-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


मंगलादीनां परमविक्षेपमानम्।
Mangaladinang parambikhyetpmanam

अथैवं भौमादयोऽपि स्वपातै: विक्षिप्यन्त इत्येषामपि परमविक्षेपानाह—

तन्नवांशं द्विगुणितं जीवस्त्रिगुणितं कुज:।
बुधशुक्रार्कजा: पातैर्विक्षिप्यन्ते चतुर्गुणम्।।69।।

तन्नवांशं तस्य चन्द्रपरमविक्षेपस्या नवभागं त्रिंशतं द्विगुणितं षष्टिकलामितं परमेण तदन्तरेण इत्यर्थ:। पातेन गुरुर्दक्षिणोत्तरयो: क्रमेण विक्षिप्यते। भौम: पातेन त्रिगुणितं त्रिंशतं नवति कलामितपरमान्तरेण विक्षिप्यते। चतुर्गुणं त्रिंशतं विंशत्यधिकशतकलामितपरमान्तरेण बुध शुक्रशनैश्चरा: स्वस्वपातै: प्रत्येकं विक्षिप्यन्ते स्वभोगक्रान्तिवृत्तप्रदेशात् त्यज्यन्ते। केचित् अत्रापि त्रयस्त्रिंशत्कलाविम्बात् चन्द्रान्नवांशद्विगुणेन सत्र्यंशकलासप्तकस्य गुरुविम्बस्य तदरूपं विक्षेपणं युक्तमस्माद्भौमस्याधस्तत्वात् त्रिगुणं परमविक्षेपणम् अस्मादपि बुधशुक्रयो: लघुपृथुविम्बयो: अध:स्थत्वात् चतुर्गुणं परमविक्षेपणं तुल्यं न अल्पाधिकमेवं शनेरुच्चकक्षास्थत्वेऽपि मन्दत्वात् बुधशुक्रविक्षेपणतुल्यं परमविक्षेपणं युक्तमित्युपपत्तिमाहु:।।69।।

ननु एषामत्र कथने का सङ्गतिरित्यत: पूर्वोक्तमुपसंहरन्नाह—

एवं त्रिघनरन्ध्रार्करसार्कार्का दशाहता:।
चन्द्रादीनां क्रमादुक्ता मध्यविक्षेपलिप्तिका:।।70 ।।

एवं पूर्वश्लोकाभ्यां त्रिघन: सप्तविंशती रन्ध्राणि नवद्वादशषट्द्वादशद्वादशैते दशगुणिता: क्रमादुक्तांकक्रमात् चन्द्रादीनां वारक्रमात् चन्द्रभौमबुधगुरुशुक्रशनीनां विक्षेपकला मध्या अग्रे परमशरकलानामनियतत्वेन उक्ते:। कथिता। तथा च मध्यत्वेन एषामत्र प्रसङ्गसङ्गत्या कथनमिति भाव:।।70।।