SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ याम्योत्तरवृत्तस्थच्छायाकर्णमुक्त्वा पूर्वापरवृत्तस्थच्छायाकर्णं प्रकारद्वयेन आह—
लम्बाक्षजीवे विषुवच्छायाद्वादशसङ्गुणे।
क्रान्तिज्याप्ते तु तौ कर्णौ सममण्डलगे रवौ।।25।।
लम्बज्याक्षज्ये क्रमेणाक्षभा द्वादशाभ्यां गुणिते उभयत्र क्रान्तिज्यया भक्ते तुकारात् फले समवृत्तस्थेऽर्के तौ द्वृग्योग्यछायासम्बद्धौ कर्णौ भवत: उभयत्र छायाकर्ण: स्यात्। अत्रोपपत्ति:। स्वमस्तकोपरि पूर्वापरानुकारेण यद्वृत्तं तत्सममण्डलसंज्ञम्। तत्रस्थस्य छायाकर्णानयनम्। पलभाभुजेऽक्षकर्ण: कर्णस्तदा क्रान्तिज्याभुजे क: कर्ण इति समशंकु: क्रान्तिज्याभुजे समशंकुकुज्योनतद्धत्यो: क्रमेण कर्णकोटित्वात्। अस्मात् शङ्कुमानांगुलाभ्यस्ते इत्यादिना त्रिज्या द्वादशगुणिता अनेन भक्ता तत्र। “छेदं लवं च परिवर्त्य हरस्य शेष: कार्योऽत्र भागहरणे गुणनाविधिश्च।“ इत्युक्ते:। पलभयापि गुण्या क्रान्तिज्याक्षकर्णाभ्यां भक्ता। तत्र त्रिज्या द्वादशगुणिताक्षकर्णभक्ता लम्बज्यैव सिद्धा अतो लम्बज्या पलभागुणिता क्रान्तिज्याभक्ता फलं समवृत्तगतच्छायाकर्ण:। अथ अत्रैव पलभाभुजे द्वादशकोटिरक्षज्या भुजे का कोटिरिति लम्बज्याग्रहणे पलभयोस्तुल्यत्वात् नाशादक्षज्या द्वादशगुणा क्रान्तिज्या भक्ता छायाकर्ण: सममण्डलगत:। क्रान्तिज्याया: सदा अयं कर्ण: सिद्ध्येन्न हि सर्वदा समवृत्तगतो ग्रह इति समवृत्तगतग्रहस्य एव कर्ण: साध्यो न अन्यथेति सूचनार्थं सममण्डलगे रवौ इत्युक्तम्।।25।।
ननु ग्रहाधिष्ठिताहोरात्रपूर्वापरवृत्तसम्पातात् अवलम्बरूपसमशङ्कोर्गोले प्रत्यक्षसिद्धस्य साधनार्थं समवृत्तस्थत्वाभावेऽपि छायाकर्ण: साध्य:। सममण्डलगे रवौ इत्युक्तिस्तु स्वाधिष्ठिताहोरात्रवृत्तपरा न तु अन्यथा न साध्योऽन्यथालक्ष्यत्वेन प्रकारस्य अतिप्रसंगापत्ते:। न हि प्रकारे तद्व्यावर्त्तकं विशेषणं प्रसिद्धं येन न अतिप्रसंग:। परन्तु यदा सममण्डलेऽक्षांशाधिकक्रान्त्या ग्रहाधिष्ठितद्युरात्रवृत्तानाम् सम्बन्धस्तदा गोले समशङ्को:, अदर्शनात् तत्र कथं तत्साधनमनिवारितमित्यत: सममण्डलगे रवावित्यस्य पूर्वोक्त एवार्थ इत्यभिप्रायं सममण्डलकर्णानयनप्रकारान्तरकथनच्छलेन आह—
सौम्याक्षोना यदा क्रान्ति: स्यात् तदा द्युदलश्रव:।।
विषुवच्छाययाऽभ्यस्त: कर्णो मध्याग्रयोद्धृत:।।26।।
यदोत्तरा क्रान्तिरक्षादल्पा स्यात् तदा द्युदलश्रव: समवृत्तस्थार्कक्रान्तिसाधितमध्याह्नकर्ण:। न तु मध्याह्नकालिक:। अक्षभया गुणितो मध्याग्रया गृहीतमध्याह्नकर्णाग्रया भक्त: फलं सममण्डललगतग्रदृविम्बस्य छायाकर्ण: स्यात्। अत्र सौम्येत्यनेन दक्षिणक्रान्तौ तदसाधनं सममण्डलगत ग्रहविम्बस्य अदर्शनादिति स्फुटमुक्तम्। अन्यथाक्षाल्पक्रान्तौ दक्षिणगोले समशङ्को: प्रत्यक्षत्वात् तन्निवारणानुपपत्ते:। अत्रोपपत्ति:। सममण्डलप्रवेशकालिकमध्याह्नच्छायाकर्णात् अवस्तुभूतात् कर्णेन द्वादशांगुलशङकुस्तदा त्रिज्याकर्णेन क इति मध्यशङ्कुस्तात्कालिक:। द्वादशकोटौ अक्षभाभुजस्तदा महाशङ्कुकोटौ क इति शंकुतलम्। द्वादशयोर्नाशात् पलभात्रिज्याघातो मध्यकर्णभक्त इति। अनेन मध्यशङ्कुस्तदाग्राभुजेन क इति समशंकुर्द्वादशाग्रामध्यकर्णघातो मध्यकर्णपलभाभ्यां भक्तोऽग्राभुजे समशंकुतद्धृत्यो: कोटिकर्णत्वात्। अस्मात् पूर्वप्रकारेण छायाकर्णानयने द्वादशयोर्नाशात् मध्यकर्णपलभात्रिज्याघातोऽग्रामध्यकर्णाभ्यां भक्त इति तुल्ययो: मध्यकर्णमितगुणहरयो: नाशकरणेन सिद्धम्। स्वतन्त्रेच्छस्य नियोक्तुमशक्यत्वात्। तत्रापि भाज्यहरौ त्रिज्ययापवर्त्य हरस्थाने मध्यकर्णगुणिताग्रा त्रिज्याभक्तेति मध्यकर्णाग्रा सिद्धातो मध्याग्रयोद्धृत इत्युक्तम्। भाज्यस्थाने तु मध्यकर्णपलभाघात इति दक्षिणगोले ग्रहादर्शनात् न साधित:। उत्तरगोलेऽपि क्रान्ति: अक्षाधिका तदा सममण्डलप्रवेशासम्भवात् न साधित:, सममण्डलावध्यक्षाशंत्वात्। अल्पक्रान्तौ तत्सम्भवात् साधित:। न हि असिद्धं गोले गणितसाध्यं मानाभावात् इत्युपपन्नं सौम्येत्यादि। भास्कराचार्यैस्तु। मार्त्तण्ड: सममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् दृश्यो ह्युत्तरगोल एव स विशन् साध्या तदैवास्य भा। अप्राप्तेऽपि समाख्य मण्डलमिने य: शङ्कुरुत्पद्यते नूनं सोऽपि परानुपातविधये नैवं क्वचिद्दुष्यति।। इत्यनेन तथापि साधित:।।26।।