-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


युगे सौरमाससंख्या। युगे सावनदिनसंख्या।
Yugey Souryamasahsankhya | yugey sawandinasankhya

ननु सूर्यमासानुक्ते: अधिमाससंख्या कथं ज्ञाता इत्यतो रविमाससंख्यां स्वरूपेण क्वहांश्च आह—

खचतुष्कसमुद्राष्ट-कुपञ्च रविमासका:।
भवन्ति भोदया भानुभगणैरूनिता: क्वहा:।।39।।

सूर्यमासा द्वादशगुणितरविभगणानुरूपा: शून्यखाभ्रखवेदधृतिशरमिता:। ननु सावनदिवससंख्या प्रागुक्ता कथमवगतेत्याह-भवन्तीति। भोदया नाक्षत्रदिवसा: प्रागुक्ता:, सूर्यभगणै: प्रागुक्तै>र्वर्जिता: सन्त: क्वहा भूवासरा भवन्ति। भोदया इत्यादिप्रागुक्ते:।।39।।

ननु सूर्यादिमन्दोच्चभौमादिपातानां युगे भगणानुत्पत्ते: कल्पभगणकथनमाव-श्यकमतस्तत्पङ्क्तयां प्रागुक्ता: एते भगणादय: कल्प एव कथं न उक्ता इत्यत आह—

अधिमासोनरात्र्यर्क्षचान्द्रसावनवासरा:।
एते सहस्रगुणिता: कल्पे स्युर्भगणादय:।।40।।

एते प्रागुक्ता भगणादयो भगणादय: कल्प एव कथं न उक्ता इत्यत आह। एते प्रागुक्ता भगणादयो भगण आदिर्येषां ते भगणादय:। अधिमासोनरात्र्यर्क्षचान्द्रसावनवासरा अधिमासा:षड्वह्नीत्यादि तिथिक्षया इत्याद्यूनरात्रयोवमानि। ऋक्षचान्द्रसावनानां प्रत्येकं वासर सम्बन्ध:। नाक्षत्रदिवसा भानामित्यादि। चान्द्रदिवसाश्चान्द्रा: खाष्टेत्यादि। सावनदिवसा वसुद्वयष्टाद्रीत्यादि। अत्र सौरमासा अपि खचतुष्केत्यादि ग्राह्या:। सहस्रगुणिता: कल्पे भगणादय उक्ता भवन्ति युगसहस्रस्य कल्पत्वात्। तथा च लाघवार्थं युग उक्ता इति भाव:।।40।।

अथ श्लोकाभ्यां रविचंद्रसूर्यादिग्रहाणां मन्दोच्चभगणान्वदन्पातभगणान्प्रतिजानीते—

प्राग्गते: सूर्यमन्दस्य कल्पे सप्ताष्टवह्नय:।
कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नय:।।41।।
खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणेषव:।
गोऽग्नय: शनिमन्दस्य पातानामथ वामत:।।42।।
मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागरा:।
कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च तथा भृगो: ।।43।।
शनिपातस्य भगणा: कल्पे यमरसर्तव:।
भगणा: पूर्वमेवात्र प्रोक्ताश्चन्द्रोच्चपातयो:।।44।।

