द: पुंलिङ्गेऽपि।

अत्रोपपत्ति:। माघशुल्कादेर्युगादे: सौरमासत्रयान्तरे प्रथमं विषुवत्। अतो यदि 60 सौरैर्मासैर्युचान्द्रपक्षा 124 लभ्यन्ते तदा सौरमासत्रयेण किमित्यनुपालेन लब्धा: पक्षा:=क्षेपाख्या:। अथ द्वयोर्विषुवतोर्मध्ये षट् सौरा मासा: अतस्तदन्तर्गता: पक्षा:=। द्वयोर्विषुवतोर्मध्ये ह्येकगुणा विषुवत्त्त्रमध्ये द्विगुणा: अभीष्टविषुवन्मध्ये च (वि-1) एतद्गुणा: पक्षा भवन्ति। यद्यभीष्ट विषुवत्स्ङ्ख्या=वि। तर्हि विषुवदन्तर्गता: -

पक्षा: =(वि-1)वि-। क्षेपाख्ययोजनेन जाता युगादित: पक्षा:= वि-=12 वि+वि-12-=12 वि-6+वि-(2वि-1) पक्षा: +(2वि) 15 तिथय:।=6(2वि-1) पक्षा:+3(2वि-1) तिथय:।=6(2वि-1) पक्षा:+6(2वि-1)/2 तिथय:।

अत उपपद्यते सर्वम्। अत्र बार्हस्पत्यकृतं व्याख्यानं गणितं च समीचीनं शङ्करबालकृष्णदीक्षितगणितानुरूपमिति।।23।।

पलानि पञ्चाशदपां धृतानि

तदाढकं द्रोणमत: प्रमेयम्।

त्रिभिर्विहीनं कुडवैस्तु कार्यं

तन्नाडिकायास्तु भवेत् प्रमाणम्।।24।।

सोमाकर:- यस्मात् कलाभिर्नाडिकानिष्पत्तिस्तस्मादन्यथालघुत्वेनाह पलानि पञ्चाशदपां धृतानीति। पञ्चाशदपां धृतानि अष्टाब्दानि (अष्टास्राणि इति पाठ: साधु:) तस्मिन् परिमाणो ताम्रघटेनाढकं नाम प्रमाणम्। द्रोणमतस्तेन प्रमाणेन प्रमेयं प्रमातव्यम्। तदपि प्रमाणं पलशतद्वयप्रमाणं 200 तदेव पश्चात् त्रिभिर्विहीनं कुडवैस्तु कार्यम्। कुडवजा त्र्यङ्गुला शलाका तयाधश्छिद्रयेत् ततश्छिद्रोदकप्रस्रुत्या यावन्मात्रा कलोपगच्छति तन्नाडिकाया घटिकाया: प्रमाणं भवेत् सा भवतीत्यर्थ:।।24।।

सुधाकर: - इदानीं नाडिकाप्रमाणमाह पलानीति। अपां जलस्य पञ्चाशत् पलानि यस्मिन् पात्रे धृतानि स्थापितानि तत् पात्रमाढकं कथ्यते। अतोऽस्मादाढकमानात् पूर्वाचार्यमतेभ्यो द्रोणं द्रोणमानं प्रमेयं प्रमातव्यम्। तद् द्रोणं त्रिभि: कुडवैर्विहीनं शेषं नाडिकाप्रमाणं भवेदिति सर्वं विस्तरतोऽष्टमश्लोकभाष्ये पूर्वं व्याख्यातमिह किं पिष्टपेषणेनेति।।24।।

एकादशभिरभ्यस्य पर्वाणि नवभिस्तिथिम्।

युगलब्धं सपर्व स्याद्वर्त्तमानार्कभक्रमात्(स्याद्वर्त्तमानार्कभं क्रमात्-इति पाठ: साधु:)।।25।।

सोमाकर: - तत्प्रसङ्गादुक्त्वा यागकालविधिविशेषमाह। पर्वाणीति। तदर्थानामवयवा: कलासमूहा येऽष्टका: कार्या इत्युक्ता: षोडश वा चतुर्विंशतिर्द्वात्रिंशद्वा द्वित्रिचतुरंशानेकादशभिरभ्यस्य सङ्गुण्य षोडशानां षट्सप्तत्यधिकं शतं 176 भवित। चतुर्विंशते: शतद्वयं चतु:-षष्टि: 264। द्वात्रिंशत: शतत्रयं द्विपञ्चाशच्च 352। तथा नवभिस्तिथिं तिथ्यवयवानपि नवभिरभ्यस्य ते च सप्तानामष्टकानां षट्पञ्चाशत् 56 भवन्ति। तान् नवभिरभ्यस्य शतपञ्चकं चत्वारि च 504। ता एकीकृत्य शतत्रयेण द्वापञ्चाशता च सह शताष्टकं षट्पञ्चाशच्च 856 भवति। तेषां युगलब्धं युगा द्वादशेह युगोपन्यासप्राधान्यात्। तैस्ततो भागमपहृत्य यल्लब्धमेकसप्ततिकं 71 स पर्व स्याच्चतुरंश: स्यादिति शेष:। एवं त्र्यंशावयवैश्चतु:षष्टयधिकेन शतद्वयेन सहाष्टषष्टयधिकं शतसप्तकं 768 भवति। तस्य तथैव भागापहारे लब्धं चतु:षष्टि 64। तथैव द्वयंशस्य शतषट्कमशीतिश्च 680। लब्धं तथैतत् षट्पञ्चाशत् 56। कृत्ये च कदौपवसथे पर्वकाल इत्याह वर्त्तमानार्कभक्रमात्। यस्मिन्नृक्षे अर्क आस्ते तत उत्तर: काल इत्यर्थ:। एष एव यागकाल:। औपवसथे तु पूर्वोक्त एव। अथवैतमेवार्थमन्यथा। तिथिं त्रिंशत्संख्याकं नवभिर्गुण्येत् तथा तदा द्वापञ्चाशत् पञ्चचत्वारिंशदेकोनचत्वारिंशत् (द्यूनचत्वारिंशत् इति पाठ: साधु:) कला एकोनविंशतिमुद्वापं कृत्वा एवमेतयो: कालयोरूपक्रमापवर्गौ यथा भवतस्तथा वर्त्तितव्यम्। तमभ्युदितेष्टिपथिकृती दशमी प्रकान्ते वेदनिष्पत्तिं विद्यादिति श्रुतेश्च। एतदमावास्यामधिकृत्योक्तम्।।25।।

सुधाकर: - इदानीमिष्टतिथौ रविनक्षत्रानयनमाह एकादशभिरिति। युगादितो वर्त्तमानपर्वपर्यन्तं यावन्ति पर्वाणि "निरेकं द्वादशाभ्यस्तम्" इत्यादिना स्युस्तान्येकादशभिरभ्यस्य सङ्गुण्य तथा पर्वानन्तरं या तिथिस्तां तिथिं तिथिसंख्यां नवभि: सङ्गुण्य द्वयमेकीकृत्य युगलब्धं युगे यावन्ति पर्वाणि तत्सङ्ख्या चतुर्विंशत्यधिकशतेन लब्धं फलं सपर्व पर्वमानेन सहितं कार्यं तदा तत् क्रमात् युगादिभवश्रविष्ठादितो वर्त्तमानार्कभं वर्त्तमानसूर्यनक्षत्रं स्यात्। इदं शङ्करबालकृष्णदीक्षितव्याख्यानं समीचीनम्।

