SURYASIDDHANT
(Under the Project of content Generation with a view to develop E-Databank,
E-Learning and E-Sources of Sanskrit Text.)
Chief Director
Prof. Radha Vallabh Tripathi
Vice Chancellor
Director
Prof. Sarva Narayan Jha
Acting Principal, Rashtriya Sanskrit Sansthan, Lucknow Campus,
National Coordinator
Dr. Sukala Mukherjee
Project Officer
(RSKS, New Delhi)
Principal Investigator
Prof. Sarva Narayan Jha
Department Of Jyotish
Rashtriya Sanskrit Sansthan,
(Deemed University)
Lucknow Campus, Lucknow
अथ मानानि कति किञ्च तैरित्यवशिष्टप्रश्नस्योत्तरभूत आरब्धमानाध्यायो व्याख्यायते। तत्र प्रथमं मानानि कतीति प्रथमप्रश्नस्योत्तरमाह—
ब्राह्मं दिव्यं तथा पित्र्यं प्राजापत्यं च गौरवम्।
सौरञ्च सावनं चान्द्रमार्क्षं मानानि वै नव।।1।।
वै निश्चयेन। नवसंख्याकानि कालमानानि। तत्र प्रथमं ब्राह्ममानम्। कल्पो ब्राह्ममह: प्रोक