SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ पूर्वाधिकारे क्रान्त्याद्यानयनमुक्तं तत् पूर्वाधिकारावगतग्रहात् केवलात् न साध्यमिति श्लोकाभ्यामाह—
त्रिंशत्कृत्यो युगे भानां चक्रं प्राक्परिलम्बते।
तद्गुणाद्भूदिनैर्भक्ताद् द्युगणाद्यदवाप्यते।।9।।
तद्दोस्त्रिघ्ना दशाप्तांशा विज्ञेया अयनाभिधा:।
तत्संस्कृताद्ग्रहात् क्रान्तिच्छायाचरदलादिकम्।।10।।
भानां चक्रं राशीनां वृत्तं क्रान्तिवृत्तं स्वस्वविक्षेपमितशलाकाग्रप्रोतनक्षत्रगणै: युक्तमित्यर्थ:। युगे महायुगे प्राक्पूर्वविभागे त्रिंशत्कृत्यास्त्रिंशत्संख्याकाकृतिर्विंशति: षट्शतमित्यर्थ:। परिलम्बते ध्रुवाधारभगोलस्थानात् तद्द्वारमवलम्बते। अत्र परिलम्बत इत्यनेन भचक्रपूर्णभ्रमणाभाव उक्तोऽन्यथा ग्रहभगणप्रसंगेन मध्याधिकार एव एतदुक्तं स्यात्। तथा च तद्द्वारमवलम्बनोक्त्या परावर्त्य यथास्थितं भवतीत्यागतं तत्रापि स्वस्थानात् तथैव पश्चिमतोऽपि अवलम्बत इति सूचितम्। एवञ्च भचक्रं पश्चिमत: ईश्वरेच्छया प्रथमत: कतिचिद्भागैश्चलति तत: परावृत्य यथास्थितं भवति ततोऽपि तद्भागै: क्रमेण पूर्वतश्चलति ततोऽपि परावर्त्य यथास्थितमित्येको विलक्षणो भगण:। तेन प्रागित्युपलक्षणम्। पश्चिमावलम्बनानुक्तिस्तु संवादकाले तदभावात्। अत्र त्रिंशत्कृत्वेति पाठ: प्रामादिक:। युगे षट्शतकृत्वो हि भचक्रं प्राग्विलम्बते। इति सोमसिद्धान्तविरोधात्। तत्पश्चात् चलितं चक्रमिति ब्रह्मसिद्धान्तोक्तेश्च। अहर्गणात् तद्गुणात् षट्शतगुणिताद् भूदिनै: युगीयसूर्यसावनदिनैर्भक्तात् यत् फलं भगणादिकं प्राप्यते तस्य भगणत्यागेन राश्यादिकस्य भुज: कार्यस्तस्मात् दशाप्तांशा दशभिर्भजनेन आप्तभागा: त्रिगुणिता अयनसंज्ञका ज्ञेया:। भुजांशा: त्रिगुणिता दशभक्ता: फलमयनांशा इति तात्पर्यार्थ:। तत्संस्कृतात् तै: अयनांशै: भचक्रपूर्वापरचलनवशाद्युतहीनाद् ग्रहात् पूर्वापरभचक्रचलनावगमस्तु अयनग्रहस्य षड्भानन्तर्गतान्तरगतत्वक्रमेण क्रान्तिच्छायाचरदलादिकं साध्यम्। न केवलाद्विशेषोक्ते:। छाया वक्ष्यमाणा चरदलं चरं पूर्वाधिकारोक्तम्। आदिशब्दात् अयनवलनमायनदृक्कर्म संगृह्यते। यद्यपि तत्संस्कृताद्ग्रहात् क्रान्तिरित्येव वक्तव्यमन्येषामत्र तदुपजीव्यत्वाद् ग्रहणं व्यर्थं तथापि क्रान्ति- रित्युक्त्या केवलक्रान्तिज्ञानार्थं तत्संस्कृतग्रहात् क्रान्ति: साध्या। पदार्थान्तरोपजीव्याया: साधनं क्रान्ते: साधनं तु केवलात् इत्यस्य वारणार्थं क्रान्तिमात्रं तत्संस्कृतात् साध्यमिति सूचकं छायाचरदलादिकथनम्। अत्रोपपत्ति:। ईश्वरेच्छया क्रान्तिवृत्तं स्वमार्गे पश्चिमत: सप्तविंशत्यंशै: क्रमोपचितैश्चलितं तत: परावृत्य स्वस्थानं आगत्य तत्स्थानात् पूर्वत: सप्तविंशत्यंशै: चलितम्। तथा च सृष्ट्यादिभूतक्रान्तिविषुवद्वृत्तसम्पाताश्रितक्रान्तिवृत्तप्रदेशो रेवत्यासन्न: