SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ अवशिष्टे प्राजापत्य ब्राह्ममाने आह—
मन्वन्तरव्यवस्था च प्राजापत्यमुदाहृतम्।
न तत्र द्युनिशोर्भेदो ब्राह्म: कल्प: प्रकीर्तितम्।।21।।
मन्वन्तरव्यवस्था मन्वन्तरावस्थिति:। युगानां सप्तति: सैका इत्यादिना मध्याधिकारोक्तेति चार्थ: प्राजापत्यं मानं मानज्ञैरुदाहृतमुक्तं मनूनां प्रजापति पुत्रत्वात्। ननु देवपितृमानयोर्दिनरात्रिभेदो यथोक्तस्तथा अस्मिन् माने दिनरात्रिभेद प्रतिपादनं कथं नोक्तमित्यत आह। नेति। तत्र प्राजापत्यमाने द्युनिशोर्दिनरात्र्योर्भेदो विवेको गुरुसौरचन्द्रमानवन्नास्तिम। ब्रह्ममानमाह। ब्राह्ममिति। कल्पो युगसहस्रात्मक: प्रागुक्त:। ब्रह्ममानं मानज्ञेरुक्तम्। यद्यपि पूर्वं पित्र्यबार्हत्यमानयो अनुक्तेरत्र तयोरेव निरूपणं युक्तमन्येषां निरूपणं तु पूर्वोक्त्या पुनरुक्तं तथापि पूर्वं गणिताद्युपजीव्यपरिभाषाकथनावश्यकतया गणितप्रवृत्यर्थं तेषाममानत्वेन निरूपणादत्र तु विशेषकथनार्थं मानत्वेन पुनस्तेषां निरूपणं प्रश्नोत्वेनाक्षतिकरमन्यथा प्रश्नानुपत्तेरिति दिक्।।21।।
अथ स्वोक्तमुपसंहरति—
एतत् ते परमाख्यातं रहस्यं परमाद्भुतम्।
ब्रह्मैतत् परमं पुण्यं सर्वपापप्रणाशनम्।।22।।
हे परमदैत्यश्रेष्ठ। सूर्य्यभक्तत्वात्। ते तुभ्यमेतदधुनोक्तं परं द्वितीयकथनमाख्यातं निराकांक्षत सम्पूर्णं कथितम्। पूर्वं सावशेषमुक्तं स्थितमिति त्वया प्रश्ना: कृतास्तदुत्तररूपदिंतीयकथनमिदं नि:सन्दिग्धमस्तीति तव संशया नोद्भवन्तीति भाव:। ननु मत्प्रश्नं विना पूर्वमेवेदं कथं नोक्तमित्यत आह। रहस्यमिति। कुत इत्यत आह। अद्भुतमिति। आकाशस्थग्रहनक्षत्रादिस्थितिज्ञानसम्पादकत्वादाश्चर्य्यकरमित्यर्थ:। तथा च मत्पूर्वोक्तं येन सावधानतया श्रुतं तेनैव त्वदुक्ता: प्रश्ना: कर्त्तुं शक्यास्तदुत्तरत्वेन द्वितीयं मदुक्तमिति त्वां परीक्ष्य त्वां प्रत्युक्तं रहस्यमिति भाव:। ननु अन्यशास्त्राणां ज्ञानाह्मानन्दावाप्तिरस्मान्नेत्यन्त आह। ब्रहोति। एतन्मदुक्तं ब्रह्म ब्रह्मसमं तथा चान्यशास्त्राणां ब्रह्मसमत्त्वामावेऽपि तज्ज्ञानाद् ब्रह्मानन्दावाप्रिरस्माद् ब्रह्मास्वरूपाद् ब्रह्मानन्दावाप्तौ किं चित्रमिति भाव:। कुत इदं ब्रह्मासममित्यत आह। परमिति। उत्कृष्टम्। अत्र हेतुभूतं विशेषणद्वयमाह, पुण्यं सर्वपापप्रणाशनमिति। पुण्यजनकं सर्वपापनाशकम्।।22।।
ननु अस्माद् ब्रह्मानन्दप्राप्तिरुक्ता पूर्वं ग्रहलोकप्राप्तश्चोक्ता तत्रानयो: किं फलं भवतीत्यत आह—
दिव्यं चार्क्षं ग्रहाणां च दर्शितं ज्ञानमुत्तम्।
विज्ञायार्कादिलोकेषु स्थानं प्राप्नोति शाश्वतम्।।23।।
