-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


केन्द्रसंज्ञा। भुजज्यासंज्ञा।कोटिज्यासंज्ञा।
Kendrasangya |Bhujajyasangya |koutijyasangya

अथ फलानयनार्थं केन्द्रपदात् भुजकोटिज्ये कार्ये इत्याह—

ग्रहं संशोध्य मन्दोच्चात् तथा शीघ्राद् विशोध्य च।
शेषं केन्द्रं पदं तस्माद् भुजज्या कोटिरेव च ।।29।।

ग्रहं राश्यादिकं मन्दोच्चात् प्रागानीतस्वकीय राश्यादिकमन्दोच्चभोगात् संशोध्योनीकृत्य शीघ्रात् प्रागानीतराश्यादिशीघ्रोच्चात् । च: समुच्चये। ऊनीकृत्य शेषं राश्यात्मकं तथोच्चसम्बन्धेन केन्द्रं मन्दोच्चात् हीनो ग्रहो मन्दकेन्द्रम्। शीघ्रोच्चाद्धीनो ग्रह: शीघ्रकेन्द्रं भवतीत्यर्थ:। तस्मात् केन्द्रात् पदं राशित्रयात्मकं विषमं समं पदं ज्ञेयम्। त्रिराश्यन्तर्गतं चेत् प्रथमं पदम्। तत: षड्राश्यन्तर्गतं चेत् त्र्यूनं केन्द्रं द्वितीयं समं पदम्। ततो नवराश्यन्तर्गतं चेत् षडूनं तृतीयं विषमं पदम्। ततो नवोनं चतुर्थं पदं सममित्यर्थ:। तस्मात् पदात् भुजस्य ज्या कोटि: कोटेर्ज्या च: समुच्चये। एवकारात् एकाद्द्वयं साध्यमित्यर्थ:। अत्रोपपत्ति:। उच्चस्थानाभिमुखमुच्चदैवतै: ग्रहाणामाकर्षणोक्ते: उच्चाद्ग्रह: कियदन्तरेणेति ज्ञानार्थमुच्चहीनो ग्रह: केन्द्रमुच्चग्रहणवशात् तदाख्यम्। तत्र भगवता स्वेच्छया ग्रहादुच्चं यदन्तरेण तत् केन्द्रं कृतम्। उभयथा भुजकोटयोस्तुल्यत्वात्। द्वादशराश्यङ्किते वृत्ते उच्चस्थानात् चतुर्विभागात्मक एकैको भागो राशित्रयात्मक: पदसंज्ञ:। अथोच्चस्थानाद्ग्रह: कस्मिन् पदेऽस्तीति शून्यत्रिषण्णवोनं केन्द्रं कृतं ज्यानां पदान्तर्गतत्वात्। ग्रहाधिष्ठितपदाद्भुजज्याकोटिज्ययोर्ज्ञानम्।।29।।

ननु पदे ग्रहस्य राशिविभागात्मकेन एकत्वाद्भुजकोटिज्ययोरतुल्ययो: साधनं कथमित्यत आह—

गताद्भुजज्याविषमे गम्यात्कोटि: पदे भवेत्।
युग्मे तु गम्याद् बाहुज्या कोटिज्या तु गताद् भवेत्।।30।।

विषमे पदे गताद् ग्रहस्य पदादितो यद्गतं राशिविभागात्मकं प्राग् ज्ञातं तस्मात् इत्यर्थ:। भुजज्या स्यात्। गम्याद्गतोनं त्रिभं ग्रहात् पदान्तौ अधिकमेष्यम्। तस्मात् कोटि: कोटिज्या स्यात्। युग्मे समे तुकारात् पद एष्याद्भुजज्यागतात् कोटिज्या स्यात्। तुकारो विशेषद्योतक:। एकस्मादेवोक्तरीत्या द्वयं साधितमित्यर्थ:। अत्रोपपत्ति:। विषमपदे ग्रहोच्चोमर्ध्वाधररेखान्तरानुसारेण फलमुत्पद्यते ततो वृत्तान्तस्तदन्तरमर्द्धज्या भुजरूपा तदर्द्धचापं तदन्तरांशा वृत्तभागस्था गता:। ऊर्ध्वाधररेखा मत्स्यसम्पन्नतिर्यग्रेक्रेखाग्रहयो: अन्तरसूत्रमर्द्धज्यापदान्त: कोटिज्या भुजोत्क्रमज्ययोनव्यासार्द्धरेखारूपकोटितुल्यत्वात्। तदर्द्धचापं भुजांशोनं त्रिभमिति गम्यात् कोटिज्या। समपदे ग्रहोर्ध्वाधररेखान्तरं तिर्यगर्द्धज्या भुजज्येति तदर्द्धं चापं यदैष्यं तिर्यग्रेखाग्रहान्तरं तिर्यगर्द्धज्याकोटितुल्यत्वात् कोटिस्तच्चापं पदगतमित्युपपन्नं गतादित्यादि।।30।।