अथ श्लोकाभ्यां विचन्द्रसूर्यादिग्रहाणां मन्दोच्चभगणान् वदन् पातभगणान् प्रतिजानीते। प्राग्गते: कल्प इत्यनयो: शनिमन्दान्तं प्रत्येकं सम्बन्ध:। पूर्वगते: सूर्यमन्दोच्चस्य कल्पे सप्ताष्टराममिता: शनिपातस्य भगणा इति वक्ष्यमाणस्य भगणा इति पदमत्र प्रत्येकमन्वेति। कौजस्य कुजसम्बन्धिन: सूर्यमन्दस्य इत्यस्य एकदेशो मन्दस्य इति मन्दोच्चस्य इत्यर्थकमत्रान्वेति। तथा च भौममन्दोच्चस्य चतुरधिकं शतद्वयम्। बौधस्य बुधमन्दोच्चस्य अष्टषटत्रिमिता:। जैवस्य गुरु सम्बन्धिन:। अत्र शनिमन्दस्येति वक्ष्यमाणस्य एकदेशो मन्दस्य इति मन्दोच्चस्य इत्यर्थकमन्वेति एकवृत्तस्थत्वात्। यद्वा आद्यन्तयोर्मन्ददस्य इत्युक्त्यैव मध्यस्थानामन्वय: सूपपन्न इति। तथा च गुरुमन्दोच्चस्य नवशतं शौक्रस्य शुक्रमन्दोच्चस्य पञ्चत्रिंशदधिकपञ्चशतं शनिमन्दोच्चस्य एकोनचत्वारिंशत्। अथ अनन्तरं पातानां भौमादिपातानां वामत: पश्चिमगत्या भगणा उच्यन्त इति शेष: ।।41-42।।

तान् श्लोकाभ्यामाह। कुजसम्बन्धिन:। तुकारात् पातस्य भौमपातस्य कल्पे भगणाश्चतुर्दशाधिकं शतद्वयम्। बौधस्य बुधसम्बन्धिन: शनिपातस्य् इत्यस्य एकदेश: पातस्य इत्यत्रान्वेति। बुधपातस्य द्वादशोना पञ्चशती। जैवस्य् गुरुपातस्य चतु: सप्तत्यधिकं शतम्। भृगो: शुक्रस्य तथा सम्बन्धिनश्चकारात् पातस्य शुक्रपातस्य इत्यर्थ:। त्र्यधिका नवशती। शनिपातस्य द्विरसषट्का भगणा: कल्पे भवन्ति। ननु अस्मिन् प्रसङ्गे चन्द्रस्य उच्चपातयोर्भगणा: कथं न उक्ता इति मन्दाशङ्कापाकरणाय पूर्वोक्तं स्मारयति। भगणा इति। चन्द्रोच्चपातयो: चन्द्रस्य मन्दोच्चपातयोर्भगणा अत्र अस्मिन् अधिकारे पूर्वग्रहयुगभगणकथने। एवकारो विस्मरणनिरासार्थक: प्रोक्ताश्चन्द्रोच्चस्यह इत्यादिश्लोकेनोक्ता: ।।43-44।।

अथाभिमतकाले ग्रहगतभोगानयनं विवक्षुस्तदुपजीव्याहर्गणसाधनार्थं प्रवृत्त ग्रहचारकालाद्गताब्दज्ञानोपजीव्यं कृतयुगान्तीयगताब्दज्ञानं श्लोकत्रयेणाह—

षण्मनूनां तु सम्पीड्य कालं तत्सन्धिभि: सह।
कल्पादिसन्धिना सार्धं वैवस्वतमनोस्तथा।।45।।
युगानां त्रिघनं यातं तथा कृतयुगं त्विदम्।
प्रोज्झ्य सृष्टेस्तत: कालं पूर्वोक्तं दिव्यसङ्ख्यया।।46।।
सूर्याब्दसङ्ख्यया ज्ञेया: कृतस्यान्ते गता अमी।
खचतुष्कयमाद्र्यग्निशररन्ध्रनिशाकरा: ।।47।।

