-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
स्पष्टाधिकार:-2


गतिकारणम् । Gatikaranam

अथ अनयोरूच्चपातयोर्मध्य उच्चयो: गतिहेतुत्वं प्रतिपादयति—

तद्वातरश्मिभिर्बद्धास्तै: सव्येतरपाणिभि:।
प्राक्पश्चादपकृष्यन्ते यथासन्नं स्वदिङ्मुखम्।।2।।

तेषामुच्चसंज्ञकजीवानां वायुरूपा ये रश्मयो रज्जवस्ताभिर्बद्धा विम्बात्मकग्रहास्तै: उच्चसंज्ञकजीवै: सव्यवामहस्तै: उच्चबहुत्वेन हस्तबाहुल्यात् बहुवचनं हस्ताभ्यामित्यर्थ:। स्वदिङ्मुखं यथासन्नं ग्रहविम्बं भवति तथा प्राक् पश्चात् पूर्वपश्चिममार्गाभ्यामित्यर्थ:। अपकृष्यन्ते आकर्ष्यन्ते। अयमभिप्राय:। भचक्रगोलस्थक्रान्तिवृत्तानुसृतग्रहाकाश-गोलान्तर्गतक्रान्तिवृत्ते कक्षारूपे स्वस्वप्रदेशे ग्रहोच्चपातास्तिष्ठन्ति। तत्र विम्बव्यासोनकक्षाकारसूत्रं प्रवहवाय्वतिरिक्तवायुरूपं स्वतोगति स्वस्थाने कम्पमानं ग्रहविम्बव्यासे पूर्वापरे प्रोतमुच्चजीवहस्तद्वयान्तर्गतमस्ति। अथ ग्रहविम्बमुच्चस्थानात् पूर्वस्मिन् स्वशक्त्या गच्छन् अपि वामहस्तस्थितसूत्रेण उच्चस्थानात् पश्चात् षड्भान्तरं तयो: अनन्तरं तन्मार्गेण आकर्षणसम्भवात् पूर्वस्मिन् गच्छद् ग्रहविम्बंत सव्यहस्रस्थितसूत्रेण उच्चस्थानात् पश्चिमरूपेण ग्रहस्थानात् पूर्वरूपेण वृहत्सूत्रावयवात्मकेन स्वस्थानात् पूर्वस्मिन् स्वाभिमुखमाकृष्यते स्वशक्त्या निरन्तरं यावदन्तराभावस्तयोरिति।।2।।