-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


मासेशसाधनम्। वर्षेशसाधनम्।
Maseshasabdhanam |Barshesadhanam

अथ प्रतिज्ञातयोर्मासवर्षपयोरानयनमाह—

मासाब्ददिनसङ्ख्याऽप्तं द्वित्रिघ्नं रूपसंयुतम्।
सप्तोद्धृतावशेषौ तु विज्ञेयौ मासवर्षपौ।।52।।

अहर्गणात् द्विष्ठादेकत्र मासदिनानां संख्यया त्रिंशता भक्तादाप्तं फलम्। अपरत्र वर्षदिनानां संख्यया षष्टयधिकशतत्रयेण भक्तादाप्तं फलम्। शेषयोरनुपयोगात् त्याग:। क्रमेण फलद्वयं द्वाभ्यां त्रिभिर्गुणितमुभयत्र एकसंख्यायुक्तं सप्तभागहारेण भक्तात् फलत्यागेन अवशिष्टौ क्रमेण मासस्वामिवर्षस्वामिनौ ज्ञातव्यौ तुकारात् यत्क्रमेण वारेश्वरगणना तत्क्रमेण अनयोर्गणना परमत्र वर्तमानेत्यर्थ:। अत्रोपपत्ति:। सृष्टयादित्रिंशहदोरात्राणामेक: सौरसावनमासस्तस्य सूर्योऽधिपतिर्मासादि दिनेऽर्कस्याधिपतित्वात्। एवं द्वितीयमासादौ भौमस्य दिनाधिपतित्वामद्भौमो द्वितीयमासेश्वर इति प्रतिमासं मासेश्वरयोरन्तरं द्वयम्। त्रिंशद्दिनानां सप्ततष्टतया द्वयवशेषात्। एवं षष्टयधिकशतत्रयाहोरात्राणामेकं सौरसावनवर्षं तस्याधिपोऽर्क:। वर्षादिदिनेऽर्कस्याधिपतित्वात्। एवं द्वितीयसावनवर्षादौ बुधस्य दिनाधिपतित्वाद् बुधो द्वितीयवर्षेश्वर इति प्रतिवर्षं वर्षेश्वरयोरन्तरं त्रयं षष्ट्यधिकशतत्रयदिनानां सप्ततष्टतया त्र्यवशेषात्। तथा च वर्तमानकाले तद्गणनया कियन्तो मासा गता: कियन्ति च वर्षाणि गतानीति ज्ञानार्थमहर्गणस्त्रिंशद्भक्त: फलं गतमासा: षष्टयधिकशतत्रयभक्त: फलं गतवर्षाणि। एकमासे द्वौ वारौ तदा गतमासै: क इति गतमासवारा वर्त्तमानार्थं सैका:। एवम् एकवर्षे त्रयो वारास्तदा गतवर्षै: क इति गतवर्षवारा वर्त्तमानार्थं सैका वाराणां सप्तसंख्यत्वात् सप्ततष्टौ शेषौ सूर्यादिकौ मासवर्षेश्वरौ।।52।।