-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


चन्द्रादिग्रहाणां विक्षेपसाधनम्।
Chandradigrahanam bikhsyepasabsadhanam

अथ चन्द्रादिग्रहाणां विक्षेपसाधनं श्लोकाभ्यामाह—

कुजार्किगुरुपातानां ग्रहवच्छीघ्रजं फलम्।
वामं तृतीयकं मान्दं बुधभार्गवयो: फलम्।।56।।
स्वपातोनाद् ग्रहाज्जीुवा शीघ्राद्भृगुजसौम्ययो:।
विक्षेपघ्नान्त्यकर्णाप्ता विक्षेपस्त्रिज्यया विधो:।।57।।

भौमशनिगुरूणां ये पाता मध्याधिकारावगतास्तेषां शीघ्रजं फलं स्वग्रहसम्बन्धिचतुर्थकर्मस्थशीघ्रफलं पूर्वसिद्धं ग्रहवत् ग्रहे यथा संस्कृतं तथा संस्कार्यम्। ग्रहशीघ्रफलं ग्रहे चेत् युतं तदा तत्पाते तदेव फलं योज्यं चेद्धीनं तदा हीनं कार्यमित्यर्थ: बुधशुक्रयोस्तृतीयकं तृतीयकर्मसम्बन्धिमान्दं फलं तत्पातयो: विपरीतं संस्कार्यं बुधशुक्रयो: मन्दफलं धनमृणं चेत् तत्पातयो: तदेव फलमृणधनं क्रमेण कार्यमित्यर्थ:। अनुक्तत्वात् चन्द्रस्य यथागत एव पातो ज्ञेय:। स्पष्टग्रहात् स्वस्य फलसंस्कृतो य: पातस्तेन हीनाद्भुजज्या। बुधशुक्रयो: विशेषमाह। शीघ्रादिति शुक्रबुधयो: शीघ्रोच्चात् पातेन हीनाद्भुजज्या न पातोनबुधशुक्राभ्यां भुजज्या। विशेषस्य सामान्यबाधकत्वात्। अर्थात् पूर्वोक्तं चन्द्रभौमगुरुशनीनां सिद्धम्। मध्याधिकारोक्तस्वमध्यमविक्षेपकलाभिर्गुण्या चतुर्थकर्मणि य: शीघ्रकर्णस्तेन भक्ता फलं ग्रहाणां विक्षेपकला: स्फुटा भवन्ति। ननु चन्द्रस्य शीघ्रकर्णासम्भवात् तत्पातोनतद्भुजज्या खभ गुणिता केन भाज्येत्यत आह। त्रिज्ययेति। चन्द्रस्य विक्षेपसाधने तादृशी भुजज्या त्रिज्यया भाज्येत्यर्थ:। अत्रोपपत्ति:। यथा विषुवद्वृत्तात् क्रान्तिवृत्तयाम्योत्तरभागौ यदन्तरेण याम्योत्तरसूत्रे सा ध्रुवाभिमुखी क्रान्तिस्तथा क्रान्तिवृत्ताद्विक्षेपवृत्तभागौ यदन्तरेण याम्योत्तरसूत्रे स विक्षेप: कदम्बाभिमुख:। तथाहि। विक्षेपवृत्तानि ग्रहविम्बाधिष्ठितानि सूर्यव्यतिरिक्तग्रहाणां षण्णां स्वस्वगोले भिन्नानि सूर्यस्य नित्यं क्रान्तिवृत्तस्थत्वमेव तानि क्रान्तिवृत्ते स्वस्वगत्या प्रोतान्येव गच्छन्ति। तत्र विक्षेपक्रान्तिवृत्तसम्पाते पातस्थाने तत्षड्भान्तरप्रदेशे च स्थिते ग्रहविम्बे वृत्तप्रदेशैक्यादन्तराभावेन ग्रहविक्षेपाभाव:। यथा तस्माद् ग्रहबिम्बं गच्छति तथा ग्रहबिम्बक्रान्तिवृत्तस्थ चिह्नयो: याम्यमुत्तरं वान्तरं क्रान्तिवृत्तात् ग्रहस्य भवति तदेव विक्षेपसंज्ञम्। स च पातात् त्रिभान्तरे ग्रहे मध्याधिकारोक्त:। अन्तराले पातस्थानात् ग्रहचिह्नं क्रान्तिवृत्ते यदन्तरेण तदन्तरं राश्याद्यात्मकं पातोनग्रहरूपं तद्भुजज्यानुपात:। त्रिज्याभुजज्यया परमविक्षेपस्तदेष्टया भुजज्यया क इति। एवं चन्द्रस्य एव त्रिज्याव्यासार्द्धगोले परमशरस्य गणितागतपातस्य च लक्षितत्वात्। अन्येषां तु परमशरा: शीघ्रोच्चदेवताकृष्टग्रहबिम्बाधिष्ठितकल्पितवृत्ते शीघ्रकर्णव्यासार्द्धे लक्षिता:। कथमन्यथा शीघ्रफलसंस्कारेण ग्रहस्य स्पष्टत्वं युक्तम्। ग्रहविम्बस्य तत्स्थत्वे तत्पातस्य अपि तत्स्थत्वं युक्तम्। ग्रहविम्बाधिष्ठितवृत्ते ग्रहभोगस्य मन्दस्पष्टत्वेन गणितागतपातान् मन्दस्पष्टात् शरसाधनमुपपन्नम्। तदुक्तं सिद्धान्तशिरोमणौ। मन्दस्फुटो द्राक्प्रतिमण्डले हि ग्रहो भ्रमत्यत्र च तस्य पात:। पातेन युक्ताद् गतिणातागतेन मन्दस्फुटात् खेचरत: शरोऽस्मात्।। इति।।

