-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3


अपक्रम:। सायनस्पष्टरवि:— Apokrom| Sayanspashtarabi

अथाक्षज्ञाने नतभागेभ्य: क्रान्तिद्वारा सूर्यसाधनं सार्द्धश्लोकाभ्यामाह—

दिग्भेदेऽपक्रम: शेषस्तस्य ज्या त्रिज्यया हता।।
स्वाक्षार्कनतभागानां दिक्साम्येऽन्तरमन्यथा।।17।।
कर्कादौ प्रोज्झ्य चक्रार्घात् तुलादौ भार्धसंयुतात्।
परमापक्रमज्याप्ता चापं मेषादिगो रवि:।।18।।

स्वदेशाक्षांशेष्टदिनीयमध्याह्नसूर्यनतांशयो: भागानां बहुत्वात् बहुवचनम्। एकदिक्त्वेऽन्तरमन्यदिक्त्वेऽन्यथा योग: कार्य:। शेष उक्तसंस्कारसिद्धोऽङक: क्रान्ति: स्यात्। तस्य अपक्रमस्य ज्या त्रिज्यया गुण्या परमक्रान्तिज्यया प्रागुक्त्या भक्ता फलस्य धनुर्भागादिकं मेषादिगो मेषादिराशित्रितयान्तर्गतोऽर्क: स्यात्। कर्कादित्रयेर्के चक्रार्द्धात् षड्राशित आगतार्कं त्यक्त्वा शेषं मध्याह्नकाले स्फुटोऽर्क: स्यात्। तुलादित्रितये षड्भयुतादागतार्कात् स्फुटोऽर्को ज्ञेय:। आगतोऽर्क: षड्भयुत: स्फुटोऽर्क: स्यात् इत्यर्थ:। मकरादित्रयेऽर्के द्वादशराशिभ्य आगतार्कं त्यक्त्वा शेषमयनांशसंस्कृत: स्फुटोऽर्क: स्यात् इत्यर्थ:। करणागतज्ञानार्थं व्यस्तायनांशसंस्कृत:। इत्यर्थसिद्धम्। पूर्वं तत्संस्कृतग्रहात् क्रान्ति: साध्येत्यर्थस्य उक्ते:। अत्रोपपत्ति:। एकदिशि क्रान्त्यक्षयोगान्नतं दक्षिणमतोऽक्षोनं क्रान्तिर्दक्षिणा। भिन्नदिशि क्रान्त्यूनाक्षो नतं दक्षिणमननेन अक्षोहीन: क्रान्तिरुत्तरा। । अक्षोनक्रान्तिर्नतं तु उत्तरमतोऽक्षयुतं क्रान्तिरुत्तरा। अस्या ज्या क्रान्तिज्या। परमक्रान्तिज्यया त्रिज्याभुज: स्यात् तदानया केतीष्टासायनार्कभुजज्या तद्धनु: सायनार्कभुज:। भुजस्य चतुर्षु पदेषु तुल्यत्वात् प्रथमपदे मेषादित्रये सूर्यस्यैव भुजत्वाद्भुज एव सूर्य: कर्कादित्रये द्वितीयपदे षड्भादूनस्य अर्कस्य भुजत्वात् भुजोनषड्भमर्क:। एवं तृतीयपदे तुलादित्रये षड्भेन हीनार्कस्य भुजत्वात् षड्युतो भुजोऽर्क:। चतुर्थपदे मकरादित्रये सूर्योनभगणस्य भुजत्वात् भुजोनभगणोऽर्क इति सर्वं वैपरीत्यात् सुगमतरम्।।17-18।।