अत्रोपपत्ति:। युगे सूर्यनक्षत्राणि =5×27=135। चान्द्रपर्वाणि च =124। ततोऽनुपातो यदि युगपर्वभिर्युगरविनक्षत्राणि तदेष्टपर्वभि: किमिति लब्धानि रविनक्षत्राणि==प+। अथैकेन पर्वणा वा पञ्चदशतिथिभिर्यादि रविनक्षत्रमानम्= इदं तदेष्टतिथिभि: किमिति लब्धमिष्टतिथिसम्बन्धिरविनक्षत्रमानम् =इति=इति द्वयोर्योगेन जातं युगादितो रविनक्षत्रमानम्=प+11प+9इति/124। अत: श्रविष्ठादिगणनया वर्त्तमानतिथावर्कनक्षत्रं स्यादित्युपपन्नम्। अत्र बार्हस्पत्याख्यानं न समीचीनं तद् गणितेनापि न वर्त्तमानार्कभमायातीति गणकैर्निपुणं विलोक्यम्।।25।।

सूर्यर्क्षभागान् नवभिर्विभज्य

शेषं द्विरभ्यस्य दिनोपभुक्ति:।

तिथीयुता (तिथेर्युतेर्भुक्तिदिनेषु इति पाठ: साधु:) भुक्तिदिनेषु कालो

योगो दिनैकादशकेन तद्भम्।।26।।

सोमाकर: - अथ भेदेन परिमाणमाह। यस्मिन्नक्षत्रे सूर्य: स्थित: स सूर्यर्क्षस्तस्य भागान् भुक्तान् भागान् उक्तानष्टसंख्याकान् (अस्य यावन्त:) (अयं प्रमादतोऽधिको व्यर्थ एव) तान् नवभिर्विज्य भागं दत्त्वा तत: शेषं द्विरभ्यस्य द्विगुणीकृत्य षोडशानां नव यात्यस्य (अपास्य इति पाठ: साधु:) सप्तांशा अवशिष्यन्ते ते द्विगुणाश्चतुर्दश भवन्ति। चतुर्विशतेर्द्वौ नवकावष्टाश पात्य (अपास्य इति पाठ: साधु:) षडवशिष्यन्ते ते द्विगुणा द्वादश भवन्ति। तथा द्वात्रिंशतस्त्रीन् नवकान् सप्तविंशतिं पात्य (अपास्य इति पाठ: साधु:) पञ्चावशिष्यन्ते ते द्विगुणा दश भवन्ति। तत: किम्। सा दिनोपभुक्ति: सूर्यस्येति वाक्यशेष:। कथम्। शेषं तथैव विभज्येति वर्त्तते। एतदुक्तं भवति। यावद्यस्यावशिष्यते तद्द्विगुणं कृत्वा तथा विभज्य यस्य यावती भागावाप्तिस्तस्य तावती सूर्यभुक्तिरित्युक्तं भवति। द्वयंशस्य द्वयंशकलना यावत् त्र्यंशस्य त्र्यंशाश्चतुरंशस्य चतुरंशा एव भाव:। दिनकालपरिमाणमाह। तिथी युता भुक्तिदिनेषु काल:। तिथियुता सप्तगुणाष्टका: सा षट्पञ्चाशत्परिमाणा भुक्ति:। सा च भुक्ति: सहिता द्वाभ्यां त्रिभिश्चतुभिर्वा सहिता अष्टपञ्चाशत् 58। एकोनषष्टि: 59। षष्टि:। ता भागानां सङ्कलनया दिनेषु स कालो भवतीति वाक्यशेष:। एवं तु स्वकपरिमाणेन दिनैकादशकेन तद्भम्। एकादशभिर्दिवसै: सूर्यर्क्षं व्याप्नोतीत्यर्थ:। एवमेतद्योगे सभावे सूर्यस्य विचार्यमिति वाक्यशेष:।।26।।

सुधाकर: - इदानीं कदा वर्त्तमाननक्षत्रादौ रवे: प्रवेशो जात इत्याह सूर्यर्क्षभागानिति। अनन्तरोक्तप्रकारेण सूर्यर्क्षस्य वर्त्तमानसूर्यनक्षत्रस्य ये भुक्ता भागा भवन्ति तान् नवभिर्विभज्य फलं ग्राह्यम्। तत् फलं द्विर्द्विवारं द्वाभ्यामभ्यस्य सङ्गुण्य गुणितफलेन दिनांशमानेन पूर्वागतं फलं दिनात्मकं हीनं कृत्वा शेषं ग्राह्यम्। तदेव शेषं सूर्यस्य दिनोपभुक्तिर्भवति। शेषसमेन सावनदिनाद्येन ते भागा रविणा भुक्ता:। अतस्तत्सावनदिनाद्येन वर्त्तमानकालात् प्रागेव तन्नक्षत्रादौ रवे: प्रवेश इति। एवं तिथेर्वर्त्तमानतिथिगतभुक्तभांशेभ्यो वा युते: पर्वगणभवभुक्तभांशेभ्यश्च यानि भुक्तिदिनानि तेषु प्राक् य: काल: स एव योगो नक्षत्रादेरर्कस्य च योगकालो भवति। अथ योगकालज्ञाने सति दिनैकादशकेन दिने एकादशकेन "एकादशभिरभ्यस्य" इत्यादि भानयनप्रकारेण तद् भं योगसम्बन्धि नक्षत्रं च ज्ञेयमिति।

अत्रोपपत्ति:। युगरविनक्षत्रै 135 र्युगसावनदिनानि 1830 लभ्यन्ते तदैकेन नक्षत्रेण किम्। लब्धमेकनक्षत्रे सावनदिनमानम् एतदेव मानं वक्ष्यति चाचार्य: "सूर्यो द्यूनि त्रयोदश। नवमानि च पञ्चाहू:" इति। अथान्योऽनुपातो यद्येकेन नक्षत्रेण वा चतुर्विंशत्यधिकशतभांशैरिदं सावनमानं लभ्यते तदा रविभुक्तभांशै: किमिति लब्धं भुक्तभांशसम्बन्धि सावनदिनमानम् भुमां= (-) भुभां/9 = भुभां/9 - 2/124 भुभां/9 = भुभां/9 - सावनदिनानि - 2भुभां/9 सावनदिनांशमानम्। अस्यैव संज्ञा दिनोपभुक्ति: कृता यत एतावद्दिनपर्यन्तं रविणा तन्नक्षत्रभागा भुक्ता इति। उत्तरार्धोपपत्तिरतिसुगमा पूर्वार्धप्रकारागतभुक्तिदिनज्ञानत इति। अत्र मन्मते बार्हस्पत्यव्याख्यानं तद्गणितं च न समीचीनमिति।।26।।

त्र्यंशीभशेषो (त्र्यंशो भशेषो-इति पाठ: साधु:) दिवसांशभाग -

श्चतुर्दशश्चाप्यपनीय भिन्न्म्‌।

भार्धेऽधिके (भार्धेऽधिके वाऽल्पगते परोऽशो द्यावुक्तमेतन्नवकेर्भवेद्य: इति पाठ: साधु:) चापि गते परोऽशो द्वावुत्तमे तन्नवकैरवेर्द्यु:।।27।।

