-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


अहर्गणसाधनम्। वारेशसाधनम्।
Aharganasabdhanam | vareshsadhanam

अथाभीष्टकालेऽहर्गणसाधनं ततो दिनमासाब्दपप्रतिज्ञां वासरेश्वरज्ञानं च श्लोकचतुष्टयेन आह—

अत ऊर्ध्वममी युक्ता गतकालाब्दसङ्ख्यया।
मासीकृता युता मासैर्मधुशुक्लादिभिर्गतै:।।48।।
पृथक्स्थास्तेऽधिमासघ्ना: सूर्यमासविभाजिता:।
लब्धाधिमासकैर्युक्ता दिनीकृत्य दिनान्विता:।।49।।
द्विष्ठास्तिथिक्षयाभ्यस्ताश्चान्द्रवासरभाजिता:।
लब्धोनरात्रिरहिता लङ्कायामार्धरात्रिका:।।50।।
सावनो द्युगण: सूर्याद्दिनमासाब्दपास्तत:।
सप्तभि: क्षयित: शेष: सूर्याद्यो वासरेश्वर:।।51।।

अत: कृतयुगान्तादूमुपरि अनन्तरमित्यर्थ:। अभीष्टकाले यो गतकालस्तस्य सौरवर्षसंख्यया अमी कृतयुगान्तीयसृष्ट्यब्दा: खचतुष्केत्यादि पूर्वोक्ता युक्ता अभीष्टकाले सौरगताब्दा भवन्ति। एते मासीकृता द्वादशगुणिता इत्यर्थ:। अभीष्टकाले मधुशुक्लादिभि: चैत्रशुक्लाद्यवधिभूतै: गतै: मासैयुर्ता:। अत्र गतमासान्तर्गतोऽधिमासश्चेन्न ग्राह्यस्तस्योत्तरमासाह्वयत्वेन तदन्तर्गतत्वात् तन्मासस्य षष्टिदिनात्मकत्वाच्च। ते सिद्धा: पृथक्स्था युगाधिमासगुणिता युगसूर्यमासभक्ता: प्राप्ताधिमासकै: निरग्रै: सिद्धा: युक्ता:। अत्र यदा स्पष्टोऽधिमास: पतित आनयने न लब्धस्तदानयनप्राप्ताधिमासै: सैकैर्युक्ता:। यदा तु स्पष्टोऽधिमासो न पतित आनयने प्राप्तस्तदानयनप्राप्ताधिमासै: निरेकैर्युक्ता:। अन्यथाभीष्ट कालसाधिताहर्गणस्य त्रिंशद्दिनान्तरितत्वापत्तेरिति ध्येयम्। एते सिद्धा दिनीकृत्य त्रिशता संगुण्येत्यर्थ:। दिनान्विता वर्तमानमासस्य शुक्लप्रतिपदादिगततिथिभिर्युक्ता इत्यर्थ:। एते द्विष्ठा: स्थानद्वये स्थाप्या एकत्र युगावमै: गुणिता युगचान्द्रदिनैर्भक्ताश्च प्राप्तावमै: निरग्रै: अपरत्र हीना: सन्तो लङ्कादेशेऽर्द्धरात्रकालिक: सावनोऽहर्गण: स्यात्। तत: साधिताहर्गणात् सूर्यात् सूर्यमारभ्य दिनमासाब्दपा वासरेश्वरमासेश्वरवर्षेश्वरा भवन्ति। तत्र वासरेश्वरज्ञानमाह। सप्तभिरिति। अयमहर्गण: सप्तभि: क्षयितो भक्त्वा शेषित: कार्य:। स शेषोऽवशिष्ट: सूर्याद्य: सूर्यवारादिको वासरेश्वरो वारस्वामी गतो भवति। तदग्रिमो वर्तमानो वारेश इत्यर्थसिद्धम्। अत्रोपपत्ति:। सौरवर्षाणां मासकरणे सृष्टयाद्यधिमा-सान्तकालसम्बन्धिसावयवसौरमासा अव्यवहितपूर्वपतिता अधिमासान्तकालदिस्वाभीष्ट चैत्राद्यन्तकालसम्बन्धिसावयवचान्द्रमासा: तयोर्गोग: चैत्रादौ द्वादशगुणितसौरवर्षाणि जातानि कुत इति चेत् श्रृणु। द्वादशगुणित सौरवर्षादौ सौरमासा इति तु निर्विवादम्। ते स्वानीताधिमासै: सावयवैर्युता: चान्द्रा: सावयवा: सौरवर्षादौ। एतेऽवयवहीना: चैत्रादौ निरवयवाश्चान्द्रमासा:। अवयवस्य चैत्रादिसौरवर्षाद्यन्तरकालरूपाधिशेषत्वात्। ते निरग्राधिमासोनाश्चैत्रादौ अधिमासोनचान्द्रा द्वादशगुणितसौरवर्षरूपा उक्तयोगस्वरूपा: सिद्धा:। कथमन्यथा निरग्राधिमासयोजनेन एषां चैत्रादौ चान्द्रमासमानत्वसम्भव:। एते स्वाभीष्टमासादि कालसिद्ध्यर्थं चैत्रशुक्लादिगतमासैर्युक्ता:। एतेन द्वादशगुणितसौरवर्षमितसौरमासानां