-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


चापाज्ज्यानयनम्। Chapajjyanayanam

अथाभीष्टकलानां ज्यासाधनं श्लोकाभ्यामाह—

लिप्तास्तत्वयमैर्भक्ता लब्धं ज्यापिण्डकं गतम्।
गतगम्यान्तराभ्यस्तं विभजेत् तत्वलोचनै:।।31।।
तदवाप्तफलं योज्यं ज्यापिण्डे गतसंज्ञके।
स्यालत् क्रमज्या विधिरयमुत्क्रमज्यास्वपि स्मृत:।।32।।

यस्य राश्यात्मकस्य पदान्तर्गतस्य ज्या कर्तुमिष्टा तस्य कला: कार्या:। तत्वाश्विभिर्भक्ता लब्धं चतुर्विंशज्यापिण्डेषु पूर्वोक्तेषु लब्धसंख्याका: पिण्डो गतो भवति तदग्रिमपिण्ड एष्य: पूर्वं तु स्वरूपोक्त्यर्थं पिण्डानां ज्यार्द्धेत्युक्तिरिदानीं तु तेषामेव अर्द्धत्यागेन ज्यापिण्डत्वोक्ति:। अर्द्धग्रहणे गणितक्रियायां व्याकुलतापत्ते:। न तु पूर्वपिण्डाद्द्विगुणा: गणितक्रियायां ग्राह्या इत्याशयेन अर्द्धानुक्तिर्गौरवात्। भागेऽवशिष्टं तद्गगतैष्य पिण्डयोरन्तरेण गुणितं तत्वाश्विभिर्भजेत् तस्मात् प्राप्तं यत् कलादिकं फलं तद्गते ज्यापिण्डे युक्तं कार्यम्। उत्क्रमज्याभीष्टांशकलानामर्द्धज्यारूपा क्रमज्या भवति। अयमुक्त: प्रकार उत्क्रमज्यापिण्डेषु कथित:। अभीष्टांशकलानामुत्क्रमज्यापिण्डै: उक्तविधिनोत्क्रमज्या स्यादित्यर्थ:।

अत्रोपपत्ति:। तत्वाश्विकलाभिरेका ज्या तदाभीष्टकलाभि: केत्यनुपातेन गतज्या ततस्तत्वाश्विकलाभिर्गताग्रिमज्यान्तरं लक्ष्यते तदा शेषकलाभि: केत्यनुपातागतलब्धेन युक्ताभीष्टज्या।।31-32।।