ननु सूर्यस्य सदा जाज्वल्यमानतया तत्सन्निधौ श्रवणकालपर्यन्तं मय: स्थातुं कथं शक्त: कथं वा अनवरतभ्रमस्य तस्य मयसंवादार्थं भ्रमणविच्छेद: सम्भवति।
अतो दानासम्भवात् कथं दद्यामित्युक्तमित्यतस्तद्वचनान्तरमनुवदति—4
न मे तेज: सह: कश्चिदाख्यातुं नास्ति मे क्षण:।
मदंश: पुरुषोऽयं ते निश्शेषं कथयिष्यति ।।6।।
हे मय! ते तुभ्यमयमग्रस्थ: पुरुषो नि:शेषं सम्पूर्णज्योति:शास्त्रं कथयिष्यति । नन्वयं तथ्यं न वदिष्यतीत्यत आह। मदंश इति । मम सूर्यस्यांश: सम्बन्धी मदुत्पन्न इत्यर्थ:। तथा च मदनुकम्पितं त्वां अयं तथ्यमेव वदिष्यतीति भाव:। एतेनाहं स्वांशद्वारादास्यामीत्यमर्थो दद्यामिति पूर्वपद्योक्तस्य प्रकटीकृत:। ननु त्वयैव वक्तव्यमित्यत आह। नेति । कश्चिदपि जीवो मे सूर्यमण्डलस्थस्य तेज: सहस्तेजो धारको न। तथा च बहुकालं मत्समीपे स्थातुमशक्तस्त्वं कथं मत्त: श्रोष्यसीति भाव:। ननु स्वतप:सामर्थ्येनाहं त्वत्समीपे बहुकालं स्थातुं शक्तस्त्वत्त: श्रोष्यामीत्यत् आह। आख्यातुमिति । मे सूर्यमण्डलस्थस्य प्रवहवायुना अनवरतं भ्रमणावसानासम्भवेनैकत्र स्थित्यसम्भवात्। तथा च स्थिरस्य तव बहुकालं मत्सङ्गासम्भवान्मत्त: श्रवणमसम्भावि। न हि त्वमपि मत् स्थानमधिष्ठातुं शक्तो येन मत्त: श्रवणं तव सम्भवति। ईश्वरनियोगाभावादिति भाव: ।।6।।