SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ भगणान् विवक्षु: प्रथमं सूर्यबुधशुक्राणां भौमगुरुशनिशीघ्रोच्चानां च भगणानाह—
युगे सूर्यज्ञशुक्राणां खचतुष्करदार्णवा:।
कुजार्किगुरुशीघ्राणां भगणा: पूर्वयायिनाम्।।29।।
महायुगे सूर्यबुधशुक्राणां खानां चतुष्कमेकस्थानादिसहस्रस्थानान्तचतु: स्थानस्थितानि शून्यानि ततोऽयुतादिप्रयुतस्थानपर्यन्तं दन्तसमुद्रास्तथा च युगसौरवर्षाणि खाभ्रखाभ्रद्विरामवेदमितानि भगणा द्वादशराशिभोगात्मकपरिवर्त्तानां संख्या भवन्तीति शेष:। भौम-शनि-बृहस्पतीनां यानि शीघ्राणि शीघ्रोच्चानि तेषामेतन्मिता भगणा:। चकार: समुच्चयार्थकोऽनुसन्धेय:। अत्र कक्षाक्रमेण चारक्रमेण वा गुरो: खलमध्यगता भवतीति न तथोद्देश:। स्वतन्त्रस्य नियोगार्हत्वाद्वा। ननु आकाश एषां विम्बाभावादवलम्बनासम्भवेन गत्यभावात् कथं भगणा उक्ता इत्यत आह। पूर्वयायिनामिति पूर्वगामिनाम्। तथा च तेषाम् अदृश्यरूपाणां पूर्वगतिसद्भावाद् भगणोक्तौ न क्षति:। एषां स्वरूपादिनिर्णयस्तु स्पष्टाधिकारे प्रतिपादयिष्यते।।29।।