-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
मानाध्याय: - 14

नाक्षत्रमानम्। Nakshyatramanam

अथ क्रमप्राप्तं नक्षत्रमानं प्रसङ्गान्माससंज्ञां च आह—

भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते।
नक्षत्रनाम्ना मासास्तु ज्ञेया: पर्वान्तयोगत:।।15।।

नित्यं प्रत्यहं भचक्रभ्रमणं नक्षत्रसमूहस्य प्रवहवायुकृतपरिभ्रम:। नाक्षत्रं नक्षत्रसम्बन्धिदिनं मानज्ञै: कथ्यते। नित्यमित्यनेन चन्द्रभोगनक्षत्रभोगो नाक्षत्रमित्यस्य निरास:। भचक्रभ्रमणानुपपत्ते:। माससंज्ञा महानक्षत्रनाम्नेति। पर्वान्तयोगत: पर्वान्त: पूर्णिमान्त:। तस्य योगात् तत्सम्बन्धात् नक्षत्रसंज्ञया मासा:। तुकाराच्चान्द्रा अवगम्या: पूर्णिमान्तस्थितचन्द्रनक्षत्रसंज्ञो मासो ज्ञेय इति तात्पर्य्यार्थ:। यथा हि यद्दर्शन्तावधिकश्चान्द्रोमासस्तदभ्यन्तरस्थितपूर्णिमान्तस्थित चन्द्रनक्षत्रसंज्ञ:। चित्रासम्बन्धाच्चैत्र:। विशाखासम्बन्धाद्वैशाख:। ज्येष्ठासम्बन्धाज्ज्येष्ठ:। आषाढासम्बन्धादाषाढ:। श्रवणसम्बन्धाच्छ्रावण:। भाद्रपदासम्बन्धाद्भाद्रपद:। अश्वनीसम्बन्धादाश्विजन:। कृत्तिकासम्बन्धात् कार्तिक:। मृगशीर्षसम्बन्धान्मार्गशीर्ष:। पुष्यसम्बन्धात् पौष:। मघासम्बन्धान्माघ:। फाल्गुनीसम्बन्धात् फाल्गुन इति।।15।।

ननु पूर्णिमान्ते तत्तन्नक्षत्राभावे कथं तत्संज्ञा मासानामुचितेत्यत आह—

कार्तिक्यादिषु संयोगे कृत्तिकादि द्वयं द्वयम्।
अन्त्योपान्त्यौ पञ्चमश्च त्रिधा मासत्ररा स्मृतम्।।16।।

नक्षत्रसंयोगार्थमिति निमित्तसप्तमी। कार्तिक्यादिषु कार्तिकमासादीनां पौर्णमासीष्वित्यर्थ:। कृत्तिकादि द्वयं द्वयं नक्षत्रं कथितं कृतिकारोहिणीभ्यां कार्त्तिक:। मृगार्द्राभ्यांमार्गशीर्ष:। पुनर्वसुपुष्याभ्यां पौष:। अश्लेषामघाभ्यां माघ:। चित्रास्वातीभ्यां चैत्र:। विशाखानुराधाभ्यां वैशाख:। ज्येष्ठामूलाभ्यां ज्येष्ठ:। पूर्वोत्तराषाढाभ्यामाषाढ:। श्रवणधनिष्ठाभ्यां श्रावण इति फलितम्। अवशिष्टमासानाह। अन्त्योपान्त्याविति। अत्र कार्तिकस्यादित्वेन ग्रहादन्त्य आश्विन:। उपान्त्यो भाद्रपद:। एतौ मासौ पञ्चम: फाल्गुन:। चकार: समुच्चय इति। मासत्रयं त्रिधा स्थानत्रय उक्तम्। रेवत्यश्विनीभरणीति नक्षत्रत्रयसम्बन्धादाश्विन:। शततारापूर्वोत्तराभाद्रप्रदेशि नक्षत्रत्रयसम्बन्धाद्भाद्रपद:। पूर्वोत्तराफाल्गुनीहस्तेति नक्षत्रत्रयांतसम्बन्धात् फाल्गुनं इति सिद्धम्।।16।।

अथ प्रसङ्गात् कार्त्तिकादिबृहस्पतिवर्षाण्याह—

वैशाखादिषु कृष्णे च योगात् पञ्चदशे तिथौ।
कार्तिकादीनि वर्षाणि गुरोरस्तोदयात् तथा।।17।।

यथा पौर्णमास्यां नक्षत्रसम्बन्धेन तत्संज्ञो मासो भवति। तथेति समुच्चयार्थकम्। बृहस्पते: सूर्य्यसान्निध्यदूरत्वाभयामस्तादुदयाद्वा वैशाखादिषु द्वादशसु मासेषु कृष्णपक्षे पञ्चदशे तिथौ। अमायामित्यर्थ:। चकार: पौर्णमासीसम्बन्धात् समुच्चयार्थक:। योगो दिननक्षत्रसम्बन्ध: कार्तिकादीनि द्वादशवर्षाणि भवन्ति। वैशाखकृष्णपक्षपञ्चदश्याममारूपायां बृहस्पतेरस्त उदये वा जाते सति तदादि बृहस्पतिवर्षं कृत्तिकादिनक्षत्रसम्बन्धात् कार्तिकसंज्ञम्। एवं ज्येष्ठाषाढश्रावण भाद्रपदाश्विनकार्तिकमार्गशीर्षपौषमाघफाल्गुनचैत्रामासु मृगपुष्यमघापूर्वाफाल्गुनीचित्राविशाखाज्येष्ठापूषाश्रवणयूभाश्विन्यादिनक्षत्रसम्बन्धान्मार्गशीर्षादीनि भवन्ति। अत्रापि प्रोक्तनक्षत्रद्वयत्रयसम्बन्ध: प्रागुक्तो बोध्य:। अनेनेत्युपलक्षणम्। तेन यद्दिने बृहस्पतेरुदयोऽस्तो वा तद्दिने यच्चन्द्राधिष्ठितनक्षत्रं तत्संज्ञं बार्हस्पत्यं वर्षं भवतीति तात्पर्य्यम्। संहिताग्रन्थेऽस्तोदयवशाद्वर्षोक्ति: परमिदानीमुदयवर्षव्यवहारो गणकैर्गण्यते येनोदितेज्य इत्युक्तेरिति।।17।।