SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथात एव एकरूपां पूर्वाधिकारावगतां गतिं त्यक्त्वा प्रत्यहं विलक्षणां गतिं प्राप्ता ग्रहा इत्यत आह—
प्रवहाख्यो मरुत् तांस्तु स्वोच्चाभिमुखमीरयेत्।
पूर्वापरापकृष्टास्ते गतिं यान्ति पृथग्विधाम्।।3।।
प्रवहाख्य: प्रवहसंज्ञको मरुद्वायु: पश्चिमाभिमुखं भ्रम्नस्तान् ग्रहान् तुकारात् उच्चानि स्वोच्चाभिमुखं स्वस्य प्रवहभ्रमणेन उच्चं भावप्रधाननिर्देशादुच्चता यस्यां दिशि तत् स्वोच्चं पूर्वदिक् पूर्वभाग एव ग्रहाणां प्रवहभ्रमेण उच्चगमनदर्शनात् तत्सम्मुखं पूर्वदिशीति तात्पर्यार्थ:। ईरयेत् पश्चिमाभिमुखं भ्रमन् सिद्धप्रागुक्तग्रहावलम्बनरूपेण चालयतीत्यर्थ:। अत: कारणात् ते ग्रहा: पूर्वापरापकृष्टा उच्चदेवतै: पूर्वपश्चिमदिशोराकृष्टा: पृथग्विधां प्रथमावगतैकरूपभिन्न्-प्रकारावगतां प्रतिक्षणविलक्षणां गतिं गमनक्रियां यान्ति प्राप्नुवन्ति। अवलम्बनाकर्षणाभ्यां प्रतिदिनं ग्रहाणां गतेरन्यादृशत्वं तदनुसारेण ग्रहचारज्ञानं युक्तमिति ग्रहाणां स्पष्टक्रियोत्पन्नेति भाव:। यद्वा। ननु वायुरज्जुभि: कथं ग्रहाणामाकर्षणं सम्भवति तत् रज्जूनां विरलतया घनीभूतत्वाभावेन आकर्षणायोग्यत्वादित्यत आह। प्रवहाख्य इति। उच्चदेवाताहस्तद्वयस्थितकक्षाकारसूत्रं वायु: प्रवहवायुसम्बन्धात् प्रवहसंज्ञो न पश्चिमाभिमुखभ्रमप्रवहात्मकस्तान् ग्रहान् स्वोच्चाभिमुखं स्वोच्चदेवता स्थानसम्मुखमीरयेत् प्रेरयति चालयति। तुकारात् उच्चस्थानात् पूर्वस्मिन् ग्रहे वायु: पश्चिमगत्या ग्रहं चालयति पश्चिमस्थे वायु: पूर्वगत्या ग्रहं चालयतीत्यर्थ:।तथा च कक्षाकारसूत्रं तदा तथा तथा भ्रमतीति दैवतै: आकृष्येत इत्युपचारादुच्यत इति भाव:। अतएव ग्रहाणां स्पष्टक्रियोत्पन्नेत्याह। पूर्वापरापकृष्टा इति। उच्चदैवतै: पूर्वापरदिशयो: अपकृष्टा ग्रहा: पृथग्विधां मध्यमातिरिक्तप्रकारां गतिं गमनक्रियां यान्ति। अतो न केवलं मध्यक्रियया निर्वाह:।।3।।
अथ प्राक् पश्चात् अपकृष्यन्त इत्युक्तं विशदयति—
ग्रहात् प्राग्भगणार्धस्थ: प्राङ्मुखं कर्षति ग्रहम्।
उच्चसंज्ञोऽपरार्धस्थस्तद्वत्पश्चान्मुखं ग्रहम्।।4।।
ग्रहस्थानात् पूर्वभागस्थराशिषट्कस्थित उच्चसंज्ञो जीवो ग्रहविम्बं पूर्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति।
अपरार्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्थित-उच्चसंज्ञो जीवो ग्रहविम्बं पूर्वदिगभिमुखं स्वाभिमुखं कर्षत्याकर्षति।
अपरार्द्धस्थो ग्रहस्थानात् पश्चिमभागस्थराशिषट्कस्थितउच्चसंज्ञो जीव इत्यर्थ:। ग्रहविम्बं पश्चान्मुखं पश्चिमदिगभिमुखं स्वाभिमुखं तद्वदाकर्षति इत्यर्थ:।।4।।
अथ पूर्वोक्तसिद्धं फलितमाह—
