-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


वारप्रवृत्ति:। Barprabrinti

अथ वारप्रवृतत्तिकालज्ञानमाह—

वारप्रवृत्ति: प्राग्देशे क्षपार्धेऽभ्यधिके भवेत्।
तद्देशान्तरनाडीभि: पश्चादूने विनिर्दिशेत्।।66।।

रेखात: पूर्वभागस्थितस्वाभिमतदेशे तद्देशान्तरनाडीभि: पूर्वप्रकारज्ञातदेशान्तरनाडीभि: अभ्यधिकेऽर्द्धरात्रसमयेऽर्द्धरात्रे युक्तार्द्धरात्रसमयेऽर्द्धरात्रादनन्तरं देशान्तरघटीकाल इत्यर्थ:। वारप्रवृत्ति: काल: स्यात्। रेखात: पश्चिमभागस्थदेशे पूर्वप्रकारज्ञातदेशान्तरघटीभिरूनेऽर्द्धरात्रेऽर्द्धरात्रात् पूर्वमेव देशान्तरघटीकाले वारप्रवृत्तिं विनिर्दिशेद् गणक: कथयेत्।

अत्रोपपत्ति:। यमकोटिसूर्योदयकालो लङ्कार्द्धरात्रसमयरूपो ग्रहचारप्रवृत्तिरूप: स्वदेशे कदेति रेखात: पूर्वापरभागयो: स्वार्द्धरात्रकालादनन्तरं पूर्वक्रमेण तदर्द्धरात्रं देशान्तरघटीभिर्भवति। स्वनिरक्षदेशस्वदेशार्द्धरात्रयो: युगपत् सम्भवात्। अत उपपन्नं वारप्रवृत्तिरित्यादि। ननु एतत्कालज्ञानं किमर्थमुक्तं प्रयोजनाभावादिति। चेत् न। अहर्गणोत्पन्नग्रहस्य तात्कालिकत्वात् तत्कालज्ञानेन स्वार्द्धरात्रसमयस्य तत्कालस्य च यदन्तरं तेन तात्कालिकस्य ग्रहस्य चालने कृते सति स्वार्द्धरात्रसमये ग्रह: पूर्वसाधित एव भवतीति मन्दप्रत्ययस्य एव प्रजोनत्वात्। तत्कालज्ञानेन ग्रहस्यदेशान्तरसंस्काराकरणमिति लाघवाच्च। अतएव समनन्तरमेव ग्रहस्य इष्टकालिकत्वसिद्ध्यर्थं चालनोक्ति: सङ्गच्छते। एतेन तत् ततोऽर्द्धरात्रात् क्षपार्द्धे निरक्षरात्र्यर्द्धे पञ्चदशघटिकात्मककालउत्तरगोलेऽर्कोदयाच्चरटीमिताग्रिमकाले दक्षिणगोलेऽर्कोदयाच्चरघटीमित-पूर्वकाल इति फलितम्। पूर्वपश्चिमदेशयोर्देशान्तरघटीभिरधिकोने काले क्रमेण वारप्रवृत्तिरिति व्याखानं लङ्कासूर्योदयकालरूपवारप्रवृत्तिबोधकमपास्तम्। तच्छब्दस्य पूर्वपरामर्शकत्वादर्द्धरात्रादित्यस्य अनुपपत्ते: पञ्चदशघटिका कालस्य क्षपार्द्धशब्देन असिद्धेश्च। श्री भगवताहर्गणस्यि लङ्कायामार्द्धरात्रिक इत्यनेन लङ्कार्द्धरात्रकालिकत्वोक्ते: स्वदेशे तत्कालरूपवारप्रवृत्तिकालज्ञानस्योक्तस्य सङ्गत्यनुपपत्ते:। व्यवहारयोग्यलङ्कासूर्योदयकालवार प्रवृत्तेरत्र सङ्गत्यभावाच्च।।66।।