SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
ननु सृष्ट्यादितो ग्रहचारप्रवृत्तेस्तदादित आनीतस्य ग्रहस्य वास्तवत्वेन तत्तुल्योऽयं ग्रह: कथमवगत इत्यत आह—
अस्मिन् कृतयुगस्यान्ते सर्वे मध्यगता ग्रहा:।
विना तु पातमन्दोच्चान् मेषादौ तुल्यतामिता:।।57।।
अस्मिन्निदानीन्तने कृतयुगस्य अवसानसमये सर्वे सप्तग्रहा: सूर्यादयो मध्यगता मध्यमा मेषादौ मेषादिप्रदेशे तुल्यतां समानतां गणितागतराश्यादिभोगेनेता: प्राप्ता:। पातमन्दोच्चान् विना पातमन्दोच्चास्तु न तुल्या न वा मेषादौ। तथा न ग्रहाणां शीघ्रोच्चानाञ्च भगणपूर्तित्वात् त्रेतादिसमयावगतकालादागतराश्यादय: सृष्ट्यादिगत-कालावगतराश्यादिभि: तुल्या भगणानाञ्च प्रयोजनाभावादिति भाव:।।57।।
अथ उच्चपातयोर्विशेषमाह—
मकरादौ शशाङकोच्चं तत्पातस्तु तुलादिग:।
निरंशत्वं गताश्चान्ये नोक्तास्ते मन्दचारिण:।।58।।
चन्द्रस्य मन्दोच्चं तदानीं मकरादौ अस्ति तत्पाश्चन्द्रपातस्तुलादिस्थोऽस्ति। तुकारात् अतस्तयोस्त्रेतादित आनयनं नवषड्राशियोजनविशेषेण सुगममित्यर्थ:। ननु एवमन्येषामपि यद्राश्यादिस्थत्वं तत्कथनेन तेषामपि आनयनं सुगमं भविष्यतीत्यत आह। निरंशत्वमिति। अन्येऽवशिष्टा मन्दोच्चपाता ये मन्दचारिणोऽल्पगतय उक्ता: पूर्वं भगणोक्तया कथितास्ते चकारात् अस्मिन् कृतयुगान्ते निरंशत्वमंशाभावतां न प्राप्ता:। तथा च तेषां राश्यादिकथने गौरवं मन्दगतित्वात् एकदानीता: सहस्रवर्षपर्यन्तमुपयुक्ता भवन्तीति निरन्तरं तत्साधनावश्यकताभावात् तेषाम् आनयनं त्रेतादिगताब्देभ्य उपेक्षितमिति भाव:। यदि च तत आनीयन्ते तदा स्वस्वक्षेपयुक्ता: कार्या:। क्षेपकास्तु रविमन्दोच्चं राश्यादिकं 0, 7, 28, 12, भौमस्य 3, 3, 14, 24, बुधस्य 5, 4, 4, 48 गुरो: 0, 9, 0, 0, शुक्रस्य 11, 13, 21, 0 शने: 4, 20, 13, 12, भौमपातस्य 9, 11, 20, 12, बुधस्य 8, 11, 16, 48, गुरो: 8, 8, 56, 24 शुक्रस्य 4, 17, 25, 48, शनिपातस्य 4, 20, 13, 12 एवमिष्टकालादपि ग्रहा: साध्या: स्वस्वक्षेपयोजनपूर्वम्।।58।।