चैत्रादिगतचान्द्रमासा: कथं योजिता एकजातित्वाभावादिति दूषणाङ्गीकारो निरस्त:। उक्तरीत्या तत्र चान्द्रमासानामपि सत्वादेकजातीयत्वेन योगसम्भवात्। न हि पूर्वयोगोऽस्माभि: कृतो येन विजातीययोगो दूषणं तस्य द्वादशगुणितसौरवर्षरूपत्वेन स्वत: सिद्धत्वात्। अथ एषां निरग्राधिमासा योज्या इति सृष्ट्यादिपूर्वपतिताधिमासान्तकालावधि ये सौरमासा: क इत्यनुपातेन निरग्राधिमासाश्चान्द्रा भवन्ति सौरेभ्य: साधितत्वात्। अथाभीष्टकालेऽधिमासावयवज्ञानार्थं युगचान्द्रमासैर्युगाधिमासास्तदा पूर्वपतिताधिमासान्तका-लाभीष्टमासाद्यन्तरस्थितचान्द्रमासै: सावयवैरेभि: क इत्यनुपातेनाधिमासाभावात् तदवयव: सौर आयाति चान्द्रात् साधितत्वात्। परन्तु अवयवावयविनो: एकजातित्त्‍वासिद्धिरत: तत्सम्पादनार्थमधिमासावयवस्य उक्तसौरस्य युगसौरमासैर्युगचान्द्रमासास्तदा उक्तसौराधिमासावयवेन किमित्यनुपातेन युगचान्द्रमासा गुणो युगसौरमासा हर इति तुल्ययोर्गुणहरयोर्युगचान्द्रमासयोर्नाशादिष्टचान्द्रमासानां युगाधिमासा गुणो युगसौरमासा हर इति फलमधिमासावयवश्चान्द्र:। अथ तादृशेष्ट सौरचान्द्रमासयो: पृथगज्ञानादधिमासतदवयवयोर्ज्ञानमशक्यमपि एको हरश्चेद्गुणकौ विभिन्नौ इत्यादिरीत्येष्टतादृश सौरचान्द्रमासयोर्योग एव अयं ज्ञातोयुगाधिमासगुणितो युगसूर्यमासभक्त: फलममिधमासा:। शेषात् तदवयवोऽहर्गणानयनेऽनुपयुक्त:। तत्र केवलधिमासानामेव न्यूनत्वेन तेषामेव योजनावश्यकत्वात्। अयं सृष्ट्यादित इष्टमासादिपर्यन्तं चान्द्रमासगण: सिद्ध:। बहवस्तु द्वादाशगुणितसौरवर्षरूपसौरमासानां सौरवर्षादितोऽभीष्टकालपर्यन्तं सौरमासानामज्ञानाज्ज्ञातचैत्रादिगत-चान्द्रमासा एव योजिता: परमिष्टसौरमासेषु अधिमासशेषमधिकं तच्चाधिमासानयनेऽधिशेषत्यागेन केवलाधिमासयोजने निरन्तरं भवति। अधिमासानयनं च चान्द्रमिष्टसौरमासत्वेनैव अधिशेषाधिकेष्टसौरमासानामङ्गीकारादित्यााहु:। तच्चिन्त्यम्। केवलेष्टसौरमासानीताधिमासानां निरग्राणामधिशेषाधिकसौरेष्टमासेषु योजनेनैव निरन्तरितत्वसिद्धे:। अन्यथाधिशेषगुणितयुगाधिमासेभ्यो युगार्कमासभक्ताप्तफलेना-धिशेषमधिकमायातीति परमासन्नाधिशेषस्य अधिकत्वे भवद्रीत्यगनुपातानयनेन एकाधिकाधिकमासलब्ध्या योजितेन चान्द्रमासगण एकाधिक: स्यादिति। अथाभीष्टमासादिसिद्धचान्द्रदिनकरणार्थं त्रिंशद्गुणिता अभीष्टदिने तत्सिद्धयर्थं शुक्लादिगततिथयोऽत्र योजिता अभीष्टतिथ्यादौ चान्द्राहर्गण:। युगचान्द्रदिनै: युगावमानि तदा अनेन किमित्यनुपातागतावमै: सावयवै: हीनाश्चान्द्राहर्गणस्तिथ्यन्ते सावनोऽहर्गणो यमकोटिदेशे सूर्योदयकाले ग्रहचारस्य प्रवृत्तेस्तदादितो निरवयवाहर्गणसिद्ध्यर्थं तिथ्यन्ततत्कालयो: अन्तरमवमावयवरूपं योज्यमत: पूर्वमेवावमावयवोऽनुपयुक्तोऽत्र न गृहीतोऽत: चान्द्राहर्गण: स्वानीतावमै: निरग्रै: हीनोऽहर्गण: सावनो निरवयवो यमकोटिदेशीयसूर्योदयकाले तत्र तद्देशस्य अप्रसिद्धतया प्रसिद्धलङ्कादेशार्द्धरात्रस्य तद्रूपस्योक्ति: कृता। सृष्ट्यादौ अर्कवारसद्भावात् तदाद्या दिनमासवर्षेश्वरा:। ग्रहाणां सप्तसंख्यत्वात् सप्ततष्टोऽहर्गण: शेषं गतवार:।।48-51।।