SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ ग्रहाणां मन्दस्पष्टगतिवासनासूचनपूर्वगतिफलानयनपूर्विकां श्लोकाभ्यामाह—
ग्रहभुक्ते: फलं कार्यं ग्रहवन्मन्दकर्मणि।
दोर्ज्यान्तरगुणा भुक्तिस्तत्वनेत्रोद्धृता पुन:।।48।।
स्वमन्दपरिधिक्षुण्णा भगणांशोद्धृता: कला:।
कर्कादौ तु धनं तत्र मकरादावृणं स्मृतम्।।49।।
मन्दकर्मणि गतिमन्दफल क्रियानिमित्तमित्यर्थ:। ग्रहवत् ग्रहमन्दफलानयनरीत्या परिधिगुणनभगणांशभजनाप्तचापमित्यात्मिकया ग्रहगते: सकाशात् फलं ग्रहमन्दगतिफलं साध्यम्। तथा ग्रहमन्दफलं केन्द्रभुजज्यात: साधितं तथा इदं गतिफलं ग्रहगते: साध्यमित्यर्थ:। तथाहि ग्रहमन्दफलान्तरस्य एकदिनान्तरीयस्य ग्रहगतिमन्दफलत्वाद्भुजज्ययो एकदिनान्तरयो: अन्तरात् फलं मन्दगतिफलं पर्यवसितं तत्र केन्द्रयोरन्तरस्य केन्द्रगतित्वात् तज्ज्ययोरन्तरं तत्त्वाश्विप्रमाणेन उक्तं ज्यापिण्डान्तरं गतिकलापरिणामितं भवति। तदेवाह। दोर्ज्यान्तरगुणेति। ग्रहमध्यगति: केन्द्रगतिरूपा। उच्चगते: अत्यल्पत्वात् दोर्ज्यान्तरगुणा भुजज्यानयनावसरे यज्ज्या्पिण्डान्तरं तेन गुणिता पञ्चाकृतिभिर्भक्ता पुन: अनन्तरमित्यर्थ:। ग्रहमन्दपरिधिना स्फुटेन गुणिता षष्टियुतशतत्रयेण भक्ता फलं गतिमन्दफलकला:। यद्यपि गतज्यात: फलज्यानयनं कृत्वा तत् चापं गतिफलं समुचितम्। तथापि ग्रहगतेस्तत्वाश्विभ्यो न्यूनत्वात् ज्याचापयो: तुल्यत्वेन तदनुक्तावक्षति:। चन्द्रस्य तु स्वल्पान्तरात् तत्करणमुपेक्षितम् मन्दस्पष्टगतिसिद्ध्यर्थं मध्यगतौ फलसंस्कारमाह। कर्कादाविति। तत्र ग्रहमध्यगतौ पूर्वानीतफलं कर्कादिषड्भान्तर्गतकेन्द्रे धनं मकरादिषड्भान्तर्गतकेन्द्रं ऋणमुक्तम्। तुकारान्मन्दस्पष्टगति: सिद्धा भवतीत्यर्थ:।।48-49।।
अत्रोपपत्ति:। ऋणफलोपचये पूर्वफलादग्रिमफलमधिकं हीनमिति फलान्तरं गतावृणम्। ऋणफलापचये पूर्वफलादग्रिमफलं न्यूनं हीनमिति फलान्तरं गतौ धनम्। धनफलोपचये पूर्वफलात् अग्रिमफलमधिकं युतमिति फलान्तरं गतौ धनम्। ऋणफलापचयस्तु मकरादित: प्राक् त्रिभे। धनफलोपचयस्तु तुलादित: प्राक् त्रिभ इति कर्कादि केन्द्रे गतिफलं धनम्। धनफलापचये पूर्वफलादग्रिमं फलं न्यूनं हीनमिति फलान्तरं गतावृणम्। धनफलापचयस्तु कर्कादित: प्राक् त्रिभ ऋणफलोपचयस्तु मेषादित: पाक् त्रिभ इति मकरादिकेन्द्रे गतिफलमृणं सिद्धम् ।।48-49।।