आर्क्षं नक्षत्रसम्बन्धिज्ञानं ग्रहाणां ज्ञानम्। च्: समुच्चये। उत्तमं सर्वशास्त्रेभ्य: उत्कृष्टम्। अत्र हेतुभूतं विशेषणं दिव्यं स्वर्गलोकोत्पन्नं दर्शितं मया तुभ्यमुपदिष्टं विज्ञाय ज्ञात्वा अर्कादिलोकेषु सूर्य्यादिग्रहलोकेषु स्थानमधिष्ठानं प्राप्नोति शाश्वतं नित्यं ब्रह्मसायुज्यरूपं स्थानम्। पूर्वार्द्धस्थद्वितीयचकार: समुच्चयार्थकोऽत्रान्वेति। तथाचोभयं फलं क्रमेण भवतीति भाव:। यत्वेतत् ते परमाख्यातमित्यादिश्लोक: क्वचित् पुस्तकेऽस्मात् श्लोकात् पूर्वं नास्ति किन्तु माननिरूपणान्तस्थदिव्यं चार्क्षमित्यादिश्लोकान्ते मानाध्याय समाप्तिं कृत्वा अग्रे। यथा शिखा मयुराणां नागानां मणयो यथा तद्वद्वेदाङ्गशास्त्राणां गणितं मूर्घनि स्थितम्।।1।। न देयं तत् कृतघ्नाय वेदविप्लावकाय च। अर्थलुब्धाय मुर्खाय साहङ्काराय पापिने ।।2।। एवं विधाय पुत्रायाप्यदेयं सहजाय च। दत्तेन वेदमार्गस्य समुच्छेद: कृतो भवेत्।।3।। व्रजेतामन्धतामिस्रं गुरुशिष्यौ सुदारुणम्। तत: शान्ताय शुचये ब्राह्मणायैव दापयेत्।।4।। चक्रानुपातजो मध्यो मध्यवृत्तांशज: स्फुट:। कालेन दृक्समो न स्यात् ततो बीजक्रियोच्यते।।5।। राश्यादिरिन्दुरङ्कघ्नो भक्तो नक्षत्रकक्षया। शेषं नक्षत्रकक्षायास्त्यजेच्छेषकयोस्तयो:।।6।। यदल्पं तद्भजेद्भानां कक्षया तिथिनिघ्नया। बीजं भागादिकं तत् स्यात् कारयेत तद्धनं रवौ।।7।। त्रिगुणं शोधयेदिन्दौ जिनघ्नं भूमिजे क्षिपेत्। दृग्यमघ्नमृणं ज्ञोच्चे खरामघ्नं गुरावृणम्।।8।। ऋणं व्योमनवाघ्नं स्याद्दानवेज्यचलोच्चके। धनं सप्ताहतं मन्दे परिधीनामथोच्यते।।9।। युग्मान्तोक्ता: परिधयो ये ते नित्यं परिस्फुटा:। ओजास्तोक्तास्तु ते ज्ञेया: परबीजेन संस्कृता:।।10।। वच्मि निर्बीजकानोजपदान्ते वृत्तभागकान्। सूर्य्येन्द्वोर्मनवो दन्ता धृतितत्वकलोनिता:।।11।। वाणतर्का महीजस्य सौम्यस्याचलवाहव:। वाक्पतेरष्टनेत्राणि व्योमशीतांशवो भृगो:।।12।। शून्यर्त्तवोऽर्कपुत्रस्य बीजमेतेषु कारयेत्। बीजं खाग्न्युद्धतं शोध्यं परिध्यंशेषु भास्वत:।।13।। इनाप्तं योजयेदिन्दो: कुजस्याश्वहतं क्षिपेत्। विदश्चन्द्रहतं योज्यं सूरेरिन्द्रहतं धनम्।।14।। धनं भृगोर्भुवान्न्थ् रविघ्नं शोधयेच्छने:। एवं मान्दा: परिध्यंशा: स्फुटा: स्युर्वच्मि शीघ्रकान्।।15।। भौमस्याभ्रगुणाक्षीणि बुधस्याब्धिगुणेन्दव:। बाणाक्षा देवपूज्यस्य भार्गवस्येन्दुषड्यमा:।।16।। शनैश्चन्द्राब्धय: शीघ्रा: ओजान्ते बीजवर्जिता:। द्विघ्नं स्वं कुजभागेषु बीजं द्विघ्नमृणं विद:।।17।। अत्यष्टिघ्नं धनं (वनं) सुरेरिन्दुघ्नं शोधयेत् कवे:। चन्द्रघ्नमृणमार्कस्य स्युरेभिर्दृक्समा ग्रहा:।।18।। एतद्वीजं मया ख्यातं प्रीत्या परमया तव। गोपनीयमिदं नित्यं नोपदेश्यं यतस्तत:।।19।। परीक्षिताय शिष्याय गुरुभक्ताय साधवे। देयं विप्राय नान्यस्मै प्रतिकञ्चुककारिणे।।20।। बीजं नि:शेषसिद्धान्तरहस्यं परमं स्फुटम्। यात्रापाणिग्रहादीनां कार्य्याणां शुभसिद्धिदम् ।।21।। इत्यस्य क्वचित पुस्तके लिखितस्य बीजोपनयनाध्यायस्यान्ते लिखितो दृश्यते तत् तु न समञ्जसम्। उत्तरखण्डे ग्रहगणितनिरूपणाभावात् तन्निरूपणप्रसङ्गनिरूपणीयस्याध्यायस्य लेखनानौचित्यात् स्पष्टाधिकारे तदन्ते वास्य लेखनस्य युक्तत्वाच्च। किञ्च मानानि कति किं च तै:। इति प्रश्नाग्रे प्रश्नानामभावात् प्रश्नोत्तरभूतोत्तरखण्डेऽस्य लेखनमसङ्गतम्। अपिच। उपदेशकाले बीजाभावदग्रेऽन्तरदर्शनमनियतं कथमुपदिष्टमन्यथान्तर्भूतत्वेनैवोक्त: स्यादित्यादि विचारेण केनचिद्धृष्टेन बीजस्यार्षमूलकत्वज्ञापनायान्त्येऽत्र बीजोपनयनाध्याय: प्रक्षिप्त इत्यवगम्य न व्याख्यात इति मन्तव्यम्।।23।।
