-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


देशान्तरज्ञानम् । Deshantargyanam

ननु येन स्वस्थानं रेखापुरात् पूर्वतोऽपरत्र वा कियत् योजनान्तरेण अस्तीति न ज्ञायते तेन देशान्तरफलादिकं कथं कार्यमित्यत: श्लोकत्रयेण आह—

अतीत्योन्मीलनादिन्दोर्दृक्सिद्धिर्गणितागतात्।
यदा भवेत् तदा प्राच्यां स्वस्थानं मध्यतो भवेत्।।63।।
अप्राप्‍य च भवेत् पश्चादेवं वापि निमीलनात् ।
तयोरन्तरनाडीभिर्हन्याद् भूपरिधिं स्फुटम्।।64।।
षष्ट्या विभज्य लब्धैस्तु योजनै: प्रागथापरै:।
स्वदेशपरिधिर्ज्ञेय: कुर्याद्देशान्तरं हितै:।।65।।

चन्द्रस्य सर्वग्रहणान्तर्गतोन्मीलनकालात् विना देशान्तरं गणितागतात् चन्द्रग्रहणोक्तप्रकार गणितज्ञानात्। अतीत्य तत्कालस्य अतिक्रमणं कृत्वा पश्चादनन्तरकाले मन्दबोधार्थमिदम्। अन्यथातीत्य पश्चादिति अनयो: एकतरस्य वैयर्थ्यापत्ते:। तच्चन्द्रविम्बस्य उन्मीलनं यदा यदि इत्यर्थ:। स्वाभिमतस्थानं मध्यतो मध्य रेखादेशात् पूर्वदिशि भवेत् तिष्ठति इत्यर्थ:। पश्चात् तदित्य त्र दृक्सिद्धमिति पाठे तु प्रत्यक्षम् उन्मीलनमित्यर्थ:। अप्राप्य तदतिक्रमणमकृत्वा पूर्वकाल एव। चकारात् चन्द्रोन्मीलनं यदि स्यात् तर्हि मध्यरेखात: स्वस्थानम् इत्यर्थ:। पश्चात् पश्चिमदिग्भागे भवेत् तिष्ठतीत्यर्थ:। ननु चन्द्रस्य स्पर्शमोक्षसम्मीलनोन्मीलनकालेषु उन्मीलनकाल एव कथं गृहीत इत्यत आह। एवमिति। वा प्रकारान्तरेण निमीलानाच्चन्द्र सम्मीलनकालात्। एवं चन्द्रग्रहणाधिकारोक्तगणितप्रकारज्ञानादनन्तरकाले सम्मीलनं तर्हि मध्यरेखादेशात् स्वस्थानं पश्चिमादिग्भागे तिष्ठति इत्यर्थ:। अपिशब्दो निश्चयार्थे। तेन उन्मीलन सम्मीलनकालयोर्भिन्नरीतिव्युदास:। तथा च उन्मीलनग्रहणम् उपलक्षणार्थं तत्रापि स्पर्शमोक्षयो: ग्रहणाद्यन्तरूपयो: अनिश्चयत्वसम्भावनयोक्तिमुपेक्ष्य ग्रहणमध्यस्थयो: सम्मीलनोन्मीलनयो: निश्चयत्वेनोक्ति: कृतेति भाव:। अथ देशान्तरयोजनपुर:सरं देशान्तरफलं सिद्धमित्याह। तयोरिति। प्रत्यक्षोन्मीलानकालगणितागतोन्मीलनकालयो: सम्मीलनकालयोस्तादृशयोर्वा अन्तरघटीभिर्भूपरिधिं स्पष्टं स्वदेशभूपरिधिं लम्बज्याघ्न इत्याद्यवगतं हन्याद्गुणयेत् तादृशं गुणितस्पष्टपरिधिं षष्ट्या भक्ता लब्धै: प्राप्तै: योजनै: पूर्वभागयोजनै:। अथ अथवा अपरै: पश्चिमविभागस्थितै: योजनै: स्वदेशपरिधि: स्वदेशस्य परिधिरवधि: स्वदेशस्थानमण्डलरूपस्तुकारात् रेखादेशादन्तरित इत्यर्थ:। ज्ञेयो गणकेनेति शेष:। स्वरेखा स्वदेशयोरन्तरयोजनानि फलमिति फलितार्थ:। तै: अन्तरयोजनै: देशान्तरं तेन देशान्तराभ्यस्तेत्यादि प्रागुक्तप्रकारेण ग्रहाणां देशान्तरफलं कलात्मकं कुर्याद्गणक इति शेष:। हिकारात् तत्संस्कारोऽपि अभिन्नप्रकारत्वात् अभिन्न इत्यर्थ:। अत्रोपपत्ति:। विना देशान्तरसंस्कारं ग्रहगणितं स्वरेखादेशीयं भवति। अतो गणितसाधितोन्मीलनसम्मीलनादिकाला: स्वरेखादेशे सिद्ध्यन्ति। स्वदेशे पूर्वविभागस्थे प्रथमं स्वस्य सूर्योदयादिकलास्तदनन्तरं रेखाया इति चन्द्रग्रहणस्य सर्वदेशे युगपत् सम्भवात। गणितागतकालात् रेखादेशस्थादनन्तरं स्पर्शादिकालो भवति। एवं स्वदेशे पश्चिमविभागस्थे प्रथमं रेखादेशेऽर्कोदयादिकालास्तदनन्तरं स्वदेश इति रेखास्थगतागतस्पर्शादिकालादधट्यात्मकात् पूर्वमेव स्पर्शादिकालो भवति। अत: सम्यगुपपन्नमतीत्येत्यादि सार्द्धश्लोकोक्तम्। स्वदेशरेखादेश सूर्योदयाद्यवधिकघट्यात्मककालयोरन्तरं देशान्तरघटिका: सिद्धा: सूर्योदयद्वयान्तरकालेन अर्को भूपरिधिं क्रामतीति षष्टिसावनघटीभिर्भूपरिधियोजनानि स्वदेशीयानि तदा तत्कालान्तररूपदेशान्तरघटीभि: कानि इत्यनुपातेन स्वरेखादेशस्वदेशयोरन्तरयोजनानि। ज्ञातेभ्य: एभ्य: पूर्वदिशैव देशान्तरं भवति, सूर्यग्रहणस्य सर्वदेशे युगपद् सम्भवात् तदुन्मीलनकालादिना उक्तदिशा न एतज् ज्ञानमित्यनुक्तिरिति ध्येयम्।।63-65।।