SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ त्रिप्रश्नाधिकारो व्याख्यायते। तत्र विना प्रश्नं गुरोस्तत्प्रतिपादनेच्छानुदयाद्विना च तदिच्छां छात्राणां तज्ज्ञानासम्भवात् त्रयाणां दिग्देशकालानां प्रश्ना इति त्रिप्रश्नव्युत्पत्तेस्तद्दिग्ज्ञानं श्लोकचतुष्टयेन आह—
शिलातलेऽम्बुसंशुद्धे वज्रलेपेऽपि वा समे।
तत्र शङ्क्वङ्गुलैरिष्टैप: समं मण्डलमालिखेत्।।1।।
तन्मध्ये स्थापयेच्छङ्कुं कल्पनाद्द्वादशाङ्गुलम्।
तच्छायाग्रं स्पृशेद्यत्र वृत्ते पूर्वापरार्द्धयो:।।2।।
तत्र बिन्दू विधायोभौ वृत्ते पूर्वापराभिधौ।
तन्मध्ये तिमिना रेखा कर्तव्या दक्षिणोत्तरा।।3।।
याम्योत्तरदिशोर्मध्ये तिमिना पूर्वपश्चिमा।
दिङ्मध्यमत्स्यै: संसाध्या विदिशस्तद्वदेव हि।।4।।
तत्र दिक्साधनोपक्रमे प्रथममम्बुसंशुद्धे जलवत् समीकृते शिलाप्रदेशे। अपि वा अथवा तदभावेऽन्यत्र वज्रलेपे चत्वरादौ घुण्टनादिना समस्थाने कृते शङ्क्वङ्गुलै: शङ्कुस्थाङ्गुलविभागमानगृहीतै: अभीष्टसंख्याकाङ्गुलै: व्यासार्द्धरूपै: वृत्तम् अवक्रम् आलिखेत्। सर्वत: केन्द्राद्वृत्तपरिधिरेखा तुल्या स्यात् तथेत्यर्थ:। ततस्तन्मध्ये तस्य वृत्तस्य केन्द्ररूपमध्ये कल्पनया द्वादशसंख्यकाङ्गुलानि तुल्यानि यस्मिंस्तं द्वादशविभागाङिकतमित्यर्थ:। शङ्कु समतलमस्तकपरिधिकाष्ठदण्डं स्थापयेत्। तत: पूर्वापरार्द्धयोर्दिनस्य प्रथमद्वितीयभागयोस्तच्छायाग्रं स्थापितशङ्को: छायान्तप्रदेशो मण्डलपरिधौ यस्मिन् विभागे स्पृशेत्। दिनस्य प्रथमविभागेऽनुक्षणं छायाह्रासाद्वृत्ते यत्र प्रविशति दिनस्य अपरार्द्धे छायानुक्षणवृद्धेर्वृत्ते यत्र निर्गच्छतीत्यर्थ:। तत्र निर्गमनप्रवेशस्थानयोरुभौ द्वौ विन्दू पूर्वापरसंज्ञौ क्रमेण वृत्ते परिधिरेखायां कृत्वा तन्मध्ये पूर्वापरविन्द्वन्तरमध्ये तिमिना मत्स्येन रेखा कार्या सा दक्षिणोत्तररेखा भवति। मत्स्यस्तु विन्द्वन्तरालसूत्रमितेन व्यासार्द्धेन विन्दुद्वयकेन्द्रकल्पनेन वृत्तद्वयं निष्पाद्य वृत्तद्वयसंयोगाभ्यां वृत्तद्वयपरिधिविभागाभ्यामन्तर्गतं मत्स्याकारं स्थानं भवति। तत्रैक: संयोगो मुखं बाह्यवृत्तभागसम्मार्जनेन अपरसंयोगस्तु पुच्छमितरवृत्तभागद्वयसम्मार्जनेन। मुखपुच्छावध्यृज्वी रेखा दक्षिणोत्तररेखा। तत्र विन्दो: सव्यं रेखाग्रं दक्षिणा दिक्। पश्चिछमविन्दो: सव्यं रेखाग्रमुत्तरा दिक्। अनन्तरं पूर्ववृत्तं मत्स्यश्च सम्मार्जनीय:। शङ्कुरपि तत्स्थानात् निष्कास्य इति केवला दक्षिणोत्तररेखा स्थितेति तात्पर्यम्। दक्षिणोत्तररेखामितेन व्यासार्द्धेन दक्षिणोत्तरस्थानाभ्यां पूर्ववत् प्रत्येकं वृत्तं विधाय पूर्ववत् सिद्धेन मत्स्येनेत्यर्थ: पूर्वपश्चिमा रेखा कार्या। तत्र पूर्वविन्दोरासन्नं रेखाग्रं पूर्वा पश्चिूमविन्दोरासन्नं रेखाग्रं पश्चिमेति मत्स्यसम्माार्जनेन केवला पूर्वापररेखापि सिद्धा। अथ रेखा संयोगस्थानात् दिक्साधनोपक्रमोक्तं