SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ भुजानयनं श्लोकाभ्यामाह—
विषुवद्भायुताऽर्काग्रा याम्ये स्यादूत्तरो भुज:।।
विषुवत्यां विशोध्योदग्गोले स्याद्बाहुरुत्तर:।।23।।
विपर्ययाद्भुजो याम्यो भवेत् प्राच्यपरान्तरे।।
मध्याह्निको भुजो नित्यं छायामाध्याह्निकी स्मृता।।24।।
अर्काग्रा सूर्यस्य अभीष्टकालिककर्णाग्रा याम्ये दक्षिणगोले विषुवद्भायुताक्षच्छायया युक्तोत्तरदिक्को भुज: स्यात्। उत्तरगोले विषुवत्यां पलभायां कर्णाग्रां विशोध्य न्यूनीकृत्य शेषमुत्तरदिक्को भुज: स्यात्। ननु कर्णाग्रा पलभायां यदा न शुद्ध्यति तदा कथं भुज: साध्य इत्यत आह। विपर्ययादिति। अक्षभां कर्णाग्रायां विशोध्य शेषं दक्षिणो भुज: स्यात्। ननु भुजस्य याम्यत्वमुत्तरत्वं वा कस्मात् इत्यत आह। प्राच्यपरान्तर इति पूर्वापरसूत्रात् अन्तरालप्रदेशे याम्य उत्तरो वा भुज: स्यात् इत्यर्थ:। ननु तथापि द्वितीयावधेरनुक्तत्वात् अन्तरस्य अप्रसिद्धे: पूर्वापरसूत्रात् कस्य अन्तरं भुज इत्याशङ्काया उत्तरं मध्याह्नच्छायास्वरूपकथनच्छलेन आह। माध्याह्निक इति। मध्याह्नकालिको भुज: सदा माध्याह्निकी मध्याह्नकालिकी छायोक्ता। तथा च छायाग्रप्राच्यपरसूत्रात् याम्यमुत्तरं वा यदन्तरेण स भुज इति व्यक्तीकृतम।
अत्रोपपत्ति:- शङ्कुमूलं प्राच्यपरसूत्रात् याम्यमुत्तरं वा यदन्तरेण स याम्योत्तरो भुजो ग्रहस्य। शङ्कुस्तु ग्रहादवलम्बसूत्रं क्षितिजसमसूत्रावधि: तत्र अयं भुज: शंकुतलाग्रयो: संस्कारज:। शंकुतलं तु स्वाहोरात्रवृत्तस्थितोदयास्तसूत्रात् शङ्कुमूलं यदन्तरेण तद्दक्षिणम्। अग्रा तु पूर्वापरसूत्रात् उदयास्तसूत्रावध्यन्तरमुत्तरदक्षिणगोलक्रमेण उत्तरदक्षिणा। तत्र ग्रहापरदिशि षड्भान्तरेऽस्माद्व्यस्तमिति शङ्कुतलमुत्तरमग्रापि व्यस्तदिक्केति तत्संस्कारो भुजो गोले प्रत्यक्ष:। स महाशङको: इति महाशङ्कोरयं तदा द्वादशांगुलशङको: क इत्यनुपातेन भुज: पूर्वापरसूत्राच्छायाग्रावधि:। तत्र शङ्कुतलाग्रे द्वादशांगुलशङको: साधिते तत्संस्कारेण भुज: स एव। तत्रापि अग्रा पूर्वं साधिता शङ्कुतलं तु द्वादशाङ्गुलशङ्को: पलभा महाशङ्कु: कोटि: शङ्कुतलं भुजो हृति: कर्ण इत्यक्षक्षेत्रे द्वादशकोटौ पलभाभुजस्तदा महाशङ्कुकोटौ को भुज इत्यनुपातेन शङ्कुतलमानीय महाशङ्कोरियं द्वादशांगुलशङ्को: किमित्यनुपातेन गुणहरयोस्तुल्यत्वात् नाशेन पलभाया एव अवशिष्टत्वात्। सा तु उत्तरा दक्षिणगोलेऽग्राया उत्तरत्वात् एकदिक्त्वेन पलभाग्रयोर्योग उत्तरो भुज:।उत्तरगोलेऽग्राया दक्षिणत्वेन भिन्नदिक्त्वात् पलभाग्रयोरन्तरं भुजस्तत्र पलभाया: शेषमुत्तरो भुजोऽग्राया: शेष: दक्षिणो भुज:। मध्याह्ने छायाया भुजरूपत्वात् मध्याह्नकालिको भुजो मध्याह्नच्छायेति सर्वं युक्तम्।।23-24।।