-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


ग्रहस्पष्टीकरणस्य चत्वार: संस्कारा:।
Grahaspashtikaranasya | Sanskarah

ननु सूर्येन्द्वो: शीघ्रफलाभावात् कथं स्पष्टत्वं भवतीत्यत: तदुत्तरं वदन् एतदाद्ये कुजादीनामित्यर्थं स्फुटयति—

मान्दं कर्मैकमर्केन्द्वोर्भौमादीनामथोच्यते।
शैघ्र्यं मान्दं पुनर्मान्दं शैघ्र्यं चत्वार्यनुक्रमात्।।43।।

सूर्यचन्द्रयोर्मान्दं कर्मैकं तथा च अनयो: शीघ्रफलाभावात् केवलेन मन्दफलेन एव स्पष्टत्वम्। एकमित्यनेन सकृन्मान्दं फलं साध्यं मध्यग्रहेण एव मन्दनीचोच्चमण्डलमध्यज्ञानात् न कर्मान्तरापेक्षेत्युपपत्ति: स्पष्टा। अथ अनन्तरं भौमादीनामुच्यते। प्रागुक्तं स्फुटतया कथ्यते तदाह। शैघ्र्यमिति। प्रथमतो मध्यग्रहात् साधितशीघ्रफलं मध्यग्रहे संस्कार्यमस्मात् मन्दफलमस्य एव संस्कार्यमस्मात् पुर्नद्वितीयवारं मन्दफलं साधितं मध्यग्रहे संस्कार्यं मन्दस्पष्टो भवति। अस्मादपि शीघ्रफलं साधितमस्य एव संस्कार्यमेवमनुक्रमात् चत्वारि कर्माणि भवन्तीति प्रागुक्ततात्पर्यम्।।43।।

अथ अत्रापि विशेषमाह—

मध्ये शीघ्रफलस्यार्धं मान्दमर्धफलं तथा।
मध्यग्रहे मन्दफलं सकलं शैघ्र्यमेवच।।44।।

मध्यग्रहे स्वसाधित शीघ्रफलस्यार्द्धं संस्कार्यम्। अस्मात् साधितं मन्दसम्बन्ध्यर्द्धफलं साधितमन्दफलस्यार्द्धमित्यर्थ:। तथा यस्मात् साधितं तस्यैव संस्कार्यं शीघ्रफलार्द्धं संस्कृते संस्कार्यमिति फलितार्थ:। अस्मात् साधितं मन्दफलं सम्पूर्णं मध्यग्रहे संस्कार्यं मन्दस्पष्टो भवति। च: समुच्चये। तेन मन्दस्पष्टे संस्कार्यम् एवकारादुक्तरीत्या सिद्धो ग्रह: स्पष्टो नान्यथा इति।

अत्रोपपत्ति:। मन्दफलं स्फुटसाधितं वास्तवं स्फुटस्तु मन्दफलसापेक्ष इत्यन्योऽन्याश्रयात् सूक्ष्ममन्दफलसाधनमशक्यमपि भगवता तदासन्नसाधनार्थमर्द्धस्फुटादेव मन्दफलं साधितं मध्यग्रहसाधितमन्दफलापेक्षया सूक्ष्मम्। अर्द्धस्फुटस्तु फलद्वयार्द्धसंस्कृतो मध्यग्रह: अत्रापि मन्दफलस्यार्द्धं शीघ्रफलार्द्धसंस्कृतात् किञ्चित् सूक्ष्मत्वार्थं साधितमित्युपपन्नं मध्ये शीघ्रफलस्येत्यादि ।।44।।