प्रागानीतग्रह-भोगावधिरूप: स्वस्थानात् पूर्वमपरत्र वा क्रान्तिवृत्तमार्गे गत:। विषुवद्वृत्ते तु तद्भागस्य पश्चिमभाग: पूर्वभागो वा गत:। सम्पाते तद्वृत्तयोर्याम्योत्तरान्तराभावात् क्रान्त्यभाव:। पूर्वसम्पातप्रदेशे तु तयोर्याम्योत्तरान्तरत्वात् क्रान्तिरुत्पन्ना अतो यथा स्थितग्रहभोगात् क्रान्ति: असंगतेति सम्पातावधिकग्रहभोगात् क्रान्तिर्युक्ता। तत्र सम्पातावधिकग्रह-भोगज्ञानार्थं पूर्वसम्पातावधिक: पूर्वाधिकारोक्तो ग्रहभोगो वर्तमान-सम्पात्पूर्वसम्पाताश्रितक्रान्तिवृत्तप्रदेशयो: अन्तरभागै: अयनांशाख्यै: पूर्वसम्पातप्रदेशस्य पूर्वपश्चिमावस्थानक्रमेण युतहीनो भवति। क्रान्त्युपजीव्य पदार्था अपि वर्तमानसम्पातादुत्पन्ना इति तत्साधनमपि तत्संस्कृतग्रहात्। अथ अयनांशज्ञानं तु षट्शतभगणेभ्य: पूर्वानुपातरीत्याहर्गणाद् ग्रहभोगो भगणादिकस्तत्र गतभगणमितं परपूर्वभचक्रावलम्बनं गतम्। वर्तमानं तु आरम्भे पश्चिमावलम्बनात् राशिषट्कान्तर्गते राश्यादिके पश्चिमावलम्बनमनन्तर्गते पूर्वावलम्बनम्। तत्रापि त्रिभान्तर्गतान्तर्गतत्वक्रमेण चलनं परावर्त्तनं चेति भुज: साधितस्ततो नवत्यंशै: सप्तविंशतिभागा: तदा भुजांशै: क इत्यनुपातेन गुणहरौ नवभि: अपवर्त्य भुजांशा: त्रिगुणिता दशभक्ता इति सर्वमुपन्नम्।।9-10।।
अथ उक्तस्यान्तरस्य प्रत्यक्षसिद्धत्वमिति सार्द्धश्लोकेन आह—
स्फुटं दृक्तुल्यतां गच्छेदयने विषुवद्वये।
प्राक् चक्रं चलितं हीने छायार्कात् करणागते।।
अन्तरांशैरथावृत्य पश्चाच्छेषैस्तथाधिके।।11।।
अयने दक्षिणोत्तरायणसन्धौ विषुवद्वये गोलसन्धौ चलितं चक्रं दृक्तुल्यतां दृष्टिगोचरतां स्फुटमनायासं गच्छेत्। तत्र प्रत्यक्षतस्तन्मितमन्तरं दृश्यत इत्यर्थ:। तथा च सृष्ट्यादिकाले रेवतीयोगतारासन्नावधि मेषतुलाद्यो: कर्कमकराद्यो: विषुवायनप्रवृत्तेरिदानीं तु अन्यत्र तत्स्वरूपे प्रत्यक्षे इति क्रान्तिवृत्तं चलितमन्यथा तदनुपत्तेरिति भाव:। ननु पूर्वतोऽपरत्र वा चालितमिति कथं ज्ञेयमित्यत आह। प्रागिति। छायार्काद्यद्दिने सूर्यस्य अयनदिक्परावर्त्तनमुदये प्राच्यपरसूत्रस्थत्वं वा तस्मिन् दिनेऽन्यस्मिन् दिने वा मध्याह्नच्छायातो वक्ष्यमाणप्रकारेण सूर्य: साध्यस्तस्मात् इत्यर्थ:। करणागते प्रागुक्तप्रकारेण आनीत: स्पष्ट: सूर्यस्तस्मिन्नित्यर्थ:। न्यूने सति। अन्तरांशै: सूर्ययोरन्तरांशै: चक्रं क्रान्तिवृत्तं प्राक् पूर्वस्मिन् चलितमिति ज्ञेयम्। अथ यद्यधिके सति शेषै: सूर्ययो: अन्तरांशै: चक्रमावृत्य परिवृत्य पश्चात् पश्चिमाभिमुखं तथा चलितमिति ज्ञेयम्। अत्रोपपत्ति:। छायातोवक्ष्यमाणप्रकारेण सूर्यो वर्तमानसम्पाताद्गणितागतस्तु रेवतीयोगतारासन्नाद्यवधितोऽतस्तयो: अन्तरमयनांशास्तत्र क्रान्तिवृत्तस्य पूर्वचलने गणितागतार्काच्छायार्कोऽधिको भवति। पश्चिमचलने तु न्यूनो भवतीति सम्यगुपपन्नम्।।11।।