सूर्यसिद्धान्त:
मध्यमाधिकार:-1


मयाय ज्योतिषशास्त्रज्ञानप्रदानम्। |
Mayay Jyotish Shastragyanpradanam

ततस्तुष्टोऽर्को मयाय इदं दत्तवानित्याह—

तोषितस्तपसा तेन प्रीतस्तस्मै वरार्थिने ।
ग्रहाणां चरितं प्रादान्मयाय सविता स्वयम्।।4।।

स्वयं स्वत: प्रीत: सुखरूप:। यद्वा शोभनोऽयं प्रत्यतक्ष: पीत: सन्तुष्टोऽपि सन् सविता सवितृमण्डलमध्यवर्ती। तेन सुदुश्चरेण तपसाराधनेन तोषित: अत्यन्तं सन्तुष्ट:। तस्मै असुराय मयनाम्ने वरार्थिने, वरं स्वाभिमतं ज्योति:शास्त्रमर्थयते ज्ञातुमिच्छते तस्मै ज्योति:शास्त्रजिज्ञासवे ग्रहाणां प्रवहवायुस्थग्रहताराणाम् चरितं ज्ञानं प्रादात् प्रकर्षेण साकल्येन यथार्थतत्त्वे अदात् दत्तवान् ।।4।।