SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
ननु प्रतियुगं सूर्योक्तस्यैक्याभावात् त्वया किं युगीयशास्त्रमुपदिश्यते। अन्यथैकदोक्त्या युगे युगे इत्यस्यािनुपपत्तेरित्यत आह—
शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्कर:।
युगानां परिवर्तेन कालभेदोऽत्र केवल: ।।9।।
इदं मया तुभ्यं वक्ष्यमाणं ज्योति:शास्त्रं तत् सूर्योक्ताभिन्नत्वेन त्वां प्रति अनुवादो न क्वचित् स्वकल्पनान्तरेणेत्यर्थ:। आद्यं प्राक्काले सूर्येणोक्तम्। ननु आसन्नयुगीयसूर्योक्तस्यापि पूर्वकालोक्तस्याद्यत्वसम्भव इत्यतस्तत्पदापेक्षितमाद्यपद-वरणरूपमाह। यदिति। शास्त्रं सूर्य: पूर्वं प्रथमं यस्मात् पूर्वमनुक्तमित्यर्थ:। प्राह प्रकर्षेण विस्तरेण मुनीन् प्रति उक्तवान्। तथा च प्रथमातिरेके कारणाभावात् प्रथमस्य विस्तृतत्वाच्चानन्तरोक्तं पूर्वोक्ते गतार्थतया संक्षिप्तमुपेक्ष्य प्रथमयुगीयशास्त्रमुपदिश्यत इति भाव:। ननु तर्हि अनन्तरयुगीयशास्त्राणां सूर्योक्तानां वैयर्थ्यप्रसङ्ग इत्यत आह। युगानामिति। महायुगानां परिवर्तेन पुन: पुनरावृत्या अत्र सूर्योक्तशास्त्रेषु केवलं स्वभिन्नाभावस्तन्मात्रमित्यर्थ:। कालभेद: कालकृतमन्तरम्। पूर्वशास्त्रकालादनन्तरशास्त्रकालो भिन्न इत्येषु भेदो न शास्त्रोक्तरीतिभेद इत्यर्थ:। तथा च कालवशेन ग्रहचारे किञ्चिद्वैलक्षण्यं भवतीति युगान्तरे तत्तदन्तरं ग्रहचारेषु प्रसाध्य तत्कालस्थितलोकव्यवहारार्थं शास्त्रान्तरमिव कृपालुरुक्तवानिति नानन्तरशास्त्राणां वैयर्थ्यम्। एवञ्च मया वर्तमानयुगीयसूर्योक्तशास्त्रसिद्धग्रहचारमङ्गली-कृत्याद्यसूर्योक्तशास्त्रसिद्धं ग्रहचारं च प्रयोजनाभावादुपेक्ष्य तदुक्तमेव त्वां प्रति उपदिश्यत इति भाव:। एवञ्च युगमध्येऽप्यवान्तरकाले ग्रहचारेषु अन्तरदर्शने तत्तत्काले तदन्तरं प्रसाध्य ग्रन्थांस्तत्कालवर्तमानाभियुक्ता: कुर्वन्ति।तदिदमन्तररं पूर्वग्रन्थे बीजमित्यामनन्ति।पूर्वग्रन्थानां लुप्तत्वात् सूर्यर्षिसंवादोऽपीदानीं न दृश्यत इति तदप्रसिद्ध: आगमप्रामाण्याच्च न आशङ्कया।।9।।