-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3


मध्यमरवि:। Madhyamarabi

अथागतस्फुटसूर्यस्य करणागतस्फुटतुल्यत्वज्ञानम् आगतस्फुटसूर्यान्मध्यमस्य करणागतमध्यमार्कतुल्यत्वेन विशेषं वक्तुं श्लोकार्द्धेनाह—

तन्मान्दमसकृद्वामं फलं मध्यो दिवाकर:।
मृगादौ प्रोज्झ्य भगणान्मध्याह्नेऽर्क: स्फुटो भवेत्।।19।।

तस्मात् आगतस्फुटसूर्यान्मान्दं फलं मन्दफलसकृदनेकवारं वामं व्यस्तं संस्कृतं स्फुटसूर्येऽहर्गणानीत: स्फुटसूर्य: स्यात्। अयमर्थ:। स्फुटसूर्यं मध्यमं प्रकल्प्य पूर्वमन्दोच्चात् प्रागुक्तरीत्या मन्दफलं धनमृणमानीय स्फुटसूर्ये ऋणं धनं कार्यं मध्यमसूर्य:। अस्मादपि मन्दफलं स्पष्टसूर्ये व्यस्तं संस्कृतं मध्यमोऽस्मादपि मन्दफलं स्पष्टे व्यस्तं मध्यमार्क इति यावत् अविशेषस्तावदसकृत् साध्योऽर्को मध्योऽहर्गणानीतो भवतीति। तथा च मध्यमार्कात् स्फुटार्कसाधन एकवारं मन्दफलसंस्कार: स्फुटार्कान्मध्यार्कसाधने तु अनेकबारं मन्दफलव्यस्तसंस्कार: इति विशेषोऽभिहित:। अत्रोपपत्ति:। मध्यमसूर्यादानीतमन्दफलेन संस्कृतो मध्य: स्फुटोऽर्को भवति। अयं वा तेनैव मन्दफलेन व्यस्तं संस्कृतो मध्यो भवति। अत्र स्फुटार्कात् मध्यार्कसाधने मध्यमज्ञानासम्भवात् तदानीतमन्दफलज्ञानमशक्यमत: स्फुटसूर्यं मध्यमं प्रकल्प्यानीतमन्दफलेन अभिमतासन्नेन स्फुटोऽर्को व्यस्तं संस्कृतो मध्यमासन्न:। अस्मात् अपि मन्दफलमभिमतासन्नमपि पूर्वस्मात् सूक्ष्ममिति यावत् अविशेषे मध्यार्कसाधितं मन्दफलं भवतीति निरवद्यं सर्वमुक्तम्।।19।।