-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


मध्यमभूपरिधि:। Madhyambhupridhi

अथ ग्रहाणां देशान्तरफलानयनार्थं भूपरिधि: स्वोपजीव्यभूव्यासकथनपूर्वकमाह—

योजनानि शतान्यष्टौ भूकर्णो द्विगुणानि तु।
तद्वर्गतो दशगुणात् पदं भूपरिधिर्भवेत्।।59।।

अष्टौ शतानि द्विगुणानि षोडशशतं योजनानि भूकर्णो भुवो भूगोलस्य कर्णो वृत्तपरिधिमध्यभागसूत्रं परिध्यर्धमितचापस्य ज्यारूपं द्विगुणं इत्यनेन शतानि अष्टौ केन्द्रात् परिधिपर्यन्तम् ऋजुसूत्रस्य मानमिति सूचितम्। कक्षाव्यासार्द्धस्य कर्णव्यवहारवदस्य अपि भूकर्णव्यवहार:। तुकारात् पुराण विरुद्धोऽपि प्रत्यक्षसहकृतागमप्रमाणसिद्ध:। अस्मात् परिधिज्ञानमाह। तद्वर्गत इति। भूव्यासवर्गात् तुल्ययो: घातरूपाद्दशगुणान्मूलम्। कस्यायं समद्विघात इति तन्मूलं तत्प्रकारश्च ग्रन्थान्तरे प्रसिद्ध: भूपरिधि: स्यात्। अत्रोपपत्ति:। गजाग्निवेदराममित 3438 त्रिज्याया: कक्षाव्यासार्द्धत्वाद्द्विगणत्रिज्या रूपव्यासे चक्रकलातुल्य: परिधि: 21600 तदेष्टव्यासे क इति गुण 21600 हरौ 6876 हरेण अपवर्तितौ हरस्थाने रूपं गुणस्थाने सार्द्धाष्टावयवयुता: त्रय: तथा च व्यासोऽनेन गुणित: परिधिर्भवति। तत्र भगवता गुणस्य एकस्थानकरणार्थं वर्ग: कृत: 9, 52, 12 अत्र स्वल्पान्तराद्दश गृहीता:। वर्गेण वर्गं गुणयेदित्युक्तवात् व्यासवर्गो दशगुणितस्तन्मूलं व्यासो मूलरूपगुणगुणित: सिद्धो भवति। यद्यपि वर्गस्थाने दशग्रहणेन स्थूलमिदमानयनं तथापि परमवेदमङ्गलविश्वरूपमितव्यासस्य 11384 परिधिर्गणितागत: प्रत्यक्षेण खखखरसराममित: 36000 अत्र पूर्वोक्तरीत्यापवर्तने गुण: 3, 9, 44 पदोनदशावयवयुतं त्रयमस्य वर्गो दशप्राय: 9, 59, 59 इत्युपपन्नमुक्तम्।।59।।