SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ तत्र प्रथमं ज्यासाधनार्थं ज्यार्द्धपिण्डान् विवक्षुस्तदानयनं श्लोकाभ्यामाह—
राशिलिप्ताष्टमो भाग: प्रथमं ज्यार्धमुच्यते।
तत्तद्विभक्तलब्धोनमिश्रितं तद् द्वितीयकम्।।15।।
आद्येनैवं क्रमात् पिण्डान् भक्त्वा लब्धोनसंयुता:।
खण्डका: स्युश्चतुर्विशज्ज्यार्धपिण्डा: क्रमादमी।।16।।
एकराशिकलानाम् अष्टादशशतानाम् अष्टमोंऽशस्तत्त्वाश्विमित: प्रथममाद्यं ज्यार्द्धं सम्पूर्णजीवार्द्धपिण्डक: कथ्यते तदभिज्ञै:। तत: प्रथमज्यार्द्धात् तेन प्रथमज्यार्द्धेन भक्ता लब्धेन हीनमन्यस्य अप्रसङ्गात् प्रथमज्यार्द्धमनेन युक्तं तत् प्रथमज्यार्द्धं द्वितीयकं ज्यार्द्धं भवति। द्विगुणप्रथममेकोनं तृतीयादीनामानयनार्थमुक्तप्रकारम्। अतिदिशति। आद्येनेति। प्रथमज्यार्द्धपिण्डेन। एवमुक्तरीत्या क्रमात् सिद्धपिण्डान् भक्ता लब्धैरूनमाद्यं खण्डमनेन युता: खण्डका असिद्धाव्यवहित सिद्धज्यार्द्धपिण्डा असिद्धपिण्डा भवन्ति। यथा प्रथमखण्डं 225 प्रथमभक्तं फलं 1 द्वितीयखण्डं 449 प्रथमभक्तं फलं द्वयं 2 अर्द्धाधिकावयवस्य एकाधिकत्वेन ग्रहस्य साम्प्रदायिकत्वात्। फलैक्योनं प्रथमं 222 अनेन द्वितीयखण्डो 449 युतस्तृतीयं 671 एवमिदं प्रथमखण्डभक्तं फलं 3 अनेन पूर्वफलैक्यं 3 युतं जातं 6 सर्वफलैक्यमनेन प्रथमं खण्डं हीनं 219 अनेन तृतीयं 671 युतं चतुर्थं 890 एवमिदं प्रथमखण्डभक्तं फलं 4 पूर्वलब्धैक्योन प्रथमखण्डरूपं 219 ज्यान्तररूपखण्डकमनेन 4 हीनं 215 अनेन चतुर्थं युतं पञ्चमं 1105 एवमग्रेऽपि। अथोक्तरीत्यासंख्यखण्डानां सम्भवात् खण्डनियममाह। स्युरिति। एवं चतुर्विंशत्संख्याका ज्यार्द्धपिण्डा: कार्या न तदधिका: अत्र।
एकविंशाच्च विंशाच्च षष्ठात् पञ्चदशादपि। सप्तमाद्द्वादशात् सप्तदशन्नार्द्धोत्तरं मतम्।। इति ब्रह्मासिद्धान्तोक्तस्थलेऽर्द्धाधिकावयवस्य एकाधिकत्वेन न ग्रह इति ध्येयम्। गणितस्य अविकृतत्वात् सिद्धा: पिण्डा: कथं न उक्ता इत्यत आह। क्रमादिति। अमी सिद्धा: क्रमात् समनन्तरमेव उच्यन्ते। अत्रोपपत्ति:। समायां भूमौ वृत्तं भगणकलाङ्कितं तिर्यगूद्हर्वाधरव्यासमितरेखाभ्यां चतुर्भागं कार्यं तत्रोर्ध्वरेखासक्तपरिधिप्रदेशात् उभयत्र समविभागं विगणय्य तदग्रयोर्बद्धं सूत्रं वृत्ते द्विगुणविभागमितसम्पूर्णचापस्य सम्पूर्णज्या। अत्र गणित उर्ध्वरेखातोऽर्द्धज्याया एव प्रयोजनात् तदर्द्धमर्द्धज्या। एवं वृत्तचतुर्थांश उर्ध्वरेखातोऽभीष्टांशानां चापार्द्धाकाराणामर्द्धज्या अभीष्टा गण्या:। तत्र भगवता स्वेच्छया वृत्तचतुर्थांशे त्रिराशिमिते चतुर्विंशज्या: कल्पितास्तज्ज्ञानं तु वृत्ते चक्र कलानामङ्कितत्वात् तत्परिधिव्यासार्द्धं त्रिराशिज्यान्तिमा। भनन्दाग्निमितपरिधौ खबाणसूर्यमितो व्यासस्तदा चक्रकलापरिधौ क इत्यनुपातेन व्यासानयनम्। यथा चक्रकला: 21600 खबाणसूर्यगुणा: 27000000 भनन्दाग्नि 3927 भक्ता व्यास: 6876 एतदर्द्धमन्तिमा ज्या 3438 अथ वृत्ते चापज्ययोर्विवेके तयोरतुल्यत्वमपि भगवता कोऽपि वृत्तभाग: समोऽस्त्यन्यथामलकादौ सर्षपाद्यवस्थानं न स्यादिति मत्वा तद्भागस्य ज्या तत्तुल्या एव इति।
वृत्तस्य षण्णवत्यंशो दण्डवद्श्यते तु स:।। इति शाकल्योक्ते: प्रथमज्या चक्रकलाद्वादशांश रूपैकराशिकलानामष्टभागस्तत्वाश्विमित: एतन्मितमेव प्रथमचापमत एतदन्तरेण अभीष्टा ज्याश्चतुर्विशत्। अथ चतुर्विंशतिजीवानां यथोत्तरमुपचयात् तदन्तररूपखण्डानां यथोत्तरमपचयस्य वृत्ते ज्याङ्कनेन प्रत्यक्षत्वाज्यान्तर-रूपखण्डानामन्तरं यथोत्तरमुपचितमिति द्वाविंशतित्रयोविंशतिचतुर्विंशति-ज्यानामन्तरयोरन्तरमिदं परमं खण्डान्तरं सूक्ष्मज्योत्पत्तिप्रकारेण अवगतं 15, 16, 48 अथ त्रिज्या इदं खण्डकान्तरं तदा प्रथमज्यया किमित्यनुपातेन फलप्रमाणयो: फलेनापवर्त्य प्रमाणस्थाने तत्वाश्विनोऽनेन भक्ता प्रथमज्या फलं पूर्वद्वितीयखण्डयोरन्तरम्। अनेन पूर्वखण्डं हीनं द्वितीयं खण्डं भवति। तत्र पूर्वखण्डं प्रथमज्यातुल्यमेव। द्वितीयखण्डं प्रथमज्यायां युतं द्वितीयज्या एवमस्यास्तत्वाश्विभागलब्धं द्वितीयतृतीय-खण्डकयोरन्तरमनेन द्वितीयखण्डमूनं तृतीयखण्डमित्यनेन द्वितीयज्यायुता तृतीयज्या। एवं चतुर्थाद्या:। तत्र पूर्वमर्द्धाभ्यधिकग्रहणेन उत्तरत्राधिकान्तरपातसम्भावनया क्वचित् क्वचिदर्द्धाभ्यधिकावयवस्य एकाधिकत्वेनाग्रह इत्युपपन्नं श्लोकद्वयम्।।15-16।।