पूर्ववृत्तमुल्लिखेत् तद्वृत्तपरिधौ यत्र रेखा लग्ना तत्र दिगिति तद्वृत्तमध्यस्य दिक्चतुष्टयं वृते सिद्धम्। तद्वत्। यथा दक्षिणोत्तराभ्यां पूर्वापरा साधिता तत्प्रकारेणेत्यर्थ:। एवकारोऽन्यप्रकारनिरासार्थक:। हि निश्चयेन। विदिश: कोणदिशो दिशां पूर्वादिसिद्धदिशां ये मध्यमत्स्या अव्यवहिदिग्द्वयान्तरोत्पणन्ना लघवस्तै: संसाध्या: सम्यक्प्रकारेण साध्या:। रेखावृत्तसंयोगस्थत्वेन ज्ञेया: ।
अत्रोपपत्ति:। क्षितिजपूर्वापरवृत्तसंयोगौ पूर्वापरविभागस्थौ पूर्वापरदिशे तत्र पूर्वापरविभागज्ञानं सूर्योदयास्ताभ्यां तत्र क्षितिजे पूर्वापरवृत्तं कुत्र लग्नमिति ज्ञानं तु विषुवद्वृतस्य पूर्वापरक्षितिजवृत्तसम्पातयो: सम्बद्धत्वात्। अथ अन्यस्मिन् दिने सूर्यस्य उदयास्तावग्रांशान्तरेण याम्योत्तरे भवत इति सूर्योदयास्तस्थानाभ्यामग्रांशान्तरेणोत्तरयाम्ये पूर्वापरस्थानं भवतीति क्षितिजस्य महत्वाद्दूरत्वाच्च तद्दानेन पूर्वापरज्ञानमशक्यमतस्तत्सूत्रेण स्वाभीष्टप्रदेशे तज्ज्ञानार्थमभीष्टसमस्थले क्षितिजानुकारं वृत्तं कृतम्। तत्रापि सूर्योदयास्तसमसूत्रेण स्थलज्ञानस्य दु:शक्यत्वाच्छायार्थं शङ्कु: स्थाप्य:। तथापि सूर्योदये छायानन्त्याद्वृत्तपरिधौ तदग्रस्पर्शाभाव:। परन्तु यथा यथा सूर्य उर्ध्वं भवति तथा तथा छायाह्रासात् यत्र छाया वृत्तपरिधौ यदा प्रविशति तत्स्थानात् तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्द्धज्याकारेण देयस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कु- स्थानस्य पश्चिमा। छायाग्रस्य पूर्वापरसूत्राद्भुजान्तरेण याम्योत्तरपतनात् सूर्यापरदिशि छायापतनाच्च। एवं दिनापरार्द्धे सूर्यो यथा यथाध: सञ्चरति तथा तथा छायावृद्धे: शङकुच्छायावृत्तपरिधौ यत्र यदा निर्गच्छति तात्कालिको वक्ष्यमाणभुजो व्यस्तोऽर्द्धज्याकारेण तत्स्थानाद्यस्तदुत्क्रमज्या यत्र परिधिप्रदेशे लगति तत्र शङ्कुस्थानस्य पूर्वा।। तत्सूत्रं पूर्वापरसूत्रम्। इदं शङ्को उपलक्षणत्वेन ज्ञानं तथा छायोपलक्षणेनापि प्रदेशस्य पूर्वापरसूत्रज्ञानम्। तथाहि। छायाग्रं विशति तत्र अपरा छायाग्रं निर्गच्छति तत्र पूर्वा। तत्रापि प्रवेशनिर्गमयो: एककालत्वासम्भवात् यत्कालिक: प्रवेश: तत्काले छायाया: पश्चिशमत्वं तत्र वस्तुभूतं तत्काले निर्गमनस्य पूर्वत्वासम्भव:। एवं निर्गमकाले निर्गमस्थानस्य पूर्वत्वं वस्तुभूतं तत्काले प्रवेशस्य पश्चिमत्वासम्भव:। एककालिकसिध्यर्थमुभयोरेकतरं चिह्नं चाल्यं तात्कालिकभुजयो: अन्तरेण तत्र पूर्वचिह्नं भुजान्तरांगुलै: अयनदिशि चाल्यम्। पश्चिमचिह्नं वा व्यस्तायनदिशि चाल्यम्। तत्सूत्रं सूत्रमध्यदेशस्य पूर्वापरसूत्रम्। एतन्मध्ये स्थापितशङ्कोश्छायाग्रप्रवेशनिर्गमचिह्नाभ्यां यथोक्तरीत्या भुजदानेन सिद्धपूर्वापरसूत्रेण अभिन्नत्वात्। तदुक्तं सिद्धान्तशिरोमणौ। तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्याहतात्। लम्बज्या