सोमाकर: - सिन्दग्धकालपरिमाणमाह त्र्यंशी भशेषो दिवसांशभाग इति। तद्रवेर्द्युर्भवेदिति शेष:। तत्परिमाणं त्र्यंशा:। तत्परिमाणमष्टौ। तथा दिवसचोदना: सप्तगुणा: षट्पञ्चाशत्प्रमाणं तत्संख्याकां तिथिं किं समयाम्। त्र्यंशी भशेषं दिवसांशभागं चतुर्दशं चाप्यपनीय तस्या अपनीय यथैकत्वं प्रागुक्तं तथा कल्पनया नवकैर्भिन्नं द्वावुत्तमे तु द्व्यंशाद्यपेक्षया पञ्च षट् सप्त वा भवन्ति। तत्। तथा दिवसांशभागं चतुर्दशं चाप्यपनीय ते अष्टानामर्धे चत्वार एवं षट्पञ्चाशत्। तान् नव वा दश वैकादश वापात्य (अपास्य इति पाठ: साधु:) सप्तचत्वारिंशत् 47। षट्चत्वारिंशत्। पञ्चचत्वारिंश 45 द्वाऽवशिष्यते। तेषामादौ अंशा अष्टौतथोपरिष्टादन्यः परोऽशंस्तेऽप्यष्टौ। एवं द्युरेकषष्टिर्द्वाषष्टिस्त्रिषष्टिर्वा नक्षत्रापेक्षया भवति। एतत्तदार्क्षं सौरम्। सोमस्य यस्यां तिथिकल्पनात्यामिह प्रमाणं नक्षत्रापेक्षया किमेव भवतीति नाक्षत्री भुक्ति:। नभे (मूले उत्तरार्धे 'चापि' स्थाने सोमाकरसंमत: पाठो 'नभे' तथा) गते नभे नक्षत्रेऽतीते अधिके च काले वा सति तत्र किं परोंशो भवेदिति वाक्यशेष:। किं सर्वकाले। न। द्वावुत्तर (द्वावुत्तमे इत्यस्य स्थाने 'द्वावुत्तरे' इति पाठो विभाति) एव कालगत्यपेक्षया पश्चिमे द्वौ पञ्चांशौ भवत:। एवमेतस्यां कल्पनायां ग्रहगणितं तद्ब्हुगणितसापेक्षत्वान्न पर्यालोचितम्। तबहु गणितज्ञा: स्फुटरं कल्पयिष्यन्ति तेषां त्वागमप्रतिपत्तये पदार्थमेवं श्रुतिपुराणप्रतिपादितम्।।27।।

सुधाकर: - इदानीं रविभुक्तनक्षत्रेषु सावनदिनान्याह त्र्यंश इति। चतुर्दशस्य सावनदिवसस्य योऽन्तिमस्त्र्यंश: स भशेष इति कथ्यते।  भस्य नक्षत्रस्य सम्बन्धेन य: शेष: स भशेष इत्यन्वर्थकं नाम तदस्ति। अतस्तद्भिन्नं खण्डात्मकं मानं चतुर्दशस्य सावनदिवसस्य मध्येऽपनीय हित्वा शेषमिते चतुर्दशदिनभागे रवेरेकस्य भस्य भोगो भवति। एतेषु सावनदिनेषु रविरेकनक्षत्रं भुङ्क्ते इत्यर्थ:। परं त्वत्र मानेऽन्तरं पतति एदर्थं विशेषं कथयति "भार्धेऽधिके" इति। रवौ भार्धे वाऽधिके भार्धाधिके वाल्पगते भार्धाल्पगते नवकैर्नक्षत्रैर्य: परोऽपर एकोऽशो भवेत् एतदपि मानं द्यौ पूर्वप्रकारागतनक्षत्रसंबन्धिसावनदिनमानेऽपनयनार्थं शोधनार्थयुक्तम्। अत्रैतदुक्तं भवति। एकनक्षत्रभोगसावनमानं "त्र्यंशो भशेष:" इत्यादिविधिनाऽऽगतमभीष्टनक्षत्र-संख्यागुणमभीष्टनक्षत्रसंबन्धिसावनदिनमानमागच्छति तत्र नवभिर्नवभिर्नक्षत्रैरेकैकं दिनमपनेयं तदा तद्वास्तवं मानं ज्ञेयमन्यथा स्थूलमित्यर्थ:।

अत्रोपपत्ति:। रवियुगनक्षत्रै: 5×27=135 युगसावनदिनानि 1830 लभ्यन्ते तदैकेन किमिति लब्धमेकरविनक्षत्रे सावनमानम् =। इदमभीष्टनक्षत्रमानगुण-मभीष्टनक्षत्रमानसम्बन्धि सावनदिनमानम्।

=इन-इन/9। अत्राचार्येण प्रथमं प्रथमखण्डभवं फलं साधितं तत्र द्वितीयखण्डफलं यन्नवभिर्नवभिर्नवभिर्नक्षत्रैरेकमेकमुपलभ्यते तस्य शोधनं साधूक्तम्। अत्र बार्हस्पत्यव्याख्यानादिकं न साध्विति। तत्र "द्वावुत्तमे" तथा "अवेद्य:" इति शोधितपाठोऽपि न साधु रिति।।27।।

त्रिशत्यहां सषट्षष्टिरब्द: पञ्चर्त्तवोऽयने (षट् चर्त्तवोऽयने इति पाठ: साधु:)

मासा द्वादशसूर्या: (सौरा: इति पाठ: साधु:) स्युरेतत् पञ्चगुणंयुगम् (युगे इति पाठ: साधु:)।।28।।

सोमाकर: - एवमेतत्पूर्णमासस्य दर्शस्य चन्द्रसूर्यसम्बन्धेन पर्वसञ्चोदनया यागकालं प्रतिपाद्यावयवानां संख्या तेन कालनिष्पत्तिप्रतिपत्त्यर्थमाह त्रिशत्यह्नां सषट्षष्टिरब्द इति। त्रयाणां शतानां समाहारस्त्रिशती या सा सषट्षष्टि:। षट्षष्टयधिकानि त्रीणि शतानीत्युक्तं भवति। तत: किम्। तदब्दो वर्षमितिर्भवतीति वाक्यशेष:। स च पञ्चर्त्तव: पञ्च वा ऋतव इति श्रुतिमभिप्रेत्य निरुक्तक़त् पञ्चर्त्तव: संवत्सरस्येत्याह। त्था तस्यायने द्वे उदग्दक्षिणे इति तस्य ते। तयोर्मासा द्वादश भवन्तीति वाक्यशेष:। तेषु तु सूर्याश्रयणदर्का द्वादश स्यु:। मासविभागेनद्वादशादित्या (अष्टौ वसव: एकादश रुद्रा द्वादशदित्या: प्रजापतिश्चेति। (ऋगब्राह्मणपञ्चिका 1, खण्ड 10) इति श्रुते:। ब्रह्म वा एष इतस्तपति यद्वशत इत्याद्या विभागचोदना। एवमेतत्समग्रमेकीभूतम्। एतत् पञ्चगुणं युगम्। यदिह युगाध्यक्षमित्यादौ युगमधिकृतं तस्यैषा प्रतीतिर्न कृतादीनाम्। एते तु द्वादश पूर्वमेह कृतास्तत्प्राधान्येन शास्त्रप्रवृत्ति:। तस्य दिनानि।।28।।

सुधाकर: - इदानीं युगे सावनदिनाद्याह त्रिशतीति। सषट्षष्टि: षट्षष्टिसहिता अह्नां रविसावनदिनानां त्रिशती अब्द: सौराब्दो भवति। तस्मिन् सौराब्दे ऋतव: षट्। अयने द्वै अयने। सौरा मासाश्च द्वादश भवन्ति।

अत्रोपपत्ति:। अत्र वेधेन सौरवर्षे स्थूला: 366 सावनदिवसा आनीता:। ते पञ्चगुण युगे सावना दिवसा:=1830। शेषोपपत्ति स्फुटा।।28।।

उदया वासवस्य स्युर्दिनराशि: सपञ्चक:।

ऋषेर्द्विषष्टिहीनं (ऋषेर्द्विषष्ट्या: हीन: स्यद विंशत्या सैकया स्तृणाम् इति पाठ: साधु:) स्याद् विंशत्या चैकया स्तृणाम्।।29।।

सोमाकर: - उदया वासवस्य स्युरिति। वासव इन्द्रस्तत्संबन्धेन यज्ञ इति श्रुते:। ससवनानां प्रातरादीनां सम्बन्धात् सवनस्य प्राधान्यात् तस्य निर्देश:। तदीयमानस्य प्रमाणमुदयाएव ते स्युर्भवेयु:। ते तू सूर्यस्य नान्येषाम्।

