-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


भगणस्वरूपम् । Bhaganaswarupamah

अथ भभोगे विशेषं वदन् वक्ष्यमाणभगणस्वरूपम् आह—

शीघ्रगास्तान्यथाऽल्पेन कालेन महताऽल्पग:।
तेषां तु परिवर्तेन पौष्णान्ते भगण: स्मृत:।।27।।

अथशब्द: पूर्वोक्ते विशेषसूचक: शीघ्रगतिग्रह: तानि भानि अल्पेन कालेन भुनक्त्यल्पगतिग्रहो बहुकालेन भुनक्ति तुल्यराश्यादिभोगो मन्दशीघ्रगतिग्रहयो: तुल्यकालेन न भवति इति विशेषार्थ:। तेषां राशीनां परिवर्तेन भ्रमणेन। तुकाराद् ग्रहादिगतिभोगजनितेन भगण: प्राज्ञैरुक्त:। क्रान्तिवृत्ते द्वादशराशीनां सत्वात् तद्भोगेन चक्रभोगसमाप्तेर्यत् स्थानमारभ्य चलितो ग्रह: पुनस्तत् स्थानमायाति स चक्रभोग: परिवर्तनसंज्ञोऽपि द्वादशराशिभोगाद् भगण इत्यर्थ:। ननु क्रान्तिवृत्ते सर्वप्रदेशेभ्य: परिवर्तनसम्भवात् अत्र क: परिवर्तनादिभूत: प्रदेश इत्यत आह-पौष्णान्त इति। सृष्टयादौ ब्रह्मणा क्रान्तिवृत्ते रेवतीयोगतारासन्नप्रदेशे सर्वग्रहाणां निवेशितत्वात् तदवधितो ग्रहचलनाच्च। पौष्णस्य रेवतीयोगताराया अन्ते निकटे प्रदेशे तथा च रेवतीयोगतारासन्नाग्रिमस्थानमेव आद्यन्तावधिभूतम् इति भाव:।।27।।

ननु परिवर्त्तस्य भगणसंज्ञा तु अयुक्ता त्रयादिराशीनामपि भगणत्वादित्यत: परिभाषाकथनच्छलेन भगणस्वरूपमाह—

विकलानां कला षष्ट्या तत्षष्ट्या भाग उच्यते।
तत्त्रिंशता भवेद्राशिर्भगणो द्वादशैव ते।।28।।

यथा मूर्त्तकाले प्राणकाल आदिभूतस्तथा क्षेत्रपरिभाषायां विकला: सूक्ष्मादिभूतास्तासां षष्ट्यैका कला कलानां षष्ट्या भागोंऽश: क्षेत्रपरिभाषाभिज्ञै: कथ्यते। भागत्रिंशता राशि: स्यात्। ते राशय: सकला द्वादश। एवकारस्त्रिचतुरादीनां निरासार्थम्। तथा च साकल्ये गणपदप्रयोगाद् भगणस्य भोगेऽपि भगणव्यवहाराच्च पूर्वोक्तं युक्तमिति भाव:।।28।।