प्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता। इति। तदेतद्भगवता लोकानुकम्पया स्वल्पान्तरत्वादेकतरविन्दुचलनं नोक्तं सुखार्थं किञ्चित्स्थूलौ एव निर्गमप्रवेशविन्दू पूर्वापराभिधौ उक्तौ। एवञ्च अभीष्टस्थानं प्रवेशनिर्गमसूत्रमध्ये यथा भवति तथा अनेन प्रकारेण मण्डलकेन्द्रे शङ्कुस्थापनादिना अभीष्टप्रदेशे पूर्वापरदिशे साध्ये इति। तन्मध्ये दक्षिणोत्तररेखा विन्दुद्वयोत्पन्नमध्यमत्स्यरेखा एवेति। याम्योत्तरमध्ये पूर्वापरारेखा तद्दिङ्मध्यमत्स्येनेति याम्योत्तरदिशोरित्यादि सम्यगुक्तम्। ननु पूर्वापरबिन्दुभ्यां मत्स्येन या दक्षिणोत्तररेखा तदग्राभ्यां मत्स्येन रेखापूर्वापरविन्दुस्पृष्टा एवेति पूर्वं तस्या एव विन्द्वन्तरत्वेन सिद्धत्वात् पुन: साधनं व्यर्थमन्यथा दक्षिणोत्तररेखाया अपि असंगतत्वापत्तेरिति चेत् सत्यम्। दक्षिणोत्तररेखाशुध्यर्थमेव पूर्वापरविन्दुस्पृष्टरेखाया: पुन: साधनमिति केचित्। वस्तुतस्तु दक्षिणोत्तरपूर्वापरसूत्रसम्पातरूपाभीष्टस्थानात् केन्द्रात् प्रागुक्तवृत्तस्य वक्ष्यमाणोपयोगित्वेन आवश्यकत्वात् तस्य च पूर्वापरविन्द्वन्तरसूत्राधिकव्याससूत्रत्वाद्विन्द्वन्तररेखामूलाग्रयो: बर्द्धनीया सा तत्र वृत्ते पूर्वापररेखा भवति। तस्या विन्दोरूपरि अधश्च वक्रत्वं कदाचित् स्यादत: प्रथममेव पूर्णरेखासिध्यर्थं विन्द्वन्तरसिद्धमत्स्यमुखपुच्छगतरेखाया विन्द्वन्तराधिकत्वेन तदुत्पन्नमत्स्यरेखाया ऋज्व्या: सुतरामधिकत्वेन पुन: पूर्वापररेखासाधनं युक्ततरमिति तत्त्वमम्। एवमेव अव्यवहित दिग्द्वयान्तरोत्पन्नलघुमत्स्यै: चतुर्भि: सूत्रै: वृत्ते कोणदिश:। तदिदमभीष्टस्थानकेन्द्रकमण्डले दिगष्टकं सिद्धम्।।1-4।।
अथ दिक्सूत्रसम्पातरूपाभीष्टस्थानात् तात्कालिकच्छायाग्रस्थानमाह
चतुरस्रं बहि: कुर्यात् सूत्रैर्मध्याद्विनिर्गतै:।
भुजसूत्राङ्गुलैस्तत्र दत्तैरिष्टप्रभा स्मृता।।5।।
मध्यात् अभीष्टस्थानात् दिग्रेखासमपातरूपात् विनिर्गतै: निसृतै: अष्टदिग्रेखारूपै:। वहिर्दिक्सूत्रसम्पातकेन्द्रवृत्ताबद्वहि:। अनेन एव वृत्तकरणं पूर्वमनुक्तं द्योतितम्। अन्यथा बहिरित्यस्य अनुपपत्ते:। पूर्ववृत्तग्रहणे तु दिग्रेखासम्पातस्य मध्यत्वानुपपत्ते: चतुरस्रं कोणरेखाधिकसूत्रकर्णद्वयतुल्यं समचतुर्भुजं कुर्यात्। यथा च तद्दर्शनम्। तत्र चतुरस्रे भुजसूत्रांगुलै: वक्ष्यमाणभुजमितसूत्रस्य अंगुलै: निर्गमप्रवेशकालिकै: दत्तै: पूर्वापरसूत्रात् अर्द्धज्यावत् दीयमानै: तत्र वृत्ते यस्मिन् प्रदेशे भुजाग्रं तत्प्रदेश इष्टप्रभानिर्गमप्रवेशान्यतरकालिकच्छायाग्रमुक्तम्। प्रतीतिस्तु दिक्सूत्रसम्पातस्थशङ्कुना ज्ञेया। अत्रोपपत्ति:। वक्ष्यमाणभुजस्य छायाग्रपूर्वापरसूत्रान्तरत्वेन प्रतिपादितत्वात् इष्टच्छायाग्रमुक्तदिशा ज्ञानं सम्यक्। चतुरस्रकरणं वक्ष्यमाणाग्रसाधकप्राच्यपर-रेखानुकाररेखाया वृत्तान्तस्तद्बहिर्वा ऋजुत्वसिद्ध्यर्थमिति ।।5।।