SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ ग्रहाणां भुजान्तरफलमाह—
अर्कबाहुफलाभ्यस्ता ग्रहभुक्तिर्विभाजिता।
भचक्रकलिकाभिस्तु लिप्ता: कार्या ग्रहेऽर्कवत्।।46।।
स्पष्टा सूर्यादिग्रहगति: सूर्यस्य भुजफलेन मन्दफलेन कलात्मकेन गुणिता द्वादशराशिकलाभि: षट्शतयुतैकविंशतिसहस्रमिताभिर्भक्ता प्राप्तफलकला ग्रहे सूर्यादिग्रहेऽर्कवत् सूर्यमन्दफलधनर्णवशादित्यर्थ:। कार्या:। तुकाराद्धनर्णं संस्कार्या:। अत्रोपपत्ति:। अहर्गणस्य एकरूपमध्यममानेन सत्वात् तदुत्पन्नग्रहाणां मध्यममानेन यदर्द्धरात्रं तात्कालिकत्वं सिद्धम् मध्यममानार्द्धरात्रे तु मध्यमसूर्यमितक्रान्तिवृत्तप्रदेशोऽधो याम्योत्तरवृत्ते भवति। अस्मात् कालात् स्पष्टार्द्धरात्रं स्पष्टसूर्यमितक्रान्तिवृत्तप्रदेशाधो याम्योत्तरवृत्तसंयोगरूपं मन्दफलधनर्णक्रमेणान्तरपूर्वकाले भवति। अतो मन्दफलकला भोगसम्बन्धिकालेन ग्रहोऽनन्तरपूर्वकालयोश्चाल्य: स्पष्टार्द्धरात्रसमये भवति। एतेन अनेन कर्मणा स्फुटार्द्धरात्रकालीनग्रहा: क्रियन्ते। सूर्यश्च स्फुटार्द्धरात्रकालीन एव अत: सूर्यस्य नायं संस्कार इति पूर्वोक्तं निरस्तम्। सूर्यव्यतिरिक्तग्रहा मध्यार्द्धरात्रे सूर्यस्तु स्फुटार्द्धरात्र इत्यत्र अहर्गणोत्पन्नत्वेन सर्वेषामेककालिकत्वसिद्धया हेत्वाभावादिति। तत्र मन्दफलकलानां कालस्त्वेकराशिकलाभि: सायनस्पष्टार्काक्रान्तराश्युदयासवो लभ्यन्ते तदा मन्दफलकलाभि: क इत्यनुपातेन ततोऽहोरात्रासुभिर्गतिकलास्तदा फलकलासुभि: का इति मन्दफलकलाग्रहे धनर्णं मन्दफलवशाद्धनर्णं कार्या इति सिद्धम्। तत्रापि भगवता लोकानुकम्पया स्वल्पान्तरेण नाक्षत्रदिने ग्रहगतिभोगमङ्गीकृत्यन चक्रकलापरिवर्तात्मकनाक्षत्राहोरात्रेण गतिकलास्तदा सूर्यमन्दफलकलाभ्रमणेन क इत्येकानुपातात् लाघवादानीताश्चालनकला इत्युपपन्नम्।।46।।