SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ चरानयनपूर्वकदिनरात्रिमानसाधनं श्लोकत्रयेण आह—
क्रान्तिज्या विषुवद्भाघ्नी क्षितिज्या द्वादशोद्धृता।
त्रिज्यागुणाऽहोरात्रार्धकर्णाप्ता चरजाऽसव:।।61।।
तत्कार्मुकमुदक्क्रान्तौ धनहानी पृथक् स्थिते।
स्वाहोरात्र-चतुर्भागे दिनरात्रिदले स्मृते।।62।।
याम्यक्रान्तौ विपर्यस्ते द्विगुणे तु दिनक्षपे।
विक्षेपयुक्तोनितया क्रान्त्या भानामपि स्वके।।63।।
क्रान्तिज्या विषुवद्दिनीयमध्याह्नेन द्वादशांगुलशंकोश्छायया गुण्या द्वादशभक्ता फलं कुज्या स्यात्। सा त्रिज्यया गुणिताहोरात्रार्द्धं कर्णाप्ताहोरात्रवृत्तस्य अर्द्धकर्णेन व्यासदलेन द्युज्यया भक्ता फलं चरजा ज्या चरज्येत्यर्थ: । अस्याश्चरज्याया धनुरसवश्चरासवो भवन्ति। स्वाहोरात्रचतुर्भागे स्वस्य चरसम्बन्धिनो ग्रहस्य प्रागुक्ताहोरात्रासवस्तेषां चतुर्थांशे पृथक् स्थिते स्थानद्वयस्थे उत्तरक्रान्तौ सत्यां चरासू धनहानी युतहीनौ कार्यौ तौ क्रमेण दिनरात्रिदले दिनार्द्धरात्र्यर्द्धे कालविद्भिरुक्ते। दक्षिणक्रान्तौ सत्यां विपर्यस्ते दिनरात्रिदले यत्र हीनं तद्दिनार्द्धं यत्र युतं तद्रात्र्यर्द्धमित्यर्थ:। तुकारात् ते दिनरात्र्यर्द्धे द्विगुणे दिनक्षपे दिनमानरात्रिमाने ग्रहस्य स्त:। उक्तरीत्या नक्षत्राणामपि दिनरात्रिमाने साध्ये इत्याह। विक्षेपेत्यादि। नक्षत्रध्रुवाणामानीतया क्रान्त्या नक्षत्रविक्षेपेणैकभिन्ना दिक्क्रमेण युक्त्या अन्तरितया उक्तप्रकारेण सिद्ध्या स्वके नाक्षत्रदिनरात्रिमाने साध्ये इत्यर्थ:। अत्रोपपत्ति:। द्वादशांगुलशंकु: कोटि: फलभा भुजोऽक्षकर्ण: कर्ण:। क्रान्तिज्या कोटि: कुज्या भुजोग्राकर्ण इत्यक्षक्षेत्रद्वयं प्रसिद्धम्। तत्र द्वादशकोटौ फलभा भुज: क्रान्तिज्याकोटौ को भुज इत्यनुपातेन कुज्या। तत्स्वरूपं तु निरक्षदेशक्षितिजस्वदेशक्षितिजान्तरालस्थिताहोरात्रवृत्तप्रदेशस्य द्युज्याप्रमाणेन ज्येति त्रिज्याप्रमाणेन तज्ज्या चरज्येति द्युज्याप्रमाणेन कुज्या त्रिज्याप्रमाणेन केत्नुपातेन चरज्या तद्धनुश्चरासवोऽहोरात्रवृत्तखण्डप्रदेशे निरक्षस्वक्षितिजान्तराल उत्तरगोले स्वक्षितिजस्य निरक्षक्षितिजादध: स्थत्वात् निरक्षक्षितिजयाम्योत्तरवृत्तान्तरालेऽहो-रात्रवृत्तचतुर्थांशत्वाद् अहोरात्रासु चतुर्थांशे चरासवो युता दिनार्द्धं हीना रात्र्यर्द्धं दक्षिणगोले स्वक्षितिजस्य निरक्षक्षितिजादूर्ध्वस्थत्वात् हीना दिनार्द्धं युता रात्र्यर्द्धमित्युपपन्नं सर्वं क्रान्तिज्येत्यादि।।61-63।।