यथाह परिशिष्टकृत्।

सा तिथिस्तदहोरात्रं यस्मादभ्युदितो रवि:।

तथा कर्मणि कुर्वोत ह्रासवृद्धी न कारण्।। इति।

एवं स मानो दिनराशिर्भवेदिति वाक्यशेष:। तथा तत्पञ्चका:। ऋषेश्चन्द्रस्यऋषिर्विप्राणामिति (ऋषिर्विप्राणां महिषो मृगाणमिति। (ऋक्संहिता, अष्टक 7, अध्याय 4, वर्ग 7 तथा आपस्तम्बोपनिषद् 10, अनुवादक 6) मन्त्रवर्णात् तस्य स्वनामनिवृत्त: पञ्चक:। प्रत्येकस्यापि तिथेर्द्वाषष्टया भागो हीयते।

तथा च गर्ग:।

द्विलवोनमहोरात्रं चन्द्रस्य गतिरुत्तमा-इति।

स एष तिथिर्विंशत्या सैकया स्तृणाम्। स्तृणामृक्षाणांऋक्षास्तृभिरिति (ऋक्षास्तृभिरिति नक्षत्राणमिति  (निरुक्तपूर्वषटक अध्याय 3, खण्ड 20) नक्षत्राणामिति नैरुक्ता:। तेषामेकविंशत्या हीनं स्यादिति वर्त्तते। तास्तु कला एव स्त्रीलिङ्गनिर्देशात्।

तथा च गर्ग:।

दिनरात्रिषु य: पक्षपादवृद्ध्या चरेद्रवि:।

चरांशप्रमितैरंशैरेकविंशतिभिर्दिनै:।। इति।

एवमेतानि मया पूर्वमेव गर्गवाक्यैर्विस्तरेण प्रतिपादितानि इहार्थमितमेतदुदाहृतम्। एवमेतस्य युगस्य।।29।।

सुधाकर: - उदया इति। पूर्वविधिना युगे यो दिनराशि: सूर्यसावनाहर्गण: स सपञ्चक: पञ्चभि: सोहतस्तदा युगे वासवस्य धनिष्ठाया उदया: स्यु:। अत्र धनिष्ठाग्रहणमुपलक्षणार्थम्। तेन पूर्वागता संख्या सर्वेषा नक्षत्राणामुदया भभ्रमा भवन्ति क्रान्तिवृत्तस्थानां सर्वेषां नक्षत्राणां समानकालेन भ्रमणात्। स दिनराशिर्द्विषष्टया हीनस्तदा ऋषेश्चन्द्रस्योदयाश्चन्द्रसावनदिवसा भवन्ति। स एव दिनराशि: सैकया विंशत्या एकविंशत्या हीनस्तदा स्तृणां नक्षत्राणां चन्द्रनक्षत्राणां मनानि स्युरित्यर्थ:।।

अत्रोपपत्ति:। 'भभ्रमास्तु भगणैर्विवर्जिता यस्य तस्य कुदिनानि तानि वा' इति भास्करोक्तिवैपरीत्येन युगे भभ्रमा:=1830+5=1835। युगे चान्द्रमास:=62। एते रविचन्द्रभगणान्तसमा अतो विलोमेन युगे चान्द्रभगणा:=62+5=67। अथोक्तभास्करविधिनैव चन्द्रसावनदिवसा:= भभ्र-चभ=1835-67=1830-62=1768। युगे चन्द्रभगणा: सप्तविंशतिगुणास्तन्नक्षत्राणां मानम्=67×27=1809=1830-21। इत्युपपन्नं सर्वम्।।29।।

पञ्चत्रिंशं शतं पौष्णमेकोनमयनान्यृषे:।

पर्वणसां स्याच्चतुष्पादी काष्ठानां चैव ता: कला।।30।।

सोमाकर: - पञ्चत्रिंशं शतं पौष्णमिति। यत् पौष्णं सौरमयनमुदगयनाद्यमुक्तं तदृषेश्चन्द्रस्यायनानि पञ्चत्रिंशं शतमेकोनं चतुस्त्रिंशं शतं भवतीति वाक्यशेष:। चन्द्रमासापेक्षया प्रतिमासं द्वे द्वे इत्येतत् चान्द्रमासा: सप्तषष्टिस्तत्र भवति। पर्वणां स्याच्चतुष्पादी। पादस्त्रिंत तु सैकिकेत्युक्तम्। तेषां चतुष्पादी चत्वार: पादाश्चतुर्विंशं शतमित्यर्थ:। केषां पर्वणां सर्वमासानां यस्मादधिकमासाभ्यां सह तत्र द्वाषष्टिमासास्तस्मादेतेषां तत्र समस्तत्र समस्तसंख्याप्रसङ्गादाह काष्ठानां चैव ता: कला। काष्ठा पञ्चाक्षरा भवेदिति वक्ष्यति। तासां चतुष्पादी च कलानिष्पत्तिरित्यर्थ:। स चतुर्विशं काष्ठाशतं कला भवतीत्यर्थ:।।30।।

सुधाकर: - पञ्चत्रिंशमिति। पौष्णां सौरं नक्षत्रमानं युगे पञ्चत्रिंशं शतं पञ्चत्रिंशदधिकं शतं 135 भवति। तदिदं मान 135 मेकोनं तत्प्रमाणानि युगे ऋषेष्चन्द्रस्यायनानि भवन्ति। युगे यानि चन्द्रपर्वाणि चतुर्विंशत्यधिकशतमितानि भवन्ति तेषां चतुर्थांश: पर्वपाद: कथ्यते तेन युगे पर्वणां चतुष्पादी चतुर्विंशत्यधिकशतमितानि। एतन्मितानां काष्ठानां चैका कला भवतीत्यर्थ:।।

अत्रोपपत्ति:। युगे रविभगणा: सप्तविंशतिगुणास्तन्नक्षत्रमानम्= 27×5=135। युगे चन्द्रभगणा द्विगुणास्तानि तदयनमानानि= 67×2=134=135-1। शेषोपपत्ति: स्फुटा।।30।।

सावनेन्दुस्तृमासानां षष्टि: सैकद्विसप्तिका।

द्वि (द्युत्रिंशत् सावनस्याब्द: सौर: स्तॄणां स पर्यय:-इति पाठ: साधु:) त्रिंशत् सावनस्यार्ध: सूर्यस्तॄणां विपर्यय:।।31।।

सोमाकर: - सावनेन्दुस्तृमासानां षष्टिरिति। मासानां युगे संख्या। सावनसंख्यापेक्षया सौराणां षष्टिरेव। त्रिंशद्दिवसमाससंख्यया सावनानां षष्टि: सैका एकषष्टि:। तथाधिकमासाभ्यां सह द्विषष्टिश्चान्द्राणाम्। तथा ससप्तिका षष्टिर्नाक्षत्राणां सप्तषष्टिरित्यर्थ:। स तु मास: सर्वेषां द्यु त्रिंशत्। द्युरहर्नाम। त्रिंशद्दिनं मास इत्यर्थ:। तथा सावनस्य दिनस्य त्रिंशदेवार्धनाडिका इति वाक्यशेष:। सूर्यस्य विपर्यय: परावृत्तिर्दिनम्। तथा स्तॄणां नक्षत्राणां च परावृत्तिरेव स्वकं दिनमित्युक्तं भवति।।31।।

सुधाकर: - षष्टि: क्रमेंण एकने द्विकेन सप्तभिश्च युता तदा क्रमेण युगे सावनमाससंख्या=61। चान्द्रमाससंख्या=62। स्तृमासानां नक्षत्रमासानां संख्या=67। द्युत्रिंशत् सावनदिनानां त्रिंशत् सावनो मासो भवति। य: सौरोऽब्द: स एव स्तॄणां नक्षत्राणां पर्ययोभ्रमः सौराब्द कालेन रविरेकं नक्षत्र गणं भुक्तेइत्यर्तः। 

   अत्रोपपत्तिः। चन्द्रोयावता काले नैकं नक्षत्रगणं भुङ्क्ते स एव कालो नक्षत्रमास इति सांहितिका वदन्ति। तथा च सिद्धान्ततत्त्वविवेके कमलाकर:। "भचक्रैकभोगाद्विधो: केचिदार्क्षं वदन्त्यत्र मासं बुधा: संहितासु" इति। तेन चन्द्रभगणा एव युगे नक्षत्रमासा:। एतेन सर्वमुपयोग्युपपद्यते। अन्यत् स्फुटम्। अत्र सर्वं बार्हस्पत्यव्याख्यानं समीचीनं तच्च पञ्चसिद्धान्तिकायां पैतामहसिद्धान्ते लिखितसममिति। एतेषु बहु मया 6-8 श्लोकानां भाष्ये व्यलेखीति।।31।।

