SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ स्फुटपरिध्यानयनं देशान्तरफलानयनं तत्संस्कारञ्च श्लोकाभ्यामाह—
लम्बज्याघ्नस्त्रिजीवाप्त: स्फुटो भूपरिधि: स्वक:।
तेन देशान्तराभ्यस्ता ग्रहभुक्तिर्विभाजिता।।60।।
कलादि तत्फलं प्राच्यां ग्रहेभ्य: परिशोधयेत्।
रेखाप्रतीचीसंस्थाने प्रक्षिपेत् स्यु: स्वदेशजा:।।61।।
द्वादशपलभयोर्वर्गयोगमूलमक्षकर्ण:। अनेन द्वादशगुणिता त्रिज्या भक्ता फलं लम्बज्या। अनया गुणितो भूपरिधिस्त्रिज्यया गजाग्निवेदराममितया भक्त: फलं स्वक: स्वदेशसम्बन्धी स्पष्टो भूपरिधि: स्यात्। ग्रहस्य गतिर्देशान्तराभ्यस्ता स्वरेखादेशस्वदेशयोरन्तरयोजनानि देशान्तरपदवाच्यानि तैर्गुणिता तेन स्पष्टेन भूपरिधिना भक्ता फलं कलादिकं तत् फलं प्राच्यां स्वरेखादेशात् स्वदेशस्य पूर्वदिग् भागस्थितत्वे ग्रहेभ्य: कलादिस्थाने परिशोधयेत् वर्जयेत् हीनं कुर्यात इत्यर्थ:। रेखाप्रतीचीसंस्थाने स्वरेखादेशात् पश्चिमदिग्भागस्थिते स्वदेशे ग्रहेभ्य: कलादिस्थाने प्रक्षिपेत् योजयेत् युक्तं कुर्यात् गणक इति शेष:। ते सिद्धा ग्रहा: स्वदेशजा: स्वदेशीया भवन्ति। पूर्वमहर्गणस्य लङ्कादेशीयत्वेन तदुत्पन्नग्रहाणां लङ्कादेशीयत्वात्। अत्रोपपत्ति:-यद्यपि भूमे: कन्दुकाकारत्वेन सर्वत्राभिन्न: परिधिरिति स्फुटपरिध्यसम्भवस्तथापि निरक्षदेशस्य मध्यत्वकल्पनेन उक्तो भूपरिधि: तद्देशानामेव तदन्यत्र तदनुरोधेन वृत्तानां लघुत्वसम्भवेन उत्तरोत्तरं न्यूनपरिधि: स्वदेशे स्फुटसंज्ञ:। एवं नवत्यक्षांशे मेरूस्थाने वडवास्थाने च परिध्यभाव:। निरक्षदेशे परम उक्त: परिधि: अतो यत्र आक्षांशा: परमा नवति:। लंबांशाभाव:। यत्र अक्षांशाभावस्तत्र लंबाशा: परमा नवति:। लम्बांशाक्षांशौ तु वक्ष्यमाणस्वरूपौ। तथा च लम्बांशह्रासानुरोधेन परिधे: अपि ह्रास इति परमलम्बांशै: नवतिमितै: उक्तो भूपरिधिस्तदा स्वदेशीयलम्बांशै: क इत्यनुपात उपपन्नोऽपि वृत्ताश्रितांशेभ्योऽनुपातानामसम्भवेन सर्वै: उपेक्षितत्वाच्च ज्यानुपातस्य सर्वै: अङ्गीकृतत्वात् प्रमाणस्थाने प्रमाणांशज्या परमा त्रिज्या। इच्छास्थाने इच्छांशानां ज्या लम्बज्या इति युक्तमुक्तम् उपपन्नं स्पष्टपरिध्यानयनम्। देशान्तरोपपत्तिस्तु लङ्कादेशीयो ग्रह: स्वदेशत: समसूत्रेण यो दक्षिणोत्तरयो: निरक्षदेश आसन्नस्तत्र कार्य:। तदर्थं लङ्कादेशस्वनिरक्षदेशयो: अन्तरयोजनज्ञानम् आवश्यकम्। एतत् तु अस्मादृशामशक्यम् इति परिध्यपचयवत् तदन्तरतोपचितं लङ्कोत्तरदक्षिणसूत्रस्थस्वरेखादेशस्वदेशयो: अन्तरं स्वपरिधिस्थं गणनया ज्ञातम्। अस्मात् स्वपरिधिनेदमन्तरं योजनात्मकं तदोक्तपरिधिना किमित्यनुपातेन लङ्का स्वनिरक्षदेशयो: अन्तरमुक्तपरिधिस्थं ज्ञातम्। ततोऽर्कोदयद्वयान्तरकालेन अर्को भूपरिधिं क्रामति तत्र ग्रहा: स्वां स्वां गतिं कलात्मिकामतिक्रामन्ति अत उक्तपरिधिना ग्रहगतिकला: तदा प्राक्सिद्धलङ्कास्वनिरक्षदेशान्तरयोजनै: केत्यनुपातेन उक्तपरिध्यो: गुणहरयो: तुल्यत्वेन नाशात् स्वरेखादेशस्वदेशयो: अन्तरयोजनानि ग्रहगतिगुणितानि स्वपरिधिभक्तानि फलं ग्रहस्यान्तरकला:। यद्यपि स्वपरिधिना गतिकलास्तदा स्वरेखादेशस्वदेशयोरन्तरयोजनै: केत्येकानुपातेन एव देशान्तरफलमुपपन्नं भवति तथापि निरक्षदेशपदार्थं सम्बन्धाभावात् इदमुपपन्नं फलं निरक्षदेशीयं कथमिति आग्रहनिरतातिमन्दस्य बोधार्थं गुरुभूतमपि अनुपातद्वयमुक्तम्। तद्धनर्णोपपत्तिस्तु लङ्कादेशात् स्वनिरक्षदेशस्य पूर्वभागस्थितत्वे लङ्कादेशार्द्धरात्रात् स्वनिरक्षदेशार्द्धरात्रमर्वाग्भवति। तदुदयकालात् प्रवहानिलवेगेन पूर्वोदयात्। अतोऽग्रिमकालीनग्रहस्य पूर्वकालिकत्वसिद्ध्यर्थं तत्फलं न्यूनं कार्यम्। एवं निरक्षदेशस्य लङ्कात: पश्चिमस्थत्वे लङ्कोदयानन्तरोदयसद्भावात् लङ्कार्द्धरात्रात् अग्रिमकालेऽर्द्धरात्रमत: पूर्वकालिकग्रहस्य अग्रिमकालिकत्वसिद्धार्थं तत्फलं योज्यम्। चक्रशोधितपातस्य अयं संस्कारो विपरीत इति ज्ञेयम्। स्वनिरक्षदेशस्य लङ्कात: पूर्वापरभागस्थत्वं स्वरेखादेशात् स्वदेशस्य पूर्वापरभागस्थस्य अनुरोधेन इति स्वनिरक्षदेशस्वदेशयोर्याम्योत्तरैक्यादर्द्धरात्रयो: अभिन्नत्वात् स्वदेशार्द्धरात्रयो: अभिन्नत्वात् स्वदेशार्द्धरात्रेऽपि स्वनिरक्षदेशार्द्धरात्रकालिका एव ग्रहा अविकृता इति सर्वमुक्तमुपपन्नम्।।60-61।।