-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


शीघ्रफलम्। Shighrafalam

अथ शीघफलं श्लोकत्रयेण आह—

शैघ्र्यं कोटिफलं केन्द्रे मकरादौ धनं स्मृतम्।
संशोध्यं तु त्रिजीवायां कर्क्यादौ कोटिजं फलम् ।।40।।
तद्बाहुफलवर्गैक्यान्मूलं कर्णश्चलाभिध:।
त्रिज्याभ्यस्तं भुजफलं चलकर्णविभाजितम्।।41।।
लब्धस्य चापं लिप्तादि फलं शैघ्र्यमिदं स्मृतम्।
एतदाद्ये कुजादीनां चतुर्थे चैव कर्मणि।।42।।

शीघ्रसम्बन्धि कोटिफलं मकरादि षड्भे शीघ्रकेन्द्रे त्रिज्यायां योज्यामुक्तम्। कर्कादिषड्भे शीघ्रकेन्द्रे शीघ्रकेन्द्रकोट्युत्पन्नं फलं त्रिज्यायां हीनं कार्यम्। तुर्विशेषे। तेन मन्दकर्मणि एतत् क्रियानिरास:। कोटिफलसंस्कृतत्रिज्याभुजफलयो: वर्गयो: योगात् मूलं शीघ्रसंज्ञ: कर्ण:। भुजफलं त्रिज्यया गुण्यं शीघ्रकर्णेन भक्तं फलस्य धनु: कलादि। इदं सिद्धं शीघ्रसम्बन्धिफलं कथितम्। भौमादीनामेतत् शीघ्रफलमाद्ये प्रथमे कर्मणि चतुर्थे कर्मणि। च: समुच्चये। कार्यमेवकारात् द्वितीयतृतीयकर्मणो: न इत्यर्थ:। अर्थात् तत्र मन्दफलं संस्कार्यमिति सिद्धम्। अत्रोपपत्ति:। मन्दस्पष्टभोगस्थानीयकक्षावृत्तप्रदेशात् ग्रहविम्बं शीघ्रोच्चस्थानस्थिततद्देवतया स्वहस्तस्थितसूत्रेण स्वाभिमुखं शीघ्रान्त्यफलज्यान्तरेण आकर्ष्यते। तेन मन्दस्पष्टस्थानाद् शीघ्रान्त्यफलज्यया वृत्ते भांशाङ्किते शीघ्रनीचोच्चसंज्ञे पूर्वरीत्या शीघ्रोच्चस्थानात् शीघ्रकेन्द्रान्तरेण कक्षामार्गवैपरीत्येन ग्रहविम्बं भवति। तत्र पूर्ववत् कोटिफलभुजफले कोटिभुजौ कक्षास्थतिर्यग्रेखात: शीघ्रनीचोच्चवृत्ततिर्यग्व्यासरेखा त्रिज्‍यान्तरेणेतित्रिज्याीकोटिफलयोगो मकरादौ। कर्कादौ कोटिफलोनत्रिज्या शीघ्रनीचोच्चपरिधिस्थग्रहकक्षातिर्यग्रेखयो: अन्तरर्जुसूत्ररूपा कोटि:।

कोटिमूलमध्ययो: अन्तरं कक्षातिर्यग्रेखान्तर्गतं भुजफलतुल्यं भुजो ग्रहभूमध्यस्थसूत्रं तिर्यक् कर्ण:। कोटिभुजफलयो: वर्गयोगमूलं तत: कक्षायां कर्णसूत्रं यत्र लग्नं तत्र स्पष्टो ग्रहभोग: कक्षामध्यसूत्रात् ग्रहसक्तात् स्पष्टभोगस्थानपर्यन्तमर्द्धज्याकारं सूत्रं शीघ्रकर्णाग्रे भुजफलं तदा त्रिज्याग्रे किमित्यनुपातज्ञाता। अस्या: चापं मन्दस्पष्टग्रहभोगस्थानयो: अन्तररूपं शीघ्रफलम्। अथ नीचोच्चवृत्तमध्यज्ञानाय मन्दस्पष्टज्ञानमावश्यकम्। तत: शीघ्रफलसंस्कारेण स्पष्टज्ञानम्। तत्र स्फुट साधितमन्दफलसंस्कृतमध्यग्रहो मन्दस्फुट: सूक्ष्म इति पूर्वं मध्यग्रहस्यासन्नस्फुटत्वसिद्धयर्थं फलयो: संस्कार आवश्यक: तत्रापि प्रथमं मन्दफलं शीघ्रफलसंस्कृतान्मध्यग्रहसाधितमन्दफलापेक्षया सूक्ष्ममिति प्रथमं शीघ्रफलसंस्कृतमध्यग्रहान्मन्दफलं शीघ्रफलसंस्कृतमध्यग्रहे संस्कार्यं स्फुटासन्नो
भवति।।40-42।।