अथ स्वोक्तस्य स्वकल्पितत्वशङ्कावारणाय तत्संवादोपक्रमं विवक्षु: प्रथमं मयासुरेण
तपस्तप्तमिति श्लोकाभ्यामाह—
अल्पावशिष्टे तु कृते मयो नाम महासुर:।
रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ।।2।।
वेदाङ्गमग्य्रमखिलं ज्योतिषां गतिकारणम्।
आराधयन् विवस्वन्तं तपस्तेपे सुदुश्चरम् ।।3।।
मयेति नाम यस्यासौ मयाख्यो महादैत्य: कश्चित्। तपोऽभिमतदेवताप्रीतिकरजपहोमध्यानादिना स्वशरीरादिक्लेशनियमरूपं तेपे कृतवान्। दैत्यानां तपश्चरणं पुराणेषु प्रतिपदं सुप्रसिद्धम्। ननु तत्र तेषां तपश्चरणस्य देवताविशेषमभिमतमुद्दिश्य प्रसिद्धेरनेन कं देवमुद्दिश्य तपस्तप्तमित्यत आह। विवस्वन्तं सवितृमण्डलाधिष्ठातारं नारायणं सेवयन्। ननु दैत्यारि: एनं स्वशत्रुं ज्ञात्वापि कथं स्वाभिमतसिद्ध्यर्थमारराध। न हि स्वशत्रुत: स्वहितसिद्धिरन्यथा शत्रुत्वव्याघात इत्यतस्तपोविशेषणमाह। सुदुश्चरमिति। सुतरां दु:खैरत्यन्तक्लेशैश्चरितुं कर्त्तुं शक्यमित्यर्थ:। तथा च भक्तजनैकवत्सलतया तादृशतपश्चरणसुप्रसन्नो दैत्यानामप्यभिमतं पूरयतीति पुराणेषु शतश: प्रसिद्धम्। अतस्तत्प्रतीत्याराधयन्निति भाव:। ननु पुराणेषु दैत्यानां तपश्चरणोक्तिप्रसंगे क्वचिदप्यस्यानुक्तेस्तत्तपश्चरणं कथं प्रमाणं ज्ञेयमित्यत आह। अल्पावशिष्ट इति। कृते कृताख्ये युगचरणे तुकारात्सन्ध्या सन्ध्यांशसहित इत्यर्थ:, तेन सन्ध्यासन्ध्यांशसमेतकेवलकृतरूपाभिमतकृतचरणे। न ग्रन्थान्तरोक्तकेवलकृत इति पर्यवसन्नम्। अल्पकालेन सन्ध्यांशान्तर्गतेन शेषिते। समाप्त्यासन्नाभिमतकृतयुगे मयासुरेण तपस्तप्तमित्यर्थ:। तथा च साम्प्रतमेव मयासुरेण तपस्तप्तमिति सर्वजनावगतप्रत्यक्षप्रमाणसिद्धं नागमान्तरप्रामाण्यमपेक्षत इति भाव:। ननु मयासुरेण किमर्थं तपस्तप्तं न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्त्तत इत्यतो मयासुरविशेषणमाह। ज्ञायतेऽनेनेति ज्ञानं शास्त्रं ज्ञातुमिच्छु:। तथा न शास्त्रज्ञाननिमित्तं तेन तपस्तस्तमिति भाव:। किं तच्छास्त्रमित्यतो ज्ञानविशेषणमाह। ज्योतिषामिति। प्रवहवायुस्थानां ग्रहनक्षत्राणां गतिकारणम्। ये गत्यर्थास्ते ज्ञानार्था इति गते: संस्थानचलनमानादिज्ञानस्य कारणं प्रतिपादकं ज्योति: शास्त्रं जिज्ञासुरिति फलितम्। ननु ज्योति: शास्त्रज्ञानार्थमयमायासो न युक्तस्तस्य सर्वज्ञेयत्वेनादूरूहत्वादित्यत आह। अखिलमिति। समग्रं ज्योति: शास्त्रमित्यर्थ:। तथा चर्षीणां मानुषत्वेनैभ्यो मम ज्ञानमखिलं यथार्थं वा न भविष्यतीति दैत्यबुद्धया मत्वा नि:शेषज्योति:शास्त्रस्य दुरूहस्य विदिततत्त्वं भगवन्तमप्रतारकं सर्वज्ञं महागुरूं सेवयामासेति भाव:। ननु तस्यासुरस्य ज्योति:शास्त्रप्रवृत्तिर्न युक्ता फलाभावादित्यत आह। वेदाङ्गमिति। वेदस्याङ्गम्। तथा चाङिगनो यत् फलं तदेवाङगज्योति: मोक्षरूपफलसद्भावादत्र प्रवृत्ति: युक्तेति भाव:। अतएव पुण्यं पुण्यजनकं पुराणन्यायेत्याफदिचतुर्दशविद्यान्तर्गतत्वात्। नन्विदं वेदाङ्गं कुत इत्यत आह। परममिति।
कालोऽयं भगवान् विष्णुरनन्त: परमेश्वर:। तद्वेत्ता पूज्यते सम्यक् पूज्य: कोऽन्यस्ततो मत:। इत्युक्ते: कालप्रतिपादकत्वेनोत्कृष्टमतो वेदाङ्गम्। एतेन पुराणादीनां निरास इति भाव:। ननु व्याकरणादीनां षण्णां वेदाङ्गत्वादस्मिन्नेव प्रवृत्ति: कथमित्यत आह। अग्रमिति। षण्णां वेदाङ्गानां मध्ये श्रेष्ठम्। कुत इत्यत आह।उत्तममिति। मुख्याङ्गं नेत्रमित्यर्थ:। तथा च नेत्ररहितस्याकिञ्चत्करत्वादिदं ज्योति:शास्त्रं वेदाङ्गेषु श्रेष्ठमिति भाव:। ननु तथाप्येतस्य ज्ञानार्थमेतावानायासो न युक्त इत्यत आह। रहस्यमिति।
विद्या ह वै ब्राह्मणमाजगाम गोपायमाशेवधिष्टेऽहमस्मि ।
असूयकायानृजवेऽयताय न मां ब्रूयादवीर्यवती तथा स्याम्।।
इति श्रुत्युक्ते: गोप्यमित्यर्थ:। तथा चास्य शास्त्रस्य अदेयत्वेन निश्चितत्वादनेन तत्प्राप्त्यर्थमेतावानपि आयास: कृत इति भाव:।।2-3।।