-:Rashtriya Sanskrit Sansthan:-


SURYASIDDHANT

(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)


Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor

Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,


National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)

Principal Investigator
Prof. Sarva Narayan Jha


Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow



सूर्यसिद्धान्त
मानाध्याय: - 14


सौरमानस्य।Souramanasya

अथ सौरेण व्यवहारं प्रदर्शयति—

सौरेण द्युनिशोर्मानं षडशीतिमुखानि च।
अयनं विषुवच्चैवं संक्रान्ते: पुण्यकालता।।3।।

अहोरात्र्योर्मानं सौरेण ज्ञेयम्। प्रात्यहिकसूर्य्यगतिभोगादहोरात्रं भवतीत्यर्थ:। षडशीतिमुखानि वक्ष्यमाणानि च: समुच्चये। तेन सौरमानेन ज्ञेयानि। अयनं विषुवत्। च: समुच्चये। संक्रान्ते: पुण्यकालता सूर्य्यविम्बकलासम्बद्धा सौरमानेन।।3।।

संक्रान्तिविचार:।

अथ षडशीतिमुखमाह—

तुलादिषडशीत्यह्नां षडशीतिमुखं क्रमात्।
तच्चतुष्टयमेव स्यात् द्विस्वभावेषु राशिषु।।4।।

तुलारम्भात् षडशीतिदिवसानां सौराणां षडशीतिमुखं भवति। तच्चतुष्टयं षडशीतिमुखस्य चतु:संख्या द्विस्बभावेषु राशिषु चतुर्षु क्रमादेवं वक्ष्यमाणा भवति।।4।।

तदेवाह—

षड्विंशे धनुषो भागे, द्वाविंशऽनिमिषस्य च।
मिथुनाष्टादशे भागे कन्यायास्तु चतुर्दशे।।5।।

धनूराशे: षड्विंशतितमेऽशे षडशीतिमुखं मीनराशेर्द्वाविंशतितमेऽशे षडशीतिमुखम्। चकार: समुच्चयार्थक: प्रत्येकमन्वेति। मिथुनराशेरष्टादशेंऽशे षडशीतिमुखं कन्यायाश्चतुर्दशे भागे षडशीतिमुखम्। अतएव तुलादित: षडशीत्यंशो गणनया येषु राशिषु भवति ते राशयो द्विस्वभावा: षडशीतिमुखसंज्ञा: संक्रान्तिप्रकरणे सांहितिकैरुक्ता:।।5।।

अथ षडशीत्यंशगणनया चत्वारि षडशीतिमुखान्युक्त्वा भगणांशपूर्त्यर्थमवशिष्टांशा: षोडशातिपुण्या इत्याह—

तत: शेषाणि कन्याया यान्यहानि तु षोडशं।
क्रतुभिस्तानि तुल्यानि पितृणां दत्तमक्षयम्।।6।।

तत: कन्यादिचतुर्दशभागानन्तरं शेषाणि भगणभागेऽवशिष्टानि कन्याया यान्यहानि सौरभागसमानि षोडश तानि। तुकारात् पूर्वदिनासमानि क्रतुभिर्यज्ञै: समानि। अतिपुण्यानीत्यर्थ:। तत्र पितृणां दत्तं श्राद्धादिकृतमक्षयमनन्तफलदं भवति।।6।।

अथ राश्यधिष्ठितक्रान्तिवृत्ते चत्वारि स्थानानि पदसन्धिस्थाने विषुवायनाभ्यां प्रसिद्धानीत्याह—

भचक्रनाभौ विषुवद्द्वितयं समसूत्रगम्।
अयनद्वितयं चैव चत: प्रथितास्तु ता:।।7।।

भचक्रनाभौ भगोलस्य ध्रुवद्वयाभ्यां तुल्यान्तरेण मध्यभागे विषुवद्द्वितीयं विषुवद्द्वयं समसूत्रगं परस्परं व्यास-सूत्रान्तरितं ध्रुवमध्ये विषुवद्वृत्तावस्थानात् तद्वृत्ते क्रान्तिवृत्तभागौ यौ लग्नौ तौ क्रमेण पूर्वापरौ विषुवत्संज्ञौ मेषतुलाख्यौ चेत्यर्थ:। अयनद्वितयमयनद्वयं कर्कमकरादिरूपम्। च: समुच्चये। तेन समसूत्रगंता विषुवायनाख्या: क्रान्तिवृत्तप्रदेशरूपा भूमयश्चतस्रश्चतु: संख्याका: प्रथिता गणितादौ पदादित्वेन प्रसिद्धा:। एवकारदन्यराशीनां निरास:। तुकारात् तासां समसूत्रस्थत्वेऽपि विषुवायनत्वाभावात् पदादित्वेनाप्रसिद्धिरित्यर्थ:।।7।।

अथ अवशिष्टनामादिस्वरूपमन्यदप्याह—

तदन्तरेषु संक्रान्तिद्वितयं पुन:।
नैरन्तर्यात् तु संक्रान्तेर्ज्ञेयं विष्णुपदीद्वयम्।।8।।

तदन्तरेषु विषुवायनान्तरालेषु। अत्रान्तरालानां चतु: स्थाने सद्भावाद्बहुवचनम्। संक्रान्तिद्वितयं पुन: राश्यादिभागे ग्रहाणामाक्रमणं वारद्वयं भवति तदन्तराले राश्यादिभागौ द्वौ भवत इत्यर्थ:। यथा हि मेषाख्यविषुवकर्काख्यायनयोरन्तराले वृषमिथुनयोरादी। कर्कतुलयोरन्तराले सिंहकन्योरादी। तुलामकरयोरन्तराले वृश्चिकधनुषोरादी मकरमेषयोरन्तराले कुम्भमीनयोरादी इति। एवं विषुवानन्तरं संक्रमणद्वयमनन्तरमयनं तदनन्तरं संक्रान्तिद्वयं तदनन्तरं विषुवमनन्तरं संक्रान्तिद्वयमनन्तरमयनमित्यादि पौन: पुन्येन ज्ञेयमित्यर्थ:। संक्रान्तिद्वयमध्ये प्रथमसंक्रान्तौ विशेषमाह। नैरन्तर्य्यादिति। निरन्तरतया सम्भूताया: संक्रान्ते: सकाशाद्विष्णुपदीद्वयं तदन्तराल इति त्वर्थ:। अवगम्यं प्रथमसंक्रान्तिर्विष्णुपदसंज्ञा तयोद्वयं तदभ्यन्तरे प्रत्येकं भवतीति तात्पर्य्यार्थ:। षडशीतिसंज्ञं द्वितीयसंक्रमणं पूर्वसूचितं तयोरपि द्वयं तदन्तराले भवतीति ध्येयम्।।8।।