-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


उत्क्रमज्यार्धपिण्डज्ञानम्। परमक्रान्तिज्या। क्रान्तिज्यासाधनम्।
Paramkrantijya | Krantijyasadhanam

अद्यैता: सिद्धा: श्लोकषट्केन कथमन्नुत्क्रमज्या-र्धपिण्डाज्ञानमाह—

तत्वाश्विनोऽङ्काब्धिकृता रूपभूमिधरर्तव:।
खाङ्काष्टौ पञ्चशून्येशा बाणरूपगुणेन्दव:।।17।।
शून्यलोचनपञ्चैकाश्छिद्ररुपमुनीन्दव:।
पञ्चाष्टविषयाक्षीणि कुञ्जराश्विनगाश्विन:।।18।।
मुनिषड्यमनेत्राणि चन्द्राग्निकृतदस्रका:।।
पञ्चाष्टविषयाक्षाण कुञ्जराश्विनगाश्विन।।19।।
रन्ध्रपञ्चाष्टकयमा वस्वद्र्यङकयमास्तथा।
कृताष्टशून्यज्वलना नगाद्रिशशिवह्नय:।।20।।
षट्पञ्चलोचनगुणाश्चन्द्रनेत्राग्निवह्नय:।
यमाद्रिवह्निज्वलना रन्ध्रशून्यार्णवाग्नय:।।21।।
रूपाग्निसागरगुणा वस्वग्निकृतवह्नय:।
प्रोज्क्तयोत्क्रमेण व्यासार्धात उत्क्रमज्यार्धपिण्डका।।22।।

तथा समुच्चये। एतान् उक्तान् क्रमज्यार्द्धपिण्डान्। उत्क्रमेणोपान्त्य पिण्डादिप्रथमपिण्डान्तं प्रत्येकं व्यासार्द्धात् त्रिज्यारूपपरमपिण्डात् प्रोज्झ्य न्यूनीकृत्य क्रमेण उत्क्रमज्यार्द्धपिण्डा भवन्ति। यथा त्रयोविंशतितमं ज्यार्द्धमुक्तं रूपाग्निसागरगुणा इति वस्वग्निकृतवह्नय इति चरमपिण्डादूनं सप्रथम उत्क्रमज्यार्द्धपिण्ड:। एवं द्वाविंशतितमं चरमाच्छुद्धं द्वितीय उत्क्रमज्यार्द्धपिण्ड:। एवमग्रेऽपीति चतुर्विंशत् उत्क्रमज्यार्द्धपिण्डा:। अत्रोपपत्ति:। ज्याचापयो: बाणरूपमन्तरमुत्क्रमज्या। यद्यपि पूर्वार्द्धज्यावत् बाणस्यार्द्धं न सम्भवति इति उत्क्रमज्यापिण्डा इति वक्तुमुचितं न उत्क्रमज्यार्द्धपिण्डा इति। तथापि भगवतानुगतपरिभाषार्थं चापवाह्यशराग्राभावेन उत्क्रमज्याया: पूर्णशरांशत्वात् उत्क्रमज्यार्द्धमित्युक्तम्। अथ वृत्तचतुर्थांशे सर्वज्याङ्कनेन यदंशानां ज्या त्रिज्यातो हीना तत्कोट्यंशानामुत्क्रमज्येति स्फुटं दृश्यत अत उक्तज्यार्द्धं क्रमेण उत्क्रमज्याज्ञानार्थं व्युत्क्रमेण त्रिज्याशुद्धा उक्तपिण्डा उत्क्रमज्या पिण्डा इत्युपपन्नं प्रोज्झ्येत्यादि।।17-22।।

अथ श्लोकपञ्चकेन उत्क्रमज्यापिण्डान् पूर्वोक्तसिद्धान निबध्नाति—

मुनयो रन्ध्रयमला रसषट्का मुनीश्वरा:।
द्वयष्टैका रूपषड्दस्रा: सागरार्थहुताशना:।।23।।
खर्तुवेदा नवाद्र्यर्था दिङ्नगास्त्र्यर्थकुञ्जरा:।
नगाम्बरवियच्चन्द्रा रूपभूधरशंकरा:।।24।।
शरार्णवहुताशैका भुजङ्गाक्षिशरेन्दव:।
नवरूपमहीध्रैका गजैकाङ्कनिशाकरा:।।25।।
गुणाश्विरूपनेत्राणि पावकाग्निगुणाश्विन:।
वस्वर्णवार्थयमलास्तुरङ्गर्तुनगाश्विन:।।26।।
नवाष्टनवनेत्राणि पावकैकयमाग्नय:।
गजाग्निसागरगुणा उत्क्रमज्यार्धपिण्डका:।।27।।

एते उत्क्रमज्यापिण्डा: पूर्वसिद्धा निबद्धा महीध्र: पर्वतो भुजज्याभावे कोट्युत्क्रमज्याया: परमत्वात् शून्यज्योना त्रिज्या परमोत्क्रमज्यापिण्डस्त्रिज्याया उभयत्र परमत्वेन अर्थसिद्धमन्त्यपिण्डत्वं वा इति ध्येयम् ।।23-27।।

अथ प्रसङ्गात् परमक्रान्तिज्यां वदन् क्रान्त्यानयनमाह—

परमापक्रमज्या तु सप्तरन्ध्रगुणेन्दव:।
तद्गुणा ज्या त्रिजीवाप्ता तच्चापं क्रान्तिरुच्यते।।28।।

त्र्यूनं चतुर्दशशतं 1397 परमक्रान्तिज्या तुकारात् चतुर्विंशत्यंशानां वक्ष्यमाणज्यानयनप्रकारसिद्धेत्यर्थ:। अभीष्टाज्या परमक्रान्तिज्यया गुणिता त्रिज्या भक्ता फलस्य वक्ष्यमाणप्रकारेण धनु: क्रान्ति: कलात्मिका तत्वज्ञै: कथ्यते।

अत्रोपपत्ति:। विषुवद्वृत्तभागस्य याम्योत्तरस्यान्तरं ध्रुवाभिमुखं वृत्ताकारसूत्रे क्रान्ति: तत्र सायनमेषतुलादि स्थाने तयोरन्तराभावात् कर्कमकरादौ तयो: परमान्तरत्वात् अभीष्टभुजज्यावशात् क्रान्तिरूपपन्नेति त्रिज्यातुल्यभुजज्यया परमक्रान्तिज्या तदेष्टभुजज्यया केत्यनुपातेन फलं ध्रुवाभिमुखसूत्रे तदन्तररूपार्द्धं चापस्यार्द्धज्या विषुवद्वृत्तोर्ध्वाधरमध्यसूत्रात् तच्चापं तदन्तरकलात्मिका क्रान्ति:।।28।।