SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ ग्रहानयनमाह—
यथा स्वभगणाभ्यस्तो दिनराशि: कुवासरै:।
विभाजितो मध्यगत्या भगणादिर्ग्रहो भवेत्।।53।।
दिनराशिरहर्गणो यथास्वभगणाभ्यस्तो यत्कालिकनिजोक्तभगणैर्गुणितो युगभगणै: कल्पभगणै: वा इत्यर्थ:। तथा कुवासरैस्तात्कालिकसावनदिनैर्युगसावनै: कल्पसावनैर्वा इति यथायोग्यमित्यर्थ:। भक्त: फलं यस्य ग्रहस्य भगणा गुणनार्थं गृहीता: स ग्रहो भगणादिर्भगणराशिभागकलाविकलात्मकभोगात्मक:। मध्यगत्या मध्यगतिमानेन न प्रतिदिनविलक्षणस्फुटगतिप्रमाणेन अग्रे तत्प्रमाणेन ग्रहभोग-ज्ञानस्योक्ते:। मध्यमो ग्रह: स्यादित्यर्थ:।
अत्रोपपत्ति:। युगादिसावनैर्युगादिभगणास्तदा एकेन दिनेन केति प्राप्ता मध्यमगतिस्तत एकेन दिनेन इयं गतिस्तदेष्टाहर्गणेन केति रूपयोस्तुल्यत्वेन विकाराजनकत्वाच्च नाशादुपपन्नमानयनम्। यद्यपि युगादिसावनैर्युगादिभगणास्तदेष्टाहर्गणेन किमित्येकानुपातेनानयनमुपपन्नं लाघवात् तथापि मध्यगत्येत्यस्य प्रदर्शनार्थमनुपातद्वयं गुरूभूतमपि प्रदर्शितम् ।।53।।
अथामुं प्रकारमुच्चपातयोरानयनायातिदिशति—
एवं स्वशीघ्रमन्दोच्चा ये प्रोक्ता: पूर्वयायिन:।
विलोमगतय: पातास्तद्वच्चक्राद् विशोधिता:।।54।।
ये पूर्वयायिन: पूर्वदिग्गतय: स्वशीघ्रमन्दोच्चा: स्वेषां ग्रहाणां शीघ्रोच्चमन्दोच्चा ग्रहबहुत्वेन शीघ्रोच्चमन्दोच्चयोर्बहुत्वात् बहुवचनम्। प्रोक्ता: पूर्वं भगणोक्त्या कथितास्तेऽप्येवं ग्रहानयनरीत्या साध्या:। ननु पूर्वयायिन एवं साध्यास्तर्हि पश्चिमगतय: पाता कथं साध्या इत्यत आह। विलोमगतय इति। पश्चिम गतय: पाता अपि तद्वद्ग्रहानयनरीत्या अत्र चन्द्रोच्चपातौ ग्रहानयनवत् युगकल्प भगणसावनाभ्यां सिद्धौ भवतोऽन्येषामुच्चपातौ तु कल्पसावनदिनहरेणेति ध्येयम्। ननु तर्हि पूर्वपश्चिमगत्यो: को विशेष आनयन इत्यत आह। चक्रादिति। आगता राश्यादिपाता द्वादशराशिभ्य्: शोध्या: पाता भवन्ति। एतावानेव विशेष इति भाव:। अत्रोपपत्ति:। पूर्वयायिनो मेषवृषमिथुनादिक्रमेण गच्छन्ति पश्चिमगतयस्तु मेषमीनकुम्भेत्याद्युत्क्रमेण गच्छन्ति। तत्रोत्क्रमगणनाया लोकेऽनभ्यासाद्राशिक्रमेण तज्ज्ञानार्थं द्वादशराशिभ्य: शोधिता: पूर्वगतिपङ्क्तिस्था भवन्ति।।54।।
अथ संवत्सारानयनमाह—
द्वादशघ्ना गुरोर्याता भगणा वर्तमानकै:।
राशिभि: सहिता: शुद्धा: षष्ट्या स्युर्विजयादय:।।55।।
अहर्गणानीतस्य भगणादिकस्य बृहस्पतेर्याता गता भगणा उपरिस्था द्वादशगुणिता वर्त्तमानकै: यस्मिन् अधिष्ठित: स वर्तमानस्तत्सहितै: एकयुक्तै: इत्यर्थ:। राशिभिर्गणितागतराशिभिर्यद्राशौ तिष्ठति तस्य मेषादिसंख्यया इति फलितार्थ: । युता: षष्ट्या शुद्धा भागावशेषिता: फलं भागाधिकं च अनुपयोगात् त्याज्यम्। विजयादय: संवत्सरा वर्तमानसहिता भवन्ति। अत्रोपपत्ति:। मध्यगत्या सभोगेन गुरोर्गौरववत्सरा:। इति लघुवशिष्ठसिद्धान्तोक्ते: गुरुमध्यराशिभोगकाल एक: संवत्सर इति सृष्टयाद्यानीतभगणादिगुरो: सम्पूर्णराशिज्ञानार्थं भगणा द्वादशगुणा वर्तमानराशिसंख्यायुता: षष्टितष्टा: शेषं विजयादिक: संवत्सरो वर्तमानो भवति। संवत्सराणां षष्टिसंख्यत्वात्। सृष्ट्यादौ विजयसंवत्सरसद्भावाच्च।।55।।
अथोक्तमुपसंहरन् लाघवेन ग्रहानयनमाह—
विस्तरेणैतदुदितं संक्षेपाद् व्यावहारिकम् ।
मध्यमानयनं कार्यं ग्रहाणामिष्टतो युगात्।।56।।
एतत् षण्मनूनान्तु सम्पीड्येत्यादि विस्तरेण गणितक्रियाबाहुल्येन उदितमुक्तं व्यावहारिकं लोकव्यवहारोपयुक्तमिदं ग्रहानयनं संक्षेपादल्पगणितप्रयासात् ज्ञेयम्। तदाह। मध्यमानयनमिति। ग्रहाणां मध्यमानयनं मध्यमानेन गणितमिष्टतो वर्त्तमानात् त्रेताख्यात् युगात् महायुगस्यचरणात् त्रेतायुगादितो गताब्दै: अल्पभूतै: एवोक्तरीत्याहर्गणमानोक्तरीत्या मध्यग्रहा कार्या इत्यर्थ:।।56।।