-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त:
मध्यमाधिकार:-1


ग्रहाणां प्राग्गतित्त्वस्य कारणम्।
Grahanam praggotintyasya karanam

अथ ग्रहपूर्वगत्युत्पत्तौ कारणमाह—

पश्चाद् व्रजन्तोऽतिजवान्नक्षत्रै: सततं ग्रहा:।
जीयमानास्तु लम्बन्ते तुल्यमेव स्वमार्गगा:।।25।।

पश्चादनन्तयरं पुनरावृत्या पश्चात् पश्चिमदिगभिमुखं नक्षत्रै: तारकादिभि: सह ग्रहा: सूर्यादयोऽतिजवात् प्रवहवायुसत्वरगतिवशात् सततं निरन्तरं व्रजन्तो गच्छन्त: स्वमार्गगा: स्वकक्षावृत्तस्था जीयमाना नक्षत्रै: पराजिता नक्षत्राणामग्रे गमनात्। अतएव लज्जयेव गुरुभूता इति तात्पर्यार्थ:। तुल्यं समम्। एवकारादधिकन्यूनव्यवच्छेद:। लम्बन्ते स्वस्थानात् पूर्वस्मिन् लम्बायमाना भवन्ति। यथा लज्जित: पश्चाद् भवति नाग्रे। तुकारात् अधोऽध: कक्षाक्रमानुरोधेन शन्यादिग्रहाणां चन्द्रान्तानां गुरुतापचय: शनिरतिगुरुभूतस्तस्मात् किञ्चन्न्यूनो गुरुस्तस्मादपि भौम इत्यादि यथोत्तरम्। यस्य कक्षा महती तस्य गुरुत्वाधिक्यं यस्य लघ्वी तस्य तदनुरोधेन गुरुताल्पत्वमिति। एतदुक्तं भवति। ब्रह्मणा प्रवहवायौ नक्षत्राधिष्ठितो मूर्तो गोल: स्थापित: तदन्तर्गता: स्वस्वाकाशगोलस्था: शन्यादयो नक्षत्राधिष्ठितमूर्तगोलस्थक्रान्तिवृत्तस्थरेवतीयोग-तारासन्नरूपमेषादिप्रदेशसमसूत्रस्था: स्थापिता:। क्रान्तिवृत्तं तु मेषतुलास्थाने विषुववृत्तलग्नसम्पातात् त्रिभान्तरितक्रान्तिवृत्तप्रदेशौ स्वासन्नविषुवद्वृत्तप्रदेशाभ्यां चतुर्विंशत्यंशान्तरेण दक्षिणोत्तरौ मकरकर्कादिरूपौ तदेव द्वादशराश्यात्मकं वृत्तं ग्रहचारभूतम्। विषुवदवृत्तं तु ध्रुवमध्यस्थं निरक्षदेशोपरिगतम्।

तत्र प्रवहवायुना स्वाघातेन मूर्तो नक्षत्रगोलो नाक्षत्रषष्टिघटीभि: परिवर्त्यते। तदन्तर्गतवायुभि: तदाघातेन वा ग्रहा भ्रमन्त्यपि नक्षत्रगोलस्थितक्रान्तिवृत्तीयमेषादिप्रदेशेन समं न गच्छन्ति वायूनां स्वल्पत्वात् तदाघातस्यापि अल्पत्वाद्विम्बानां गुरुत्वाच्च। अतस्तत् स्थानाद् ग्रहाणां लम्बनं दृश्यते। अतएव नक्षत्रोदयकाले तेषां द्वितीयदिने न उदय:, किन्तु ग्रहो लम्बितप्रदेशेन वायुना तदनन्तरमूर्ध्वमागच्छतीति अनन्तरमुदय:। लम्ब नं तु शन्यादीनां कक्षानुरोधेन गुरुत्वाद्वायूनां तद्-घातानां वा कक्षानुरोधेन बह्वल्पत्वात् तुल्यम् । यद्यपि वायोर्ध्रुवानुरोधेन सत्वाद् ग्रहावलम्बनं विषुवद्वृत्ते भवितुम् उचितं न क्रान्तिवृत्ते। तथा च-वक्ष्यमाणक्रान्त्यनुपपत्ति: क्रान्तिवृत्तस्थद्वादशराशिभोगेन वक्ष्यमाणानां भगणानामनुपपत्तिश्च। तथापि वायुना अवलम्बितो ग्रहो विषुवन्माृर्गगोऽपि तद्विषुवप्रदेशासन्नक्रान्तिवृत्तप्रदेशेन ग्रहाकाशगोल एव स्वसमसूत्रेण आकृष्यत इति न अनुपपत्ति:। अतएव स्वमार्गगा इति क्रान्तिवृत्तानुसृतस्वाकाशगोलस्थकक्षामार्गगता इत्यर्थकमुक्तम् इति संक्षेप:।।25।।

अथात एव ग्रहाणां लोके प्राग्गतित्वं सिद्धमित्यत आह—

प्राग्गतित्वमतस्तेषां भगणै: प्रत्यहं गति:।
परिणाहवशाद् भिन्ना तद्वशाद् भानि भुञ्जते।।26।।

अतोऽवलम्बनादेव तेषां ग्रहाणां प्राग्गतित्वं प्राच्यां दिशि गतिर्येषां ते प्राग्गतयस्तद्भाव: प्राग्गतित्वं सिद्धम्। लम्बनस्वरूपा एव ग्रहाणां पूर्वगतिरुत्पन्ना लौके: कारणानभिज्ञै: प्रत्यक्षावगततया तच्छक्तििजनिता कल्पिता इत्यर्थ:। या कियतीत्यत आह-भगणैरिति। वक्ष्यमाणभगणै: प्रत्यहं प्रतिदिनं गति: प्राग्गमनरूपा भगणानां गत्युत्पन्नत्वाद् भगणसम्बन्धिवक्ष्यतमाणदिनै: सूर्यसावनैर्ग्रहभगणा लभ्यन्ते तदा एकेन दिनेन केत्यनुपातात् ज्ञेया। ननु ग्रहभगणानां तुल्यत्वाभावात् प्रतिदिनं ग्रहगतिर्भिन्नेति पूर्वं लम्बनरूपा ग्रहगति: अयुक्तोक्ता ग्रह लम्बनस्य अभिन्नत्वादित्यत आह-परिणाहवशादिति। परिणाह: कक्षापरिधिस्तद्वशात् तदनुरोधादियं ग्रहगतिर्भिन्ना तुल्या। अयमभिप्राय:। ग्रहाणां लम्बनं तुल्यप्रदेशेन परन्तु स्वस्वकक्षायां तत्प्रदेशे तुल्ये या: कला: ता: गतिकला: वास्तु महति कक्षावृत्तेऽल्पा लघुकक्षावृत्ते बहव्य: सर्वकक्षापरिधीनां चक्रकलांकितत्वात्। भगणास्‍तु गतिवशादेव यस्य कक्षावृतं महत् तस्य अल्पा यस्य च लघु कक्षावृतं तस्य बहवस्तदुत्पन्ना गतिरपि तथेति न विरोध:। ननु एकरूपगतिं विहाय भिन्नरूपागति: कथमङ्गीकृता इत्यत आह-तदवशादिति। भिन्न गतिवशाद् भानि राशीन् नक्षत्राणि भुञ्जते ग्रहा भुञ्जन्ति इत्यर्थ: । तथा च ग्रहराश्यादिभोगज्ञानार्थमियमेव गतिरूपयुक्ता न एकरूपेति भाव:।।26।।