तत्र स्पष्टात् शरसाधनार्थं शीघ्रफलं पाते संस्कृतं शीघ्रफलव्यस्तसंस्कृतस्पष्टग्रहस्य मन्दस्पष्टत्वात् यथोक्तसंस्कृतपातोने स्पष्टग्रहे पातोनमन्दस्फुटग्रहस्य सिद्धे:। अथ बुधशुक्रपातभगणौ वास्तवौ नोक्तौ। तौ तु शीघ्रकेन्द्रभ्रगणाधिकावतो गणितागतपातयो: मध्यग्रहोन- शीघ्रोच्चरूपशीघ्रकेन्द्रयुतयो: द्वादशराशिशुद्धयो: पातत्वम्। तत्र पूर्वपातस्य द्वादशशुद्धत्वात् शीघ्रकेन्द्रं चक्रशुद्धं लाघवाद्गणितागतपातस्य शीघ्रोच्चोनमध्यग्रहरूपं केन्द्रं योज्यमयं पातो मन्दस्पष्टे मन्दफलसंस्कृतमध्यरूपे हीन इति ग्रहयोर्मध्ययो: नाशात् यथागत मन्दफलसंस्कृतं शीघ्रोच्चं पातोनमिति सिद्धम्। तत्रापि मन्दफलं पाते व्यस्तं कृत्वा तदूनं शीघ्रोच्चं कृतं संस्कृतपातपङ्क्त्यां संस्कृतपातयोर्युक्तत्वात्। अथ एतदानीतविक्षेप: कर्णव्यासार्द्धवृत्ते न त्रिज्यावृत्ते स्फुटग्रहस्थाने अत: कर्णाग्रेऽयं पूर्वानुपातानीतविक्षेपस्तदा त्रिज्याग्रे क इत्यनुपातेन त्रिज्यागुण:, कर्णो हर: पूर्वं त्रिज्याहर इति त्रिज्ययोर्नाशाद्भुजज्या परमविक्षेपगुणिता शीघ्रकर्णभक्तेति सर्वमुक्तमुपपन्नम्।।56-57।।