अग्नि: प्रजापति: सोमो रुद्रोऽदितिर्बृहस्पति: (दितिबृहस्पतो इति पाठ: साधु:)

सर्पाश्च पितरश्चैव भगश्चैवार्यमपि च।।32।।

सविता त्वष्टाऽथ वायुश्चेन्द्राग्नी मित्र एव च।

इन्द्रो निर्ऋतिरापो वै विश्वेदेवास्तथैव च।।33।।

विष्णुर्वसवो वरुणोऽज एकपात् तथैव च।

अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च।।34।।

सोमाकर: - अग्नि: प्रजापतिरिति। प्रसिद्धा एता देवता:। रुद्रस्य प्रतिरूप: सोम:। प्रोष्ठपदयोर्विपर्यय: पाठदोषो वा ।।32-34।।

सुधाकर: - इदानीं यज्ञेऽर्चनाय नक्षत्रदेवता आह अग्निरिति। कृत्तिकादेरेता नक्षत्रदेवता: संहिताग्रन्थेषु सर्वत्र प्रसिद्धा:। अत्र पूर्वभद्रपदाया अजो वैकपादिति देवताद्वयं वा एकदेवताया नामद्वयम्।।32-34।।

नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि।

यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम्।।35।।

सोमाकर: - नक्षत्रदेवता एता इति। एतासां प्रयोजनं यस्मात् शास्त्रज्ञैस्तन्त्रकारैर्बह्व्रचानां सूक्तवाचकैर्यजमाननामनीति द्वितीयं नाम नक्षत्रजं स्मृतमुदाहृतं यज्ञकर्मणि तस्मादेता उदाहृता:।।35।।

सुधाकर: - एताभिर्देवताभि: शास्त्रज्ञैर्दैवविद्भिर्यज्ञकर्मणि यजमानस्य नक्षत्रजं नाम स्मृतं कथितम्। यस्मिन्नक्षत्रे यजमानस्य जन्म तद्देवताबोधकं यजमानस्य यन्नाम तन्नक्षत्रजं नामेति। सम्प्रति दैवज्ञैर्नक्षत्राणां चत्वार: पादा: क्रियन्ते। यस्मिन् पादे जातस्य जन्म भवति तत्पादबोधकाक्षरादिकं नाम जन्मनाम च कथ्यते।

उग्राण्यार्द्रा च चित्रा च विशाखा श्रवणोऽश्वयुक्।

क्रूराणि तु मघा स्वाती ज्येष्टा मूलं यमस्य यत्।।36।।

सोमाकर: - उग्रण्यार्द्रा च चित्रेति। नक्षत्रस्वरूपज्ञानस्त्वन प्रतीत्यर्थ: श्लोक:। याम्यं भरणी संक्षेपार्थमाह।।36।।

सुधाकर: - इदानीं शुभकर्मणि वर्ज्यानि उग्राणि क्रूराणि च नक्षत्राण्याह उग्राणीति। आर्द्रा। चित्त्रा। विशाखा। श्रवण:। अश्वयुक् अश्विनी। एतानि षट् नक्षत्राणि उग्राणि सन्ति। मघा। स्वाती। ज्येष्ठा। मूलम्। यमस्य यत् नक्षत्रं भरणी। एतानि क्रूराणि नक्षत्राणि सन्ति। मुहूर्त्तचिन्तामणौ रामेण च "पूर्वात्रयं याम्यमघे उग्रं क्रूरं कुजस्तथा" इत्यनेन उग्रमेव क्रूरं कथ्यते। तथैतद्गणे ज्यौतिषवेदाङ्गोक्तेभ्यो बहूनि भिन्नानि पठितानीति।।36।।

द्य्वूनं द्विषष्टिभागने हेयं (ज्ञेयं सौरं सपार्वणम् इति पाठ: साधु:) सूर्यात् सपार्वणम्।

यत्कृतावुपजायेते मध्येऽन्ते चाधिमासकौ।।37।।

सोमाकर: - तत्र मध्येऽन्ते च द्वावधिमाकौ यत्कृतावुपजायेते यथा कल्पनया भवतस्तदर्थं हेयमपहातव्यं कुतोऽवयवमिति वाक्यशेष:। किं केवलमानम्। न। सपार्क्णाम् पार्वणानक्षत्रसहितमित्यर्थ:। एकान्तरेऽह्नि मासे चेत्यनियमे एतदेवार्थे उत्तरासौम्याविष्णवाजानां (उत्तरसौम्यविषुवाजानां इति पाठ: साधु:) परतो द्वौ द्वौ न। एवं मापलक्षके अत एवेह समसंख्याया: सर्वाणि कालसाम्यमभिप्रेत्य पाञ्चवार्षिकयुगेउदाहृतानि। पर्व तु विभागार्थं कुतो हेयं सूर्यात् सूर्यमानादिति वाक्यशेष:। किमेकदेशो द्य्वूनं द्विषष्टिभागेन प्रत्येकं दिनं द्वाषष्टेन भागेन द्वयेन हीनं कृत्वेति वाक्शेष:। एतदर्थमेवोक्तं "दुहेयं पर्व चेत् पाद" इति।

तथा च गर्ग:

तत: प्रक्षीयमाणस्य तिथिरित्येष संज्ञिता।

द्विलवोनमहोरात्रं चन्द्रस्य गतिरुत्तमा।। इति।

तथा।

द्विलवक्षयसम्भूतो द्वाषष्टया भवते तिथि:।

ऋतोरन्तमनुप्राय हीनरात्रेति नाम च।। इति।।37।।

सुधाकर: - इदानीं चन्द्रपर्वगणात् सूर्यपर्वगणसाधनमाह द्य्वूनमिति। सपार्वणं युगादेर्वर्त्तमानपर्यन्तं पर्वगणमानं तच्च द्विषष्टिभागेन द्य्वूनं कार्यं तद्द्विगुणं द्विषष्टया भक्तं फलेन तदेवोन कर्त्तव्यमित्यर्थ:। एवं यच्छेषं तत् सौरं पर्वगणमानं स्यात्। इयं सा कृति: प्रकारो यत्कृतौ च युगमासानां मध्ये त्रिंशत् सौरमासान्ते ह्येकस्तथान्ते षष्टितमसौरमासान्ते चान्य इत्यधिमासौ द्वावुपजायेते उत्पद्येते इत्यर्थ:।

अत्रोपपत्ति:। त्रयोदशश्लोकभाष्ये प्रदर्शितं यदेकस्मिन् युगे सूर्यपर्वाणि=120। चन्द्रपर्वाणि=124। अधिपर्वाणि=4। अतो द्विषष्टिचन्द्रपर्वसु अधिपर्वद्वयम्। ततोऽनुपातो यदि 62 चन्द्रपर्वभिरधिपर्वद्वयं तदेष्टचन्द्रपर्वभि: किमिति लब्धं सौरचान्द्रपर्वान्तररूपमधिपर्वमानम्=चंप। इदं चन्द्रपर्वगणे विहीनं शेषं सूर्यपर्वगणमानं स्यात्‌। अत्रापि अधिपर्वशेषं त्याज्यम्। त्यागकारणं च तत्रैव त्रयोदशश्लोकभाष्येऽभिहितम्। चन्द्रपर्वगणात् सौरपर्वगणानयनार्थं वा सौरपर्वगणाच्चन्द्रपर्वगणानयनार्थं याऽधिपर्वसंख्या सोभयत्र समानैव तथाऽधिपर्वशेषं चोभयत्र सममेव किन्तु एकत्र द्विषष्टिर्हरोऽयन्त्र षष्टिर्हर इति सर्वं भास्करेण निजे गोलाध्याये "सौरेभ्य: साधितास्ते चेदधिमासास्तदैन्दवा:" इत्यादौ स्फुटं प्रदर्शितमतो लेखप्रयासेन किम्। अत्र बार्हस्पत्यादिव्याख्यानं मन्मते न समीचीनमिति।।37।।

