SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ यत्केन्द्रांशेषु गतिफलमृणं मन्दस्पष्टगतितुल्यं भवति तान् वक्रारम्भभागान् तदन्तभागांश्च विना गतिसाधनप्रकारं ग्रहवक्रतदन्तज्ञानार्थं श्लोकाभ्यामाह—
कृतर्तुचन्द्रैर्वेदेन्द्रै: शून्यत्र्येकैर्गुणाष्टिभि:।
शररुद्रैश्चतुर्थेषु केन्द्रांशैर्भूसुतादय:।।53।।
भवन्ति वक्रिणस्तैस्तु स्वै: श्वैश्चक्राद् विशोधितै:।
अवशिष्टांशतुल्यै:स्वै केन्द्रैरुज्झन्ति वक्रताम्।।54।।
भौमाद्या ग्रहाश्चतुर्थ कर्मसु केन्द्रांशै: कृतर्त्तुचन्द्रैरित्याद्युक्तरूपै: क्रमेण वक्रिणो भवन्ति। स्वकीयै: तै: केन्द्रांशै उक्ततुल्यै: चक्राद्द्वादशराशिभागेभ्य: षष्टियुतशतत्रयेभ्यो विशोधितै: हीनै:।
अवशेषसमानै: स्वकीयै: चतुर्थकेन्द्रांशै:। तुकार: क्रमार्थे। भौमादयो वक्रत्वं त्यजन्ति। परिवर्ते वारद्वयं भुजतुल्यत्वेन नीचासन्ने मन्दस्पष्टगति तुल्यगति फलस्य सम्भवादिति ।।
53-54।।
अथ वक्रान्तभागानामतुल्यत्वे कारणान्तरमपि आह—
महत्वाच्छीघ्रपरिधे: सप्तमे भृगुभूसुतौ।
अष्टमे जीवशशिजौ नवमे तु शनैश्चर:।।55।।
शीघ्रकेन्द्रस्य सप्तमे राशौ शुक्रभौमौ वक्रत्वं त्यजत:। अष्टमे राशौ गुरुबुधौ वक्रत्यजनार्हौ। अत्र शुक्रगुर्वो: पूर्वोद्देश इतरापेक्षयाभ्यर्हितत्वज्ञापक:। नवमे राशौ शनिर्वक्रत्वं त्यजति। तुरेवार्थे। तेन शनिरेव तत्र वक्रत्वं त्यजति न अन्ये। अत्र कारणमाह। महत्वादिति। अन्येषां शीघ्रपरिधे: प्रागुक्तस्य महत्वात् शनिशीघ्रपरिधे: अधिकत्वात्। तथा च परिध्यधिकत्वेन पूर्वमेव वक्रत्यजनमत एव भौमशुक्रयोर्बुधगुरुभ्यां प्रथमोद्देश: शनेस्तु सुतरां बुधगुर्वो: शनित: पूर्वोद्देश:। भृगुभूसुतौ जीवशशिजौ इत्यत्र परिध्यधिकत्वेन शुक्रगुर्वो: प्रथमं केवलमुद्देशो न भागानामल्पत्वक्रम इति भाव:। ननु परिध्यधिकत्वे पूर्वपूर्वराशौ वक्रत्यजने कोपपत्तिरिति चेत् श्रृणु। शून्यगति सम्बद्धशीघ्रकर्णात् फलांशखांकान्तरेत्यादे: विलोमविधिना शीघ्रोच्चगते: फलकोटिज्या अस्या: फलज्या अस्या: त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितमित्यस्य विलोमविधिना भुजफलमस्मात् तद्गुणे भुजफलं चलकर्णविभाजितमित्यस्य विलोमविधिना भुजफलमस्मात् तद्गुणे भुजकोटिज्ये भगणांशविभाजिते इत्यस्य विलोमप्रकारेण भुजांशज्ञानार्थं भौमादीनां भुजज्या उत्तरोत्तरमधिका: शीघ्रपरिधिभ्यो यथोत्तरमपचयवद्भ्यो लब्धत्वाद्धराधिकन्यूनत्वाभ्यां फलयो: न्यूनाधिकत्वनिश्चयात् तासां चापानि भुजभागा यथोत्तरमधिका वक्रारम्भे तदन्ते च तुल्या अतएव तृतीयपदे वक्रान्तत्वात् भुजभागा: षड्युता यथोत्तरमधिकं शीघ्रकेन्द्रं तेषां वक्रान्ते भवति। वक्रारम्भस्य द्वितीयपदे सम्भवाद् भुजभागहीना: षड्राशयस्तेषां वक्रारम्भे यथापचितं केन्द्रं भवति। तत् तु उक्तरीत्या भौमशुक्रयो: षष्ठराशौ बुधगुर्वो: पञ्चमराशौ शनेश्चतुर्थराशौ इति ज्ञेयम्। इदं भगवता विना चक्रशोधनम् आपतत: शीघ्रकेन्द्रराशिज्ञानात् वक्रान्तज्ञानं लोकनुकम्पार्थम् अनतिप्रयोजनमुक्तमिति ध्येयम्।।55।।