अथ मुनीन प्रति कथितसंवादस्योपसंहारमाह—
इत्युक्त्वा मयमामन्त्र्य सम्यक् तेनाभिपूजित:।
दिवमाचक्रमेऽर्कांश: प्रविवेश स्वमण्डलम्।।24।।
सूर्य्यांशपुरुषो मयासुरमामन्त्र्य सम्यक् तत्वतो ग्रहादिचरितमुपदिश्य इति। एतत् ते इत्यादि श्लोकद्वयमुक्त्वा कथयित्वा। समुच्चयार्थकश्चोऽनुसन्धेय:। दिवं स्वर्गमाचक्रमे। आक्रमणविषयं चक्रे। ननु सूर्य्यांशपुरुषस्य तदुपदेशे को वा पुरुषार्थ इत्यत आह। तेनेति। मयासुरेणाभिपूजित:। गन्धधूपादिनैवैद्यवस्त्रालङ्करणादिभि: पूजाविषयीकृत:। मयद्वारामर्त्यलोके प्रसिद्धिं सूर्य्यतुल्यत्वेन प्राप्त इति भाव:। ननु स्वर्गेऽपि किं स्थानंगत इत्यत आह-प्रविवेशोति स्वमंण्डलं सूर्यविम्बं ननु विशति स्म अधिष्ठितवान् अत्रापि समुच्चयार्थोऽनुसन्धेयश्चकार:।।24।।
अथ मयासुरावस्थां तात्कालिकीमाह—
मयोऽथ दिव्यं तज्ज्ञानं ज्ञात्वा साक्षाद् विवस्वत:।
कृतकृत्यमिवात्मानं मेने निर्धूतकल्मषम्।।25।।
अथ सूर्य्यांश पुरुषान्तर्धानानन्तरं मयासुरस्तज्ज्ञानं ग्रहर्क्षस्थित्यादिज्ञानं पूर्वोक्तं दिव्यं स्वर्गस्थं सूर्य्यात् साक्षादनन्यद्वारेत्यर्थ: सूर्य्यांशपुरुषस्य सूर्य्याभिन्नत्वं तदुत्पन्नत्वादत एव भेदेऽपि साक्षादुक्तं युक्तम्। ज्ञात्वा आत्मानं स्वं निर्धूतकल्पषं निवारितपापं कृतकृत्यं सम्पादितकार्य्यं मेने मन्यते स्म।।25।।
अथ त्वमिदं ज्ञानं कथं प्राप्तवानिति श्रोतृमुनिभि: पृष्टोमुनिस्तान् प्रति तत्रत्या अस्मत्प्रभृतय ऋषयो मयं प्रत्येतज्ज्ञानं पृष्टवन्त इत्याह—
ज्ञात्वा तमृषयश्चाथ सूर्यलब्धवरं मयम्।
परिबब्रुरुपेत्याथो ज्ञानं पप्रच्छुरादरात्।।26।।
अथ मयासुरस्य ज्ञानप्राप्त्यनन्तरमृषय: सूर्यांशपुरुषमयासुरसंवादाश्रितभूमिप्रदेशासन्न-भूमिप्रदेशस्था अस्मत्प्रभृतयो मुनययं कृतकृत्यं मयासुरं सूर्य्यलब्धवरं सूर्य्यात् प्राप्तो वरो ज्ञानप्रसादो येनैतादृशं ज्ञात्वा। उप समीपे एत्यागत्य। च: समुच्यये। परिवव्रु: वेष्टितवन्त:। अथो अनन्तरमादरादत्यन्तं साभिलाषितया तं ज्ञानं ग्रहादिचरितं पप्रच्छु: पृष्टवन्त:।।26।।
अथ मयासुर: स्वज्ञानं तत्प्रश्नकारकानस्मत्प्रभृतीन् मुनीन् प्रति कथयामासे त्याह—
स तेभ्य: प्रददौ प्रीतो ग्रहाणां चरितं महत्।
अत्यद्भुततमं लोके रहस्यं ब्रह्मसम्मितम्।।27।।
मयासुर: प्रीत: सन्तुष्ट: सन् तेभ्योऽस्मत्प्रभृतिस्य: ऋषिभ्यो ग्रहाणां स्थित्यादिज्ञानं महदपरिमेयमत एव ब्रह्मसम्मितं ब्रह्मतुल्यं लोके भूलोकेऽत्यद्भुततममत्यन्तमाश्चर्य्यकारकं श्रेष्ठमत एव प्रददौ प्रकर्षेण निर्व्याजतया दत्तवान् कथयामासेत्यर्थ:।।27।।