कला दश सविंशा स्याद् द्वे मुहूर्त्तस्य नाडिके।

द्वित्रिंशस्तत्कलानां (तत्त्त्रिंशद् द्यु कलानां इति पाठ: साधु:) तु षट्शती त्र्यधिका भवेत्।।38।।

सोमाकर: - काललक्षणमाह कला दश सविंशा स्यादिति। ता: कला इत्युक्तास्ता दश कला विंशभागसहिता नाडिकेति वाक्यशेष:। द्वे मुहूर्त्तस्य नाडिके भवत: इति वाक्यशेष:। "मुहूर्त्तस्तु नाडिके" इति गर्ग:। ते मुहूर्त्ता द्वि त्रिंशस्त्रिंशन्मुहूर्त्तं दिनं तत्र कलानां षट्शती त्र्यधिका भवेत्। त्र्युत्तराणि षट्शतानि कलानां दिनमित्यर्थं। एतदेव।।38।।

सुधाकर: - इदानीमन्या: परिभाषा आह कलेति। सविंशा एकस्य विंशतिभागेन सहिता दश कला एका नाडिका भवति। अत्र नाडिकाया अध्याहार: साहचर्यात्। मुहूर्त्तस्यैकमुहूर्त्तस्य मध्ये द्वे नाडिके भवत:। तत्रिंशत् तेषां मुहूर्त्तानां त्रिंशत् द्यु भूदिनं भवति तत्र भूदिने तु कलानां त्र्यधिका षट्शती भवेदिति परिभाषा।

अत्रोपपत्ति:। एका नाडिका= कला:। मुहूर्त्त एक: =2 नाडिके= कला:। सावनदिनमेकम्=30 मुहूर्त्त=60 नाडिका: कला:। एकस्मिन् चन्द्रनक्षत्रे रविसावनदिनमानम्= इति प्रथममनुपातेन प्रदर्शितम्। तत्र शेषावयवेऽस्मिन् गुणहरयोर्दृढत्वादाचार्येणैकरविसावनदिनस्य हरतुल्यो विभाग: कृतस्तस्यैकभागस्य कला संज्ञा। एवं दिनकलाभिर्वैपरीत्येनैकनाडिकायां सविंशा दशकला आयान्तीति। अत्र बार्हस्पत्यव्याख्यानं साधु परन्तु 'च विंशा' इति तच्छोधितपाठस्तु मन्मते न युक्त:। अत्र शङ्करबालकृष्णादीक्षितादीनामपि व्याख्यानमेवमेव।।38।।

ससप्तकं(ससप्तैकं इति पाठ: साधु:) भयुक् सोम: सूर्यो द्यूनि त्रयोदश।

उत्तमानि(नवमानि इति पाठ: साधु:) तु पञ्चाह्न: काष्टा पञ्चाक्षरा भवेत्।।39।।

सोमाकर: - ससप्तकं भयुक् सोम इति। स सोम: कृतो भयुक् नक्षत्रसमाहित: ससप्तकं सप्तांशसंख्याकं दिनं तु भुङ्क्ते इति वाक्यशेष:। तथा सूर्यो द्यूनि त्रयोदश। सौर्यं दिनं त्रयोदशांशरहितमित्यर्थ:। अथवा "दिनैकादशकेन तद्भ"मिति यदुक्तं तत्स्वमानेनेदं तु मापनेन दिनानि तानि त्रयोदश भवन्ति। सूर्यर्क्षभुक्तावथोत्तमानि पञ्चमाह्न: आर्क्षचान्द्रमानतो नायान्त्युत्तमानि मानान्तराणि सौरेणाप्तानि। नाडिका: षडंशकाश्च षड् भवन्ति तानि पञ्च घटिकास्त्रिंशत् सार्धा:। एवं शशिना त्रयोदश सार्धा आर्क्षभुक्तिरित्युक्तं भवति तान्येव तूत्तमान्यह्नो मानानि पञ्च पञ्च। कापि भावेन पञ्चावशा तद्वा पञ्चावधिकौ तयोरेकमधिमासयोरुत्तमं तथैव तयोर्भुक्ति:। तदर्थं च वक्ष्यति 'विभजेज्ज्ञा नराशिने'ति। अथ च ऋतुसंवत्सरयुगात्मना काष्ठा पञ्चाक्षरा भवेत्। काष्ठानाम परिमाणं सर्वकालकलनयामुदाहृतम्। मनुगर्गादिभिर्भेदेन 'दश वाष्टौ च काष्ठे'त्यादिभिर्वाक्यै: सह काष्ठा पञ्चाक्षरा इह सैव चोदिता कलनादिभागनियमार्थं पर्वर्त्त्वर्धमद्य्वंशादिकयागकालापेक्षया व्यवहरन्ति तेऽपि च।।39।।

सुधाकर: - इदानीं पुनरन्या: परिभाषा आह ससप्तैकमिति। सोमश्चन्द्रो यावता कालेन भयुक् भेन नक्षत्रेण सह युक्तो भवति स कालश्च ससप्तैकं सप्तकलाधिकमेकं रविसावनदिनम्। चन्द्र: सप्तकलाधिकेनैकं रविसावनदिनेनैकं नक्षत्रं भुनक्तीत्यथः एवं सूर्यश्च यावता कालेनैकं नक्षत्रं भुनक्ति स कालश्च त्रयोदश द्यूनि रविसावनदिनानि अह्नो दिनस्य पञ्च नवभागाश्च। एतै: सावनदिनै रविरेकभं भुनक्तीत्यर्थ:। पञ्चभिर्गुर्वक्षरैरेका काष्ठा भवति।

अत्रोपपत्ति:। यदि युगचन्द्रनक्षत्रै: 1809 युगभूदिनानि 1830 लभ्यन्ते तदैकेन नक्षत्रेण किम्। लब्धमेकनक्षत्रे सावनदिनमानम् = दिनम् + 7 कला:। एवं युगरविनक्षत्रै: 135 युगसावनदिवसास्तदैकेन रविनक्षत्रेण किं लब्धान्येकनक्षत्रे भूदिनानि । पञ्चगुर्वक्षरैरेका काष्ठेति परिभाषा काष्ठातोऽपि सूक्ष्मगणनार्थं कृताऽऽचार्येणेति सर्वमुपपन्नम्। अत्र बार्हस्पत्यव्याख्यानं सर्वं समीचीनं किन्तु तच्छोधित: "ससप्तकम्" इति पाठो मन्मते न साधुरिति।।39।।