स्वोच्चापकृष्टा भगणै: प्राङ्मुखं यान्ति यद् ग्रहा:।
तत् तेषु धनमित्युक्तं फलं पश्चान्मुखेष्वृणम् ।।5।।
स्वोच्चजीवाकर्षिता ग्रहा: पूर्वोक्तसिद्धं फलितमाह। स्वोच्चजीवाकर्षिता ग्रहा: पूर्वाभिमुखं भगणै: राशिभि: भगोलस्थक्रान्तिवृत्तानुसृत- स्वाकाशगोलान्तर्गतक्रान्तिवृत्ते द्वादशराश्यन्तिके यद् राशिविभागै: इत्यर्थ:। यद्यत्संख्यामितं गच्छन्ति तत्तत्संख्यामितं भागादिकं फलरूपं तेषु पूर्वावगतग्रहराश्यादिभोगेषु धनं योज्यम्। पश्चान्मुखेषु पश्चिमाकर्षितग्रहपूर्वावगतराश्यादिभोगेषु तुकारात् यत्संख्यामितं फलरूपं पश्चिमतो गच्छति तदित्यर्थ:। ऋणं हीनमिति। एतत् पूर्वै: कथितम्।।5।।
अथ पातानां ग्रहविक्षेपरूपगतिहेतुत्वं प्रतिपादयति—
दक्षिणोत्तरतोऽप्येवं पातो राहु: स्वरंहसा।
विक्षिपत्येष विक्षेपं चन्द्रादीनामपक्रमात्।।6।।
चन्द्रादीनां विरविग्रहाणामपक्रमात् क्रान्तिवृत्तस्थस्पष्टग्रहभोगस्थानात् दक्षिणोत्तरतो दक्षिणस्या म् उत्तरस्यां वा दिशि। अपि शब्द: पूर्वापराभ्यां समुच्चयार्थक:। एष गणितागत: पात: पातराश्यादिभोगस्थानम्। अत्रापि अपिशब्द उच्चेन समुच्चयार्थकोऽन्वेति। एवमुच्चेन पूर्वापरयो: फलान्तरं भवति तथेत्यर्थ:। विक्षेपं विक्षेपणं स्वरंहसात्मवेगेन विक्षिपति करोति विशिष्टवाचकानां पदानां विशेषणवाचकपद समवधाने विशेष्यमात्रार्थत्वात्। चन्द्रादीन् विक्षिपतीति तात्पर्यार्थ:। ननु उच्चेन स्वाधिष्ठितजीवद्वारा ग्रहाकर्षणं क्रियते तथा पातेन अचेतनत्वाद्वेगाभावेन ग्रहविक्षेपणं कर्त्तुमशक्यम् इत्यत आह। राहुरिति। पातस्थानाधिष्ठात्री देवता राहु: जीवविशेष: चन्द्रपातस्तु दैत्यविशेषो राहु:। रहति त्यजति ग्रहमिति राहुरिति व्युत्पत्ते:।।6।।
अथ एतद्विशदयति—
उत्तराभिमुखं पातो विक्षिपत्यपरार्धग:।
ग्रहं प्राग्भगणार्धस्थो याम्यायामपकर्षति।।7।।
अपरार्द्धगो ग्रहस्थानात् पश्चिमविभागस्थित भगणार्धात्मकराशिषट्कस्थितो राहु: ग्रहविम्बं स्वराश्यादिभोगस्थानीय प्रदेशादूत्तरदिगभिमुखं विक्षिपति विक्षेपान्तरेण त्यजति। प्राग्भगणार्द्धस्थ: त्यजति ग्रहस्थानात् पूर्वविभागस्थितराशि षट्कमध्यस्थितो दक्षिणस्यां दिशि अपकर्षति विक्षिपति।।7।।
अथ बुधशुक्रयो: विशेषमाह—
बुधभार्गवयो: शीघ्रात् तद्वत् पातो यदा स्थित:।
तच्छीघ्राकर्षणात् तौ तु विक्षिप्येते यथोक्तवत् ।।8।।
बुधशुक्रयो: शीघ्रोच्चात् जात्यभिप्रायेण एकवचनम्। बुध शुक्रयो: पातो जात्यभिप्रायेण एकवचनम्। तद्वत् परार्द्धपूर्वार्द्धभगणार्द्धमध्ये यदा यत्काले स्थितस्तुकारात् तत्काले पाताभ्यामित्यर्थ:। तौ बुधशुक्रौ यथोक्तवत् पूर्वार्द्धपरार्द्धक्रमेण दक्षिणोत्तरयो: विक्षिप्येते विक्षेपान्तरेण त्यज्येते। ननु उच्चात् तादृगवस्थितपातौ सम्बन्धाभावात् बुधशुक्रौ दक्षिणोत्तरयो: कथं त्यजतोऽन्य था वैयधिकरण्येन अतिप्रसङ्गापत्तेरित्यत: कारणमाह। तच्छीघ्राकर्षणादिति। बुधशुक्रयो: शीघ्रोच्चे तयो: आकर्षणाभ्यां जात्यभिप्रायेण एकवचनम्। तथा च तदुच्चाभ्यां तादृगवस्थितपातौ तदुच्चजीवौ दक्षिणोत्तरयो: त्यजत इति पूर्वोक्तरीत्या न्यायसिद्धमतस्तदुच्चसूत्रबद्धत्वात् बुधशुक्रयोस्तथा विक्षेपणं न्यायसिद्धमेव इति भाव:। ननु भौमगुरुशनीनामेवं कथं न उक्तमनयो: वा कथमेतदुक्तं सर्वेषामेकरीतिकथनस्य समुचितत्वात्। किञ्ज गुरुभौमशनीनामुच्चदेवता: स्वस्वकक्षास्था इति फलमुपपन्नं भवति बुधशुक्रयो: उच्चदेवतयो: कक्षातो दक्षिणोत्तरयो: स्थितत्वेन पूर्वोक्तरीत्या फलानुपपत्तिर्विलक्षणप्रवहवायुसूत्रस्थदेवतासम्बद्धस्य स्पष्टभूपरिध्याकारत्वेन कक्षाकारत्वाभावात्। विना कक्षाकारतां फलोत्पादनस्य ब्रह्मणोऽपि अशक्यत्वाच्च। न च विलक्षणप्रवहवायुसूत्रं देवतासम्बद्धग्रहाकाशगोले कक्षाकारत्वाभावेऽपि अशक्यत्वाच्च। न च विलक्षण प्रवहवायुसूत्रं देवतासम्बद्धं ग्रहाकाशगोले कक्षाकारत्वाभावेऽपि कक्षातुल्यं स्थानान्तर इति फलोत्पत्तिर्याम्योत्तरान्तरसत्वेऽपि कल्पनया इति वाच्यम्। उच्चदेवता स्थानस्य कक्षातो दक्षिणत्वेतत्षड्भान्तरप्रदेशस्यउत्तरत्वावश्यम्भावेनोच्चबुधशुक्रयो: एकदिग्विक्षेपतुल्यत्वनियमानुपपत्ते:। तत्कथमिदं सङ्गतं भगवदुक्तमिति चेत्। अत्रोच्यते। स्वरूच्या सङ्गतार्थमङ्गीकृत्य तद्दूषणोद् घाटनेन भगवदुपालम्भनकर्त्तु: रसनाच्छेदस्तत्तत्वार्थप्रकाशेन अवश्यं करणीय:। तथाहि स्वशीघ्रोच्चाद् बुधशुक्रयोर्यदन्तरं राश्यात्मकं तद्वत् पातस्तेनान्तरेण युक्त: पूर्वानीतपात इत्यर्थ:। यथा बुधशुक्रयो: अपरपूर्वार्धक्रमेण स्थितोऽवस्थितस्तुकारात् तथेत्यर्थ:। तच्छीघ्राकर्षणात् तादृशपाताभ्यां शीघ्रं वेगेन आकर्षणं तस्मात् पातस्थानाधिष्ठातृदेवताभ्यां स्वहस्तस्थित-ग्रहसम्बद्धवायुसूत्रस्य अतिवेगाकर्षणरचनादित्यिर्थ:। तौ बुधशुक्रौ उक्तवदुत्तरदक्षिणक्रमेण विक्षप्येते। अत्र पातशब्देन चक्रशोधितपातो बोध्य:। अन्यथा ग्रहोनशीघ्रोच्चरूपकेन्द्र-योजनस्योपपत्तिसिद्धत्वेन शीघ्रोच्चोनग्रहरूपकेन्द्रयोजनोक्त्यनुपपत्ते:। तथा च सर्वग्रह-साधारणं विक्षेपकथनं पातभेदर्शनार्थं बुधशुक्रयो: पृथगुक्तम्। न हि अन्यस्मिन् पक्ष उच्चयोर्विक्षेपणं प्रतीयते येन प्रागुक्तसर्वविलोपाशंकनं शंकनीयम्। पातभेदोक्तकारणञ्च। ये चात्र पातभगणा: कथिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यत: स्यु:। स्वल्पा: सुखार्थमुदिताश्चलकेन्द्रयुक्तौ पातौ तयो: पठितचक्रभवौ विधेयौ। इति भास्कराचार्योक्तमिति दिक्।।8।।
स्यादेतत्परमुच्चदेवतयोरविशेषात् सूर्यचन्द्रयो: समं फलं कुतो न भवतीत्यत आह—
