सूर्यसिद्धान्त:
मध्यमाधिकार:-1


कालाश्रितस्य ग्रहचरितस्य मयाय ज्ञानप्रदानम्।
Kalashritashya grahacharitrashya Mayay gyanpradanam

नन्वयं सूर्य: स्वकार्यार्थं शरणागतमपि स्वशत्रुं प्रति कथमिदमुक्तवानित्यतो मयं प्रति साक्षात् सूर्येणोक्तस्य वचनस्यानुवादार्थमुद्यत:
प्रथमं तत्सङ्गतिप्रदर्शकमेतदाह—

विदितस्ते मया भावस्तोषितस्तहपसा ह्यहम्।
दद्यां कालाश्रयं ज्ञानं ग्रहाणां चरितं महत्।।5।।

श्री सूर्य उवाच इति। तेज:समूहैर्देदीप्यमानोऽर्को मयासुरं प्रत्यवददित्यर्थ:। अन्यथा चतुर्थपञ्चमश्लोकयो: सङ्गत्यदनुपपत्ते:किमुवाचेत्यतस्तद्वचनमनुवदति। हे मायासुर! ते तव भावो मनोरथो ज्योति:शास्त्रजिज्ञासारूप: मया सूर्येण विदितस्त्वदकथितोऽपि स्वतो ज्ञात:। तत: किं न ह्येतावता मम तत्सिद्धिरत आह। अहमिति। ते इत्यस्यावृत्तेस्ते तुभ्यं ज्ञानं शास्त्रं कालाश्रयं कालप्रधानम् ग्रहाणां प्रवहवायुस्थानां महदरिमेयं चरितम् माहात्म्यम्। ग्रहस्थितिचलनादिप्रतिपादकं ज्योति:शास्त्रमिति फलितार्थ:। अहं सूर्यमण्डलस्थ: दद्यां दास्यामि। ननु मां दैत्यंष प्रतीदं वाक्यं प्रतारकं भविष्यतीत्यत: स्वविशेषणमप्रतारणपूर्वकं तत्कथने हेतुभूतमाह। तोषित इति। हि यतस्तपसा त्वत्कृताराधनेन अत्यन्तं सन्तुष्टोऽतो दद्यामित्यर्थ:। तथा च त्वत्कर्मवश्येन मया भक्तजनवत्सलतया जातिवैरमुपेक्ष्य अनुकम्पितप्रह्लादवत् त्वमप्रतार्योऽनुकम्पित इति भाव:।।5।।