यदुत्तरस्यायनतो गतं स्या-

च्छेषं तथा दक्षिणतोऽयनस्य।

तदेव षष्ट्या (तदेकषष्ट्या इति पाठ: साधु:) द्विगुणं विभक्तं

सद्वादशं स्याद् दिवसप्रमाणम्।।40।।

सोमाकर: - यदुत्तरस्येति। यदुत्तरस्यायनत उत्तरायणादारभ्य यद्गतं स्याद्यावद्दिनं गतमतीतं भवेत्। शेषं तथा दक्षिणतोऽयनस्य। एवमेव दक्षिणायने शेषं विचारयेत्। तदेव संख्या यद्विगुणं कुर्यादिति वाक्यशेष:। तत: षष्ट्या विभक्तं सद्वादशं दिवसप्रमाणं स्यात्। एतदुक्तं भवति। (उदगयने (उदगयने चतुर्विंशतिर्नाडिका दिनमानम्। एका नाडिका च त्रिंशद्दिनैर्भवति। ततो मासगते त्रिंशत्सु दिवसेषु द्विगुणा षष्टि: षष्टिहृता नाडीद्वयं पूर्वागतनाड्या सहितं नाडीत्रयं भवति। विषुवकाले च त्रिगुणा षष्टि: षष्टिहृता नाडीत्रयं पूर्वनाडीत्रयसहितमेवं षट् घटिका भवन्ति। एवमन्यपञ्चमासेषु मासार्धे पज्वदशदिनैरेका नाडिकेति पञ्चनाडिका: षष्ठे मासे चैका ताश्च द्वादश। एवमेव सद्वादशं स्याद्दिवसप्रमाणम्। एवमेतयैव कलनया एकस्मिन् मासे एका इति पाठ: साधुर्विभाति। एवं सोमाकरेण नाडीरूपं प्रतिमासं द्विगुणचरखण्डमानीय योजनेनेष्टमासे नाड्यात्मकं द्विगुणचरमानीतमिति प्रतिभाति।) चतुर्विंशतिनाडिका च एका च द्वाविंशतिर्दिनं भवति। ततो मासगते त्रिंशत्सु दिवसेषु त्रिंशद् द्विगुणा षष्टिर्भवति। ते च वर्षकालेश्च षष्टिघटिका भवन्ति। पञ्चासे मासार्धे पञ्चविंशतिनाडिका:। ते च द्वादश एवमेव सद्वादशं स्याद् दिवसप्रमाणम्। एवमेतयैव कलनया) द्वयोर्मासयोरन्ये ततोऽप्यधिके द्वे नाडिके अतिरिच्येते। त्रिष्वन्यास्तिस्र:। एवं विषुवति त्रिंशन्नाडिकं दिनं भवति। उत्तरेष्वेतेनैव क्रमेण द्व्यंशं कल्पयेत्। ततो वक्ष्यति 'ज्ञेयराशिं गताभ्यस्तं विभजेजज्ञानराशिने'ति। तस्मादिह यत् सूचितं तदन्यज्ज्योति:-शास्त्रमेक्ष्य प्रकल्प्यमेवं तु।।40।।

सुधाकर: - इदानीं दिनमानमानयति यदुत्तरस्येति। अयनतोऽयनारम्भदिनादुत्तरस्यायनस्य यद्गतं भूदिनमानं भवेत् तथा दक्षिणतो दक्षिणायनारम्भदिनादयनस्य दक्षिणायनस्य यद्गतं भूदिनमानं तदयनान्तर्गतकुदिनमानात् प्रोह्य यच्छेषं दिनमानं तद् द्विगुणं फलमेकषष्ट्या विभक्तं लब्धं सद्वादशं द्वादशमुहूर्त्तसहितं तदा मुहूर्त्तात्मकं दिनमानं भवति।

अत्रोपपत्ति:। अष्टमश्लोकभाष्ये पूर्वमेव प्रतिपदितं यदुत्तरायणारम्भे द्वादशमुहूर्त्ततुल्यं दिनमानं षण्मासान्तरे दक्षिणायनारम्भे चाष्टादशमुहूर्त्तमानं तदन्तरं षड् मुहूर्त्तास्ततोऽनुपातो यदि षण्मासकुदिनै 183 रेतै: षड्मुहूर्त्तसममन्तरं तदोत्तरायणगतकुदिनैर्वा दक्षिणायनशेषकुदिनै: किं लब्धमन्तरम् अंदिअंदि इदं द्वादशयुक्तं जातं दिवसमानम्। इत्युपपन्नम्। इदं सर्वंपञ्चसिद्धान्तिकाप्रकाशिकायां पैतामहसिद्धान्तप्रकरणेऽस्माभि: प्रदर्शितमेवेति।।40।।

यदर्धं दिनभागानां सदा पर्वणि पर्वणि।

ऋतुशेषं तु तद् विद्यात् संख्याय (संख्यया इति पाठ: साधु:)सह पर्वणाम्।।41।।

सोमाकर: - यदर्धं दिनभागानामिति। यदर्धं दिनभागानां द्वाषष्ट्यंशकल्पनया यदर्थं लुप्तमित्यर्थ:। तदेकत्र कलयेदिति वाक्यशेष:। सदा पर्वणि पर्वणि। तत् सदा एकत्रिंशन्नाडिका भवति। 'दुहेयं पर्वचेत् पाद' इत्युक्तम्। तत: किम्। ऋतुशेषं तु तद् विद्यात्। मासद्वये व्यतीते दिनमेकमतिरिच्यते। एवं संख्याय संकलय्य पर्वणां सर्वेषां ततोऽधिकमासनिष्पत्तिरिति वाक्यशेष:।

तथा च गर्ग:।

द्विलवक्षयसम्भूतो द्वाषष्टिर्भवते तिथि:।

ऋतोरन्तमनुप्राप्य हीनरात्रेति नामत:।इति ।।41।।

सुधाकर: - इदानीमृतुशेषानयनमाह यदर्धमिति। पर्वणि पर्वणि सदा दिनभागानां चान्द्रदिनभागानामर्धं यच्छेषं तच्चान्द्रसौरपर्वान्तरं पर्वणां संख्यया पर्वगणेन सह यदागच्छेत् तदिष्टपर्वसमये रविचन्द्रपर्वान्तरसममृतुशेषं विद्याज्जानीयाद्गणक इति शेष:। पर्वगण एकपर्वभवेन रविचन्द्रपर्वान्तरेण दिनार्धतुल्येन गुण्य: फलमभीष्टसमये ऋतुशेषं भवतीत्यर्थ:। मन्मते अधिशेषस्य ऋतुशेषमिति नामकरणे फले विशेषाभावात् ऋतुशेषपाठे न काचिद्धानिरिति।

अत्रोपपत्ति:। त्रयोदशश्लोकेन रूपतुल्ये पर्वणि पर्वात्मकमधिशेषमानम् । इदं पञ्चदशगुणं जातं चान्द्रदिनात्मकमधिशेषम् । इदं पर्वगणगुणमभीष्टचान्द्रसौरपर्वान्तररूपमधिशेषं भवतीति। सौरपर्वान्ते ऋतुसमाप्ति:। चन्द्रपर्वतोऽग्रेऽधिशेषान्तरे रविपर्वसमाप्तिरत: पूर्वागतमधिशेषं चान्द्रदिनात्मकमृतुशेषं भवितुं योग्यमिति। अत्र बार्हस्पत्यव्याख्यानं प्राय: समीचीनमेव।।41।।

इत्युपायसमुद्देशो भयोऽप्यह्न: (भूयोप्येवं प्रकल्पयेत्-इति पाठ: साधु:) प्रकल्पयेत्।

ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना।।42।।

सोमाकर: - इत्युपायसमुद्देश इति। इत्युपायसमुद्देश: एवमुक्तप्रकारेण यागकाललक्षणप्रतिपादनं भूयोऽप्यह्न: प्रकल्पयेत् पौन:पुन्येनोहेत् सर्वकर्मसु। कथम्। ज्ञेयराशिं गताभ्यस्तं पदार्थान् सूचितार्थान् संक्षेपार्थान् तान् विभजेज्ज्ञानराशिना। ज्ञानं बुद्धियोग:। ऊहापोहसामर्थ्येन अन्यानि ज्योति:शास्त्राण्यपेक्ष्य। कथम्। अभ्यस्तं तत उद्धृत्य यथार्थमवगत्यऽऽगमेन च कल्पयेत् सर्वमित्यर्थ:। यथा मुहूर्त्तनाडिकाकलाकाष्ठाक्षरकल्पनं तथैव दिवसप्रमाणमिति।।42।।

सुधाकर: - इदानीं बेधोपायमाह इतीति। इत्येव पूर्वोदितविधिना उपायसमुद्देशो बेधोपायोपदेश एव बोध्य:। बेधेन ज्ञातराशौ गतं प्राप्तं कमपि पदार्थं विज्ञाय ततो ज्ञेयराशौ तत्पदार्थानयनार्थं गणको ज्ञानराशिसंबन्धिगतेन पदार्थेनाभ्यस्तं गुणितं ज्ञेयराशिं ज्ञानराशिना विभजेत् फलं ज्ञेयराशिसंबन्धि तत्पदार्थमानं भवति। एवं ज्ञानराशिना भूय: पुन: पुन: सर्वान् सावनदिवसादीन् प्रकल्पयेदिति।

अत्रोपपत्ति:। ज्ञेयराशिरिच्छाराशिस्ततस्त्रैराशिकेन वासना स्फुटा।।42।।

इत्येतन्मासवर्षाणां मुहूर्त्तोदयपर्वणाम्।

दिनर्त्त्वयनमासानां व्याख्यानं लगधोऽब्रवीत्।।

सुधाकर: - इदानीमुपसंहरति इतीति। इति एवमेतत् पूर्वोक्तं मासवर्षाणां मुहूर्त्तानामुदयपर्वणां चन्द्रादीनामुदयानां सावनदिनानां पर्वणां दिन-ऋतु-अयनानां मासानां चान्द्रार्क्षाणां च व्याख्यानं लगधोऽऽब्रवीत्। तदेवाहं चोक्तवानिति ज्यौतिषवेदाङ्गरचयितुरुक्तिरिति। इदं पद्यं सोमाकरभाष्ये नास्तीति।।

सोमसूर्यस्तृचरितं विद्वान् वेद विदश्नुते।

सोमसूर्यस्तृचरितं लोकं लोके च सन्ततिम्।।43।।

सोमाकर: - एवमुपसंहृत्य विज्ञानफलमाह सोमसूर्यस्तृचरितमिति। सोमसूर्यनक्षत्राणां चरितं गतागतविज्ञानं यो वेद जानाति सोऽश्नुते आप्नोति। किम्। सोमसूर्यनक्षत्रचरितं लोकं तत्सायुज्यमित्यर्थ:। तथेह लोके च सन्ततिमनवच्छिन्नसन्तानसिद्धां स्वर्गलोकवान् प्रजावान् भवतीत्यर्थ:। अभ्यास: शास्त्रनिष्पत्तये स च पक्षमासतिथिचन्द्रगतिज्ञानादार्त्विज्ययोग्यत्वाच्च पंक्तिपावह एव। एतत्तु विदग्घसावत्सराणं तिथिज्ञानफलं वृथाभिमानिनां त्वसर्वज्ञानां वृथोपदेशिनां वृथानुष्ठानप्रवर्त्तकानामकालयागकालचोदनादकालयाग-प्रवर्त्तकत्वादौपमन्यवादिवन्मूर्धपातादिदोषपरम्परा 'नक्षत्रैर्यश्च जीवती'त्यश्रद्धेयत्वं तथा प्रदोषज्ञापकत्वाच्च परत्राप्यसिद्धि:।

तथा च स्मृति:।

दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमै:।

विप्राणां कर्मदोषैस्तै: प्रजानां जायते भयम्।।इति।

तस्मात् तथा यागकर्मणि वर्त्तितव्यं यथोपक्रमापवर्गावुभावपि न नश्यत:। अभ्युदितेष्टिदर्शनादकालोपक्रमदोष:। उपसत्समासदर्शनादकालापवर्गदोष:। तथा पुरा द्वादशा: पुरा दीक्षिताय द्वादशमिति वदन्तं न धीयेतेति श्रुति: ?। तदेतदेवार्थमभिप्रेत्य सूत्रकार: पूर्णमासीमुपवसेददर्शनेऽमावास्यायामित्याह। तथा च श्रुति:। य एवासा आग्नेयोष्टाकपाल: पौर्णमासे योऽमावास्यायां तमग्नये पथिकृते कुर्यादिति तस्मादकाल उपक्रमापवर्गयोरेवैते अपार्थके भवतस्तस्माद्विचार्यं यतस्ते असुरा अयज्ञा अनक्षत्रा यत् किं चाकुर्वत तां कृत्यमिवाकुर्वतेति श्रुते:। तस्मादुभयकालानुरोधवशादेकाङ्गवैकल्यम्। अपि च शास्त्रादौ प्रवृत्तिर्येषामभिप्रेता परिशिष्टवाक्यानुरोधवशात् 'चतुर्दश्यवसाने तु पितृयज्ञं तु कारयेदि'ति वाक्यैर्यागस्तत्र न कर्त्तव्य इत्यपेक्षमेव।

तथा च गर्ग:।

चतुर्दश्यां यदा कृष्णे क्षयमभ्येति चन्द्रमा:।

दृश्यो भवति वाप्युच्च: सिनीवाल्यास्ततस्तदा।।

निश्युद्गतोऽथवाऽप्युच्चो ह्यस्तं वाप्युपगच्छति।

तत: पूर्णौऽप्यृतौ ह्येतत् कार्यं चन्द्रवशाद्भवेत्।।इति।

यद्यप्येवं तथापि य एवासा आग्नेयोष्टाकपाल इति श्रुतेरस्ति गौणत्वमेवं प्रतीयते। अन्यथैषा श्रुतिरेव न स्यात् येषां तु सूत्रकारो विकल्पेनाह। पूर्वां पौर्णमासीमुपवसेदुत्तरां वेत्यादि कात्यायनसूत्रापेक्षावशेन स्वेच्छया प्रवृत्तिरिह तु सूत्रकारस्य प्रवर्त्तितेह प्रतिज्ञा पूर्णा इत्याद्या। तस्मादेतत् सुतरां विचार्यम्।।43।।

मयोक्तमेतत् सकलं विदित्वा यागात् फलं प्राप्नुयुश्चोदितं यत्।

निर्मत्सरश्रौतकर्मप्रवृत्ता दोषान् बहून् प्राप्नुयुरन्यथान्ये।।1।।

मया कृतं भाष्यमस्य स्वबुद्ध्या यस्मान्नाप्तमागमं पूज्यमानम्।

तस्माच्छेषं तद्विद: कल्पयन्तु नमस्तेभ्यो ब्रह्मसूर्येन्दुभेभ्य:।।2।। 

सोमाकरो (सोमाकरो वेदविदुक्तकालप्रातिभज्ञानागमभावबुद्धि:। ज्योति: शास्त्रानाकुलक: शशंस जिह्वाग्रात् सर्वमात्मनां प्रव्रजिष्यन्।। इति पाठ: साधु:) वेदविदुक्तकान्तप्रातिभज्ञानागमभावबुद्धि:।

ज्योति:शास्त्रानाकुलकेन संसा जिह्वात् सर्वमात्मनां प्रव्रजिष्यन्।।3।।

इति शेषकृतं (इति श्रीशेषनागकृतं ज्योति:शास्त्रभाष्यं समाप्तम्-इति 

पाठान्तरम्) ज्योति:शास्त्रभाष्यं समाप्तम्।

सुधाकर: - इदानीं ज्यौतिषवेदाङ्गविदं स्तौति सोमेति। सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रचरितं यो विद्वान् वेद जानाति स विद् विद्वान् सोमसूर्यस्तृचरितं चन्द्रसूर्यनक्षत्रैश्चरितं प्रचरितं प्रसिद्धं लोकं चन्द्रलोकं सूर्यलोकं नक्षत्रलोकं चाश्नुते तत्र गत्वा तत्सुखं भुङ्क्ते लोके इह संसारे च सन्ततिमश्नुते पुत्त्रपौत्त्रादिकं च लभते इति।।43।।

श्रीरामं जनकामनाकरमरं सीतासमेतं वरं

श्रीमल्लक्ष्मणलाललालितपदं कन्दर्पमायाहरम्।

 

नत्वा कोशलपालमेव विमलं दृग्ज्यौतिषस्य श्रितं

बार्हस्पत्यमतं विचिन्त्य सकलं भाष्यं मयैतत् कृतम्।।

 

इति सुधाकरद्विवेदिकृतं ज्योति: शास्त्रभाष्यं समाप्तम्।।