-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
त्रिप्रश्नाधिकार:-3



पूर्वापररेखा— Purbapararekha

अथ पूर्वापररेखाया: संज्ञान्तरमाह—

प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्।।
उन्मण्डलञ्च विषुवन्मण्डलं परिकीर्त्यते।।6।।

प्राकपश्चितमाश्रिता पूर्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्डलम्। च: समुच्चये। उभयसंज्ञकं कथ्यते। अत्रोपपत्ति:। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरे तत् सूत्रं पूर्वापरसूत्रमिति। पूर्वापरवृत्तस्य भूमौ ऊर्ध्वाधरानुकारिवृत्तत्वेन अदर्शनाद्रेखाकारतयैव दर्शानाच्च पूर्वापरवृत्तमपि तत् सूत्रम्। पूर्वापरवृत्तस्य सममण्डलत्वेन अभिधानात् तद्रेखासममण्डलसंज्ञोक्ता। अथ स्वनिरक्षदेशक्षितिजवृत्तस्य उन्मण्डलाख्यस्य तत्संयोगयो संलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्वात् पूर्वापरसूत्रम् उन्मण्डलसंज्ञम्। एतेन अन्यदेशक्षितिजसंज्ञया स्वदेशक्षितिजसंज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्य क्षितिजवृत्तसंज्ञा द्योतिता। पूर्वापरस्थानयो: क्षितिजवृत्तस्य संलग्नत्वात् उल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च। एवं निरक्षदेशपूर्वापरवृतं विषुवन्मण्डलाख्यं पूर्वापरस्थानयो: संलग्नमिति तन्मध्यसूत्रत्वेन अपि पूर्वापरसूत्रस्य सिद्धत्वात् पूर्वापरसूत्रं विषुवन्मण्डलसंज्ञं क्रान्तिवृत्तस्य दृग्वृत्तस्य च चलत्वात् कदाचित्कत्वेन पूर्वापरस्थानसंलग्नत्वात् तत्संज्ञा नोक्तेति ध्येयम्।।6।।