महत्वान्मण्डलस्यार्क: स्वल्पमेवापकृष्यते।
मण्डलाल्पतया चन्द्रस्ततो बह्वपकृष्यते।।9।।
सूर्यो मण्डलस्य विम्बस्य महत्वात् गुरुत्ववत्वात् स्वल्पमितरग्रहापेक्षयाल्पं परमफलम्। एवकारो निर्द्धारणेऽपकृष्यते उच्चजीवेनापकृष्यते। चन्द्रो मण्डलाल्पतया विम्बस्य लघुत्वेन तत: सूर्यफलात् बह्वधिकं परमफलमुच्चजीवेन आकृष्यते।।9।।
अथ अतएव भौमादीनामल्पमूर्तित्वादाभ्यां फलाधिकत्वं सम्भवतीत्याह—
भौमादयोऽल्पमूर्तित्वाच्छीघ्रमन्दोच्चसंज्ञकै:।
देवतैरपकृष्यन्ते सुदूरमतिवेगिता:।।10।।
भौमादय: पञ्चग्रहा अल्पमूर्तित्वात् लघुतरविम्बत्वात् शीघ्रमन्दोच्चसंज्ञकै: शीघ्रोच्चमन्दोच्चसंज्ञैर्दैवतै: सुदूरमत्यन्तं बह्वपकृष्यन्ते। अत एवातिवेगिता अत्यन्तवेग: सञ्जातो येषां ते विम्बलघुत्वेन उच्चद्वयाकर्षणेन च बहुपरमफला इत्यर्थ:। ननु सूर्यचन्द्रयो: कक्षाकारविलक्षणप्रवहवायुचलनेन फलोत्पादनं युक्तं भौमादीनां तु प्रत्येकमुच्चद्वयसद्भावात् वायुरश्म्याकर्षणासम्भवेन कक्षाकारप्रवहविलक्षणवायुचलनेन फलोत्पादनार्थमङ्गीकृतं कथं सम्भवति। उच्चद्वयस्थानस्य एकत्वाभावात्। न हि एकमेव वायुमण्डलं युगपद्विरुद्धगत्योराश्रयं स्वतो भवितुमर्हतीति चेन्न भौमादीनां शीघ्रमन्दोच्चदेवताद्वयेन तत् सूत्रमार्गेण ग्रहबिम्बाकर्षणस्य एव स्वशक्त्या रचनात्। न वायुमण्डलचलनकल्पनं सूर्यचन्द्रयोरपि एवमेवाङ्गीकारे वाधकाभावात् च। वायुमण्डलकल्पनं तु तद्वातरश्मीत्युक्त्वनुपपत्यानाति प्रयोजनम्। तद्वातरश्मिभिर्बद्धा इत्यस्य पश्चिमभ्रमात्मकप्रवहवायौ स्वस्वाकाशगोले समसूत्रसम्बन्धेन स्थिता इति ग्रहस्थितिस्वरूपोक्त्या समर्थनात् न हि तदत्र हेतुगर्भं येनानुपपत्ति: शंकनीया। उच्चदेवता कल्पनेन आकाशस्थग्रहाणां तथा स्वशक्त्या तदाकर्षणात् फलद्वयसंस्काररूपैकफलोत्पादनं सङ्गच्छते अतएव सूत्रं ग्रहबिम्बप्रोतं कक्षाकारमिति कल्पनमपि निरस्तम्। उच्चद्वयात् तुल्यकर्षणेन विरुद्धकर्षणेन च सूत्रमण्डलभङ्गापत्तेरिति।।10।।
अथ एतदुपसंहरति—
अतो धनर्णं सुमहत् तेषां गतिवशाद्भवेत्।
आकृष्यमाणास्तैरेवं व्योम्नि यान्त्यनिलाहता:।।11।।
अत: पूर्वोक्तसुदूराकर्षणप्रतिपादनात् तेषां भौमादीनां गतिवशात् आकर्षणोत्पन्नचलनवशात् सुमहत् अत्यधिकं फलं धनर्णं स्वोच्चापकृष्टेत्यादिना भवति। ननु आकर्षणोत्पन्नचलनं कथं न प्रत्यक्षमित्यत आह। आकृष्यमाणा इति। तै: उच्चपातदैवतै: एवमुक्तप्रकारेण आकृष्टमाणा आकर्षिता एते भौमादयो व्योम्नि स्वस्वाकाशगोलेऽनिलाहता: पश्चिमाभिमुखानवरता प्रवहवाय्वाघाता यान्ति गच्छन्ति। तथा च अवलम्बनोत्पन्नपूर्वगतिर्यथा न प्रत्यक्षा तथा पूर्वगतिविकृत्यात्मकमेतत् आकर्षणचलनमनियतं प्रवहवायुभ्रमणप्राबल्यात् अप्रत्यक्षमिति भाव:।।11।।