SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ भुजकोटिफलानयनं मन्दफलानयनं च आह—
तद्गुणे भुजकोटिज्ये भगणांशविभाजिते।
तद्भुजज्याफलंधनुर्मान्दं लिप्तादिकं फलम्।।39।।
भुजकोटिज्ये मन्दशीघ्रान्यतर सम्बन्धेनकेन्द्रभुजकोटिज्ये तद्गुणे स्वीयस्फुटपरिधिना गुणिते भगणांशै: षष्ट्यधिकशतत्रयेण भक्ते भुजफलकोटिफले भवत: मन्दकेन्द्रभुजज्योत्पन्नफलस्य धनु: कलादिकं मान्दं फलं भवति। अत्रोपपत्ति:-कक्षास्थोच्चस्थानस्थितदेवतया स्वहस्तस्थितसूत्रप्रोतं ग्रहविम्बं स्वाभिमुखा कर्षणेन कक्षास्थमध्यग्रहस्थानात् परमफलज्यान्तरितस्थानं आकर्षणसूत्रमार्ग- रूपतिर्यक्कर्णमार्गेणाकर्ष्यते। तेन मध्यग्रहस्थानीय कक्षाप्रदेशात् अन्त्यफलज्या व्यासार्धेनोत्पन्नवृत्ते भगणांशाङ्किते भूमध्यग्रहस्पृग्रेखासक्ततद्वृत्तप्रदेशरूपोच्चस्थानात् केन्द्रान्तरेण कक्षाविपरीतमार्गेण तद्वृत्तपरिधौ ग्रहो भवति। तस्मिन् नीचोच्चवृत्त उर्द्धरेखाग्रहयो: तिर्यगन्तरसूत्रमर्द्धज्याकारं परमफलज्यानुरूद्धं भुजफलम्। तस्मिन् एव वृत्ते व्यासमिततिर्यग्रेखाग्रहयो: अन्तरमूर्ध्वाधरमर्द्धज्याकारं परमफलज्यानुरुद्धं कोटिफलम्। एते तत्र कक्षास्थभुजज्याकोटिज्यािवद् भुजकोटिरूपे इति कक्षास्थभगणांशप्रमाणेन एते भुजज्याकोटिज्यारूपे भुजकोटी तदा कक्षास्थभागप्रमाणानुरुद्धप्रागुक्तनीचोच्चपरिधिभागै: केत्यनुपातेन फलवृत्तस्थत्वाद् भुजफलकोटिफले। तत्र नीचोच्चपरिधिवृत्तस्थग्रहमध्यसूत्रं कर्णरूपं कक्षावृत्ते यत्र लग्नं तत्र स्पष्टो ग्रहभोग:। नीचोच्चवृत्तमध्यस्पष्टग्रहभोगस्थानयो: कक्षावृत्ते यदन्तरांशमानं तत्फलं तदर्द्धज्या तिर्यक्सूत्रं मध्यग्रहस्थोर्ध्वाधररेखारूपमध्यसूत्रात् स्पष्टग्रहभोगस्थानासक्तं फलज्या। कर्णाग्रे भुजफलं तदा त्रिज्याग्रे किमित्येतदनुपातावगतास्याश्चापं फलम्। तत्र मन्दफलज्या भुजफलरूपा कर्णानुपातापेक्षया भगवता अङ्गीकृता। मन्दकर्णस्य त्रिज्यासन्नत्वेन स्वल्पान्तरेण त्रिज्यातुल्यत्वेनाङ्गीकरात्। तच्चापं मन्दफलमित्युपपन्नं सर्वमुक्तम्। बोधार्थं छेद्यकन्यासश्च यथा।।39।।