-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3


छायात: कर्णज्ञानम्। छायाकर्णज्ञानम्। शंकुवर्गज्ञानम्—
Chayat karnagyanam | Chayakarnagyanam | Shankubargagyanam

अथ प्रसंगाज्ज्ञातच्छायात: कर्णज्ञानं तच्छुद्धिं च आह—

शंकुच्छायाकृतियुतेर्मूलं कर्णोऽस्य वर्गत:।
प्रोज्झ्य शङ्कुकृतिं मूलं छाया शङ्कुर्विपर्ययात्।।8।।

द्वादशांगुलशङ्कुच्छाययो: वर्गयोगात् पदं छायाकर्ण: स्यात्। अथ अस्य शुद्धिरूपं छायासाधनमाह। अस्येति। छायाकर्णस्य वर्गात् शङ्कुवर्गं चतुश्चत्वारिंशदधिकं शतं विशोध्य मूलं छाया। प्रकारान्तरेण छायाकर्णशुद्धिमाह। शङ्कुरिति। विपर्ययाच्छायासाधनवैपरीत्याच्छायाकर्ण-वर्गाच्छायावर्गं विशोध्य मूलमित्यर्थ:।। शङ्कुर्द्वादशांगुलमित: स्यात्। अत्रोपपत्ति:। द्वादशांगुलशङ्कु: कोटिरक्षभाभुजस्तत्कृत्योर्योगपदं कर्ण इत्यक्षकर्ण:इत्याद्यक्षक्षेत्राद्युक्तरीत्योपपन्नम्। ननु दिक्साधनोत्तरमिष्टप्रभाग्राकर्णसाधनं भगवता सर्वज्ञेन किमर्थमुक्तमग्रेऽग्रादीनां स्वतन्त्रतयोक्तत्वात्। न च विना गणितश्रममग्राज्ञानार्थमिदं युक्तमुक्तमिति वाच्यम्। वक्ष्यमाणभुजज्ञानस्य अग्रोपजीव्यत्वेन तस्याश्च भुजोपजीव्यत्वेन अन्योन्याश्रयात्। न च भुजसूत्रांगुलै: दत्तै:, इत्यनेन इष्टच्छायाग्रं ज्ञातमिति न किन्तु एतदुक्त्या दिक्सूत्रसम्पातस्थशङकोर्वृत्तपरिधौ छायाग्रज्ञानात् तत्पूर्वापरसूत्रान्तरे भुजसद्भावाद्विना गणितं भुजोऽपि ज्ञात इति न अन्योन्याश्रय इति वाच्यम्। तथापि भगवत: सर्वज्ञस्य निष्प्रयोजनत्वोक्ते: अनुचितत्वात्। विना प्रयोजनं मन्दोक्तेरपि अभावाच्च। न हि दिक्साधनेऽग्राभुजादिकमावश्यकं येन तदुक्तिर्युक्ता। किञ्ज कर्णसाधनस्य गणितोक्त्या वक्ष्यमाणकर्णसाधनतुल्यत्वेन अत्र कथनमनुचितम्। न हि दिक्साधनार्थं भाकर्णमित्याहतादिति सिद्धान्तशिरोमण्युक्तिवत् अत्र छायाकर्ण उपयुक्तो येन तदुक्तिर्युक्तेति चतुरस्रमित्यादि श्लोकचतुष्टयमन्येन मन्दबुद्धिना क्षिप्तं न भगवतोक्तमिति। भुजसाधनोपजीव्याग्रया एतदुक्तप्रकारेण सिद्धौ दिश: सम्यक् सिद्धा इति दिक्साधन शुद्धयर्थमग्रासाधनम्। प्रकारान्तरेण अपि वक्ष्यमाणत्रिज्यावृत्तीयाग्रया त्रिज्या लभ्यते तदानयागतया केत्यनुपातेन साधितकर्णसंवादेन शुद्य्मवगमार्थं कर्णसाधनं च उक्तम्। अनयाग्रया कर्णस्तदा त्रिज्यावृत्तीयाग्रया क इति फलस्य त्रिज्यातुल्यस्य आनयनार्थं वा कर्णसाधनम् इति केचित्। वस्तुतस्तु मण्डले छायाप्रवेशनिर्गमस्थानस्थितपूर्वापरविन्द्वो: प्रत्येकं रेखेति रेखाद्वयं सर्वतस्तुल्यान्तरं कार्यं तेनान्तरेण अन्यतरो विन्दुश्चाल्यस्तौ पूर्वापरविन्दू तद्रेखामध्यस्थानस्य पूर्वापररेखेति। तत्र उभयविन्दुरेखयो: अन्तरांगुलमानं स्वल्पत्वात् गणयितुमशक्यमत: प्रत्येके रेखे प्राच्यपररेखे प्रकल्प्य तन्मध्यकेन्द्रात् पूर्ववृत्तं प्रत्येकमिति वृत्तद्वयं कुर्यात्। तत्र स्वस्ववृत्ते स्वस्वप्राच्यपररेखा स्पृष्टा कार्या ताभ्यां स्वस्वकालिकौ भुजौ स्वस्ववृत्ते देयौ तदग्रे छायाग्ररेखे स्वस्‍ववृत्ते कार्ये स्वस्वप्राच्यपरसूत्रात् स्वस्ववृत्त उत्तरभागेऽक्षभांगुलान्तरेण रेखे कार्ये तत: स्वस्ववृत्ते स्वस्वतद्रेखयो:अन्तरं स्वस्ववृत्त उभयकालिककर्णवृत्ताग्रे बहुत्वेन गणयितुं शक्ये तदन्तरं पूर्वविन्द्वोर्याम्योत्तरमन्तरं कर्णवृत्ताग्रासाधनकथनेन आनीतं भुजान्तरस्य विन्द्वन्तरत्वात् तस्य च अग्रान्तरत्वेन फलितत्वात्। विषुवद्दिने गोलभेदे तु भुजान्तरमग्रायोग इति” विन्दोर्याम्योत्तरमग्रायोग इति। तेनोक्तरीत्या विन्दुश्चाल्यस्तत्सूत्रं पूर्वापरसूत्रं स्फुटमित्याशयेन भगवता अग्रा निरुपिता तस्या: शुद्ध्यर्थं कर्णोऽपि साधित इति तत्त्वम्।।8।।