सूर्यसिद्धान्त:
मध्यमाधिकार:-1


मङ्गलाचरणम् | Mangalacharanam

अचिन्त्याव्यक्तरूपाय निर्गुणाय गुणात्मने।
समस्तजगदाधार-मूर्तये ब्रह्मणे नम:।।1।।

गूढार्थप्रकाशिका—

यत् स्मृत्याभीष्टकार्यस्य निर्विध्नां सिद्धिमेष्यति।
नरस्तं बुद्धिदं वन्दे वक्रतुण्डं शिवोद्भवम्।।1।।
पितरौ गोणिवल्लालौ जयतोऽम्बाशिवात्मकौ।
याभ्यां पंचसुता जाता ज्योति:संसारहेतव:।।2।।
सार्वभौमजहाँगीरविश्वासास्पदभाषणम्।
यस्य तं भ्रातरं कृष्णं बुधं वन्दे जगद्गुरूम्।।3।।
नानाग्रन्थान् समालोच्य सूर्यसिद्धान्तटिप्पणम्।
करोमि रङ्गनाथोऽहं तद्गूढाथर्प्रकाशकम्।।4।।

अथ ग्रहादिचरितजिज्ञासून् मुनींस्तत्प्रश्नकारकान् प्रति स्वविदितं यथातत्त्वं सूर्यांशपुरूषमयासुरसंवादं वक्तुकाम: कश्चिदृषि: प्रथममारम्भणीयतत्कथननिर्विध्नसमाप्त्यर्थं कृतं ब्रह्मप्रणाममङ्गलं शिष्यशिक्षायै निबध्नाति। ब्रह्मणे बृहत्वादपरिच्छिन्नत्वाज्जगद्व्यापकाय ईश्वराय तस्मात् वा एतस्मादात्मन आकाश: सम्भूत इत्यादि श्रुतिप्रतिपाद्यायेत्यर्थ:। नम: कायवाक् चेष्टोपपलक्षितेन मानसेन्द्रियबुद्धविशेषेण मत्तस्त्वमुत्कृष्टस्त्वत्तोऽहमपकृष्ट इत्यादिरूपेण नतोऽस्मीत्यर्थ:। ननु व्यापकत्वेनाकाशस्यैव सिद्धिरत आह। समस्तजगदाधारमूर्तय इति। समस्तस्य स्थावरजङ्गमात्मकस्य जगत उत्पत्तिस्थिधतिविनाशवत् आधारा आश्रयभूता ब्रह्मविष्णुशिवरूपा मूर्तय: स्वरूपाणि यस्य तस्मै ब्रह्मविष्णुशिवात्मकायेत्यर्थ:। आकाशस्य तदात्मकत्वाभावान्न सिद्धिरिति भाव:। नन्वेतादृशस्य स्वरूपध्यानं कर्तुं समुचितमित्यत आह। अचिन्त्याव्यक्तरूपायेति। अचिन्त्यश्चासावव्यक्तरूपस्तस्मै। अचिन्त्यो ध्यानाविषय:। अत्र हेतुरव्यक्तरूप:। न व्यक्तं प्रकटं रूपं स्वरूपं तथा च स्वरूपध्यानासम्भवान्नमस्कार एव समुचित इति भाव:। नन्वव्यक्तरूप: कथमित्यत आह। निर्गुणायेति। निर्गता गुणा: सत्वरजस्तमोरूपा यस्मात् तस्मै गुणातीतायेत्यर्थ:। तथा च गुणात्मकस्य व्यक्तरूपत्वेनायं तदभावादव्यक्तरूप इति भाव:। नन्वेवमस्यारूपित्वमेव फलितं नाव्यक्तरूपित्वमित्यत आह। गुणात्मन इति। गुणा नित्यज्ञानसुखादय आत्मगुणा आत्मस्वरूपं यस्य तस्मै नित्यज्ञानसुखाय। सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतेरित्यर्थ:। तथा चास्य रूपित्वमसिद्धमिति भाव:। साक्षान्निर्गुणाय परम्परया गुणात्मने। कथमन्यथा जगत्कर्त्तृत्वं सम्भवति। प्रकृतिं स्वामवष्टभ्य विसृजामि पुन: पुन:। भूतग्राममिमं कृत्स्नमवश: प्रकृतेर्वशात्।। इति भगवदुक्तेरित्यन्ते ।।1।।