SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
ननु स्थिरकरणोक्तावपरार्द्धत इत्युक्त्या तेषां चतुर्णां तिथ्यर्द्धभोगेन शुक्लप्रतिपदाद्यर्द्धपर्यन्तं क्रमेण अवस्थानं युक्तं चरकरणानां तु केवलोक्त्या तदनन्तरं कृष्णचतुर्दश्याद्यर्द्धपर्यन्तमेक एव परिभ्रमोऽस्त्वि त्यतस्तदुत्तरं कथयन्नन्यदपि आह—
तिथ्यर्धभोगं सर्वेषां करणानां प्रकल्पयेत्।
एषा स्फुटगति: प्रोक्ता सूर्यादीनां खचारिणाम्।।69।।
सप्तानां चरकरणानां प्रत्येकं तिथ्यन्तश्चासौ भोगश्च तं तिथ्यर्द्धकालमितावस्थानं प्रकल्पयेत्। एकत्र निर्णीत: शास्त्रार्थोऽपरत्र भवतीति न्यायात् करणत्वे न एषामप्यवस्थानं तत्तुल्यं कुर्यादित्यर्थ:। अत एव तिथ्यर्द्धं करणं स्मृतमित्युक्त्या चान्द्रमासे त्रिंशत्तिथ्यात्मके षष्टिकरणानां सन्निवेशाच्चरकरणानामेव परिभ्रमणे प्रतिमासमनियततिथिभागकं करणं भवतीति तद्वारणक प्रतिमासनियत तिथिभोगककरणकसिद्ध्यर्थं चरकरणानामष्टवारपरिभ्रमणोत्तरमवशिष्टतिथ्योश्चतुर्ष्वर्द्धेषु स्थिरकरणानि उक्तानि इति तात्पर्यम्। तत्रापि कृष्णचतुर्दश्यपरार्द्धतस्तत्कल्पनं तदिच्छानियामकं स्वतन्त्रेच्छस्य नियोगानर्हत्वात्। अथाग्रिमग्रन्था सङ्गतित्वनिरासार्थमुक्ताधिकारमुपसंहरति। एषेति। हे मय! सूर्यादीनां सप्तग्रहाणामेषा दृश्येत्यादि कल्पयेदित्यन्तं या वार्ता सा स्फुटगति: स्पष्टगति: स्पष्टक्रियाज्ञानसम्पादिका प्रोक्ता तुभ्यं मयोक्ता। एतेन स्पष्टाधिकार: परिपूर्तिमाप्त इति सूचितम्।।69।।
रङ्गनाथेन रचिते सूर्यसिद्धान्तटिप्पणे। स्पष्टाधिकार: पूर्णोऽयं तद्गूढार्थप्रकाशके।।
इति श्रीसकलगणकसार्वभौमबल्लालदैवज्ञात्मजरङ्गनाथगणकविरचिते गुढार्थ-प्रकाशके स्पष्टाधिकार: सम्पूर्ण:।।2।।