SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ युगे नाक्षत्रदिवसांस्तत्त्स्वरूपावगमाय ग्रहसावनदिनस्वरूपं स्वसंख्याज्ञानहे-तुकञ्च आह—
भानामष्टाक्षिवस्वद्रित्रिद्विद्वयष्टशरेन्दव:।
या भगणै: स्वै: स्वैरूना: स्वस्वोपदया युगे।।34।।
भानां नक्षत्राणां स्वतो गत्यभावेऽपि प्रवहवायुना परिभ्रमणात् तत्संख्यातुल्या भगणा: स्वदिनतुल्या:। अतएव अत्र वाममिति पूर्वोक्तस्य युक्तोऽन्वय:। अष्टद्वयष्टनगाग्निजातिगजदिनमिता:। ननु ग्रहाणामपि प्रवहवायुना परिभ्रमणेन उदयसद्भावात् तेषां दिवसा: कथं ज्ञेया इत्यत आह-भोदया इति। उदयो यस्मिन् अहनि स्वाद्यान्तावधिरूप इति व्युत्पत्योदयशब्देन दिनम्। तथा च भोदया नाक्षत्रदिवसा एत उक्ता: स्वै: स्वै: स्वकीयै: भगणै: प्रागुक्तै: वर्जिता: सन्त: स्वस्वोदया निजनिजसावनदिवसा युगे भवन्ति। युग इत्यनेन अभीष्टकाले नाक्षत्रदिवसा ग्रहगतभोगादिना भगणादिनोना ग्रहसावनदिवसा अभीष्टा भवन्ति। परन्तु राशीन् पञ्चगुणितानंशादिकं दशगुणितं कृत्वा घट्यादिस्थाने हीनं कार्यमन्यथा विजातीयत्वादन्तरानुपपत्तेरिति सूचितम्। अत्रोपपत्ति:। यदि ग्रहाणां प्राग्गमनावलम्बनं न स्यात् तर्हि ग्रहोदयनक्षत्रोदययो: एकहेतुत्वात् नाक्षत्रसावनदिवसयोरभेद: स्यात्। अतो ग्रहाणां लम्बनेन नाक्षत्रदिवसेभ्य: सावनदिवसानामन्तरितत्वात् अवलम्बनजभगणान्तरेण युगे नाक्षत्रदिवसा न्यूना भवन्ति। प्रवहेण भगणतुल्यपश्चिमग्रहतुल्यानामकरणादित्युपपन्नं भोदया इत्यादि। अनेन एव भगणसावनयोगो नाक्षत्रदिवसा इत्यपि अर्थसिद्धम् ।।34।।