SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ ग्रहस्य नक्षत्रनयनमाह—
भभोगोऽष्टशतीलिप्ता: खाश्विशैलास्तथा तिथे:।
ग्रहलिप्ता भभोगाप्ता भानि भुक्त्या दिनादिकम्।।64।।
अष्टशतमिता: कला: नक्षत्रभोग:। प्रसङ्गात् तिथिभोगमाह। खाश्विशैला इति। तिथेर्विंशत्यधिकसप्तशतमिता: कलास्तथा भोग इत्यर्थ:। यस्य ग्रहस्य नक्षत्रज्ञानमिष्टं तस्य ग्रहस्य राशयस्त्रिंशद्गुण्या अंशा योज्यास्ते षष्टिगुणिता: कला योज्या इति परिभाषया कला नक्षत्रभोगभक्ता: फलं ग्रहस्य गतनक्षत्राणि शेषं वर्तमाननक्षत्रस्य गतकलास्तस्मात् तस्य गतदिनाद्यानयनमाह। भुक्त्येति। ग्रहस्य कलात्मिकया गत्या शेषदिनादिकं गतं भागहरणेन साध्यमेवं श ेषोनाद् भोगाद् गतिकला भागेनैष्यदिनादिकं साध्यम्। अत्रोपपत्ति:। भचक्रभोगेन सप्तविंशतिनक्षत्राणि अश्विन्यादीनि ग्रहो भुनक्त्यत: सप्तविंशतिनक्षत्राणां चक्रकला: षट्शतयुतैकविंशतिसहस्रमिता भोगस्तदैकनक्षत्रस्य क इत्यनुपातेन अष्टशतकलाभोग:। एवं तिथेश्चान्द्रमासत्रिंशदंशत्वात् चान्द्रमासस्य सूर्यचन्द्रान्तरैकभगणसिद्धत्वाच्च। त्रिंशत् तिथीनां चक्रकलाभोगस्तदैकतिथे: क इत्यनुपातेन विंशत्यधिकिसप्तशतकलाभोग:। अथ अष्टशतकलाभिरेकं नक्षत्रं तदा ग्रहकलाभि: किमित्यनुपातेन फलमश्विन्यादीनि ग्रहभुक्तानि शेषकला ग्रहाधिष्ठितनक्षत्रस्य गतं भभोगाद्धीनं तस्यैष्यमाभ्यां ग्रहगत्यैकं दिनं तदाभीष्टकलाभि: किमित्यनुपातेन तस्य गत्यैष्यदिवसाद्यं भवति। एवं चन्द्रात् दिननक्षत्रं ज्ञेयम्।।64।।