षण्मनूनां कालं सौरवर्षात्मकं तत्सन्धिभि: षण्मनूनां कृतयुगप्रमाणै: षड्भि: सन्धिभि: सह सार्द्धं कल्पादिसन्धिना कृतप्रमाण: कल्पादौ इत्यनेन कल्पप्रारम्भसम्बद्धकृतयुगमितसन्धिना सार्द्धं सम्पीड्यैकृत्य तुकारात् आयुषोऽर्द्धमितं तस्य इत्यस्य निरास:। वैवस्वतमनो: वर्तमानसप्तम- वैवस्वताख्यस्यय मनोर्युगानां त्रिघनं यातं युगसप्तविंशतिगतां तथैकीकृत्येदमष्टाविंशतियुगान्तर्गतं तुकारात् साम्प्रतं स्थितं कृतयुगं तथा गतत्वेनैकीकृत्य तत: सिद्धाङ्कात् सृष्टे: कालं सृष्टिकरणार्थं य: कालो वर्षात्मकस्तं दिव्यमानेन पूर्वोक्तं कृताद्रिवेदा दिव्याब्दा: शतघ्ना इत्यनेनोक्तम्। सूर्याब्दसंख्यया सौरवर्षमानेन षष्ट्यधिकशतत्रयगुणितं कृत्वा इति तात्पर्यार्थ:। एतेन प्रागुक्तैकीकरणं सौरवर्षप्रमाणेन न दिव्यवर्षप्रमाणेन इति व्यक्तीकृत्य च समुच्चयार्थोऽनुसन्धेय:। अमी अवशिष्टाब्दा: खाभ्रखाभ्रद्विसप्तत्रिशरातिधृतय: कृतयुगचरणस्य अवसाने गता अतीता ज्ञातव्या:। ननु कल्पादस्माच्च मनव इत्यादिपूर्वोक्तसम्पीडितकालोक्त्येदं षण्मनूनामित्यादि पुनरुक्तमाभाति। न पूर्वं ब्रह्मगतवय: प्रमाणज्ञानार्थमिदानीं च ग्रहसाधनार्थम्। अन्यथा गतब्रह्मवय: प्रमाणाद् ग्रहसांधनापत्तेरिति वाच्यम्। ब्रह्मगतवय: प्रमाणादेव ग्रहसाधनस्य युक्तत्वादिष्टापत्ते:। अन्यथा ग्रहचक्रादेर्ब्रह्मोत्पत्तिस्तदवसानपर्यन्तं सत्वाद्ब्रह्मदिनाधिककाले गताब्दज्ञानाभावाद् ग्रहसाधनानुपपत्तिरिति चेन्न। इत्थं युगसहस्रण भूतसंहारकारक: कल्प इत्यनेन ब्रह्मदिनान्ते ग्रहचक्रादिनाशोक्ते: तद्दिनादौ ग्रहचक्रोत्पत्तेश्च ब्रह्मदिवस एव तदादिगताब्दा ग्रहचारोपजीव्या न ब्रह्मगतायु: प्रमाणाब्दा:। ग्रहासत्वे ग्रहसाधनापत्ते:। अत: पुनर्गताब्दा ग्रहचारोपजीव्या ब्रह्मदिनादितो ग्रहचारप्रवृत्तिकालपर्यन्तं य: सृष्टिविलम्बितकालस्तदूना ब्रह्मदिनादिगताब्दा: सृष्टिगताब्दा ग्रहसाधनोपजीव्या इति तथोक्तम्। अन्यथा सृष्टयन्तर्गतकाले ग्रहचारासत्वे तत्साधनापत्ते: सृष्टिकालकथनानुपपत्तेश्च इति दिक्। यथा दिव्याब्दस्य सौरवर्षाणि 360 द्वादशसहस्रगुणितानि महायुगम् 4320000 इदमेकसप्ततिगुणं मनुमानम् 306720000 इदं षड्गुणितं षण्मनुमानम् 1840320000 इदं स्वसन्धिभि: कृतयुगप्रमाणै: सप्तभिरेभि: 12096000 युतम् 1852416000 एतत् सप्तविंशतियुग 116640000 सहितम् 1969056000 कृतयुग 1728000 युक्तं जातानि कल्पगतवर्षाणि 197078400 सृष्टिदिव्याब्दै: 47400 खषडग्निगुणितैरेभि: 17064000 हीनं सृष्टिगताब्दा ग्रहचारोपजीव्या: कृतयुगान्ते खचतुष्केत्यादि उपपन्ना: 1953720000 ।।45-47।।