SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ श्लोकाभ्यां स्पष्टगतिसाधनमाह—
मन्दस्फुटीकृतां भुक्तिं प्रोज्झ्य शीघ्रोच्च भुक्तित:।
तच्छेषं विवरेणाथ हन्यात् त्रिज्यान्त्यकर्णयो:।।50।।
चलकर्णहृतं भुक्तौ कर्णे त्रिज्याऽधिके धनम्।
ऋणमूनेऽधिके प्रोज्झ्य शेषं वक्रगतिर्भवेत्।।51।।
मन्दस्पष्टां गतिं प्राक् सिद्धां शीघ्रोच्चगते: पातयित्वा तत्रावशिष्टं त्रिज्यान्त्यकर्णयो: त्रिराशिज्या द्वितीयशीघ्रकर्णयो: ग्रन्थान्तरैकवाक्यतार्थ त्रिज्यााशब्देन द्वितीयशीघ्रफलकोटिज्या ग्राह्येति ध्येयम्। अन्तरेण गुणयेत् तत्र यत् सिद्धं तच्छीघ्रकर्णेन द्वितीयेन भक्तं फलं मन्दस्पष्टगतौ द्वितीयशीघ्रकर्णे त्रिज्याधिके गृहीत फलकोटिज्यातोऽधिके सति हीने च सति धनमृणं क्रमेण कार्यं स्पष्टगति: स्यात्। ननु यदा मन्दस्पष्टगतितो गतिशीघ्रफलमधिकं तदा मन्दस्पष्टगतौ फलमूनं न स्यादिति तत्र स्पष्टगतिज्ञानं कथम्। न च एतदसम्भव इति वाच्यम्। नीचासन्ने ग्रहे फलकोटिज्या शीघ्रकर्णान्तरात् शीघ्रकर्णस्य न ्यूनत्वात् फलस्यावश्यं मन्दस्पष्टगत्यधिकत्व सम्भवादित्यत आह। अधिक इति। मन्दस्पष्टगति:। अधिके फले पातयित्वा शेषं वक्रगति: विपरीतगति: पश्चिमगति: स्यात्। तथा च न क्षति: अत्रोपपत्ति:। फलांशखांकान्तरशिञ्जनीघ्नी द्राक्केन्द्रभुक्ति: श्रुतिहृद्विशोध्या। स्वशीघ्रभुक्ते: स्फुटखेटभुक्ति: शेषं च वक्रा विपरीतशुद्धौ। इति सिद्धान्तशिरोमणौ वृद्धवशिष्ठसिद्धान्तोक्ते: सूक्ष्मप्रकार: तस्योपपत्तिस्तु तट्टीकायां व्यक्ता। तत्र द्राक्केन्द्रभुक्त्यर्थं प्रथमार्द्धमुक्तम्। इयं गति: फलकोटिज्यया गुण्या कर्णभक्ता फलं स्वशीघ्रोच्चगते: शोध्यम् तत्र प्रथममेव समच्छेदपूर्वकशोधनार्थं शीघ्रोच्चगते: कर्णो गुण:। तत्रापि शीघ्रोच्चगते: केन्द्रग्रहगतियोगरुपत्वात् खण्डद्वयं केन्द्रगतौ एव फलं हीनं कृतमिति कर्णगुणितकेन्द्रगतिफलकोटिज्यागुणितकेन्द्रगत्यो: अन्तरं तत्रापि गुणितयो: अन्तरेऽन्तरे वा गुणिते समत्वात् लाघवाच्च फलकोटिज्या कर्णान्तरेण केन्द्रगतिर्गुणिता कर्णभक्ता इति तच्छेषमित्यादिहृतमित्यन्तमुपपन्नम्। अथ फलकोटिज्यातुल्यकर्णे मुख्यप्रकारेण गतेर्मन्दस्पष्टगतितुल्यतया सिद्धत्वात् फलाभाव: कर्णस्य न्यूनत्वे फलस्य शीघ्रकेन्द्रगत्यधिकत्वात् तदूने शीघ्रोच्चगतौ शीघ्रकेन्द्रगतिनाशात् अधिकस्य गतिफलरूपस्य मन्दस्पष्टगतौ हीनत्वं पर्यवसन्नम्। कर्णस्य अधिकत्वे पूर्वप्रकारफलस्य शीघ्रकेन्द्रगतितो न्यूनत्वात् तदूने शीघ्रोच्चगतौ यत् न्यूनं तदधिका मन्दस्पष्टगति: स्पष्टगतिरिति पर्यवसन्नम्। तदत्र शीघ्रोच्चगतिस्थाने शीघ्रकेन्द्रगतिग्रहणेन फलं गतिफलमेवोत्पन्नं तन्मन्दस्पष्टगतौ फलकोटिज्यात: कर्णस्य अधिकन्यूनत्वक्रमेण धनमृणमित्युपपन्नं कर्ण इत्याद्यून इत्यन्तम्। ऋणफलस्य मन्दस्पष्टगतितोऽधिकत्वे विपरीतशोधनाच्छेषं पश्चिमगतिरेव स्पष्टेति सर्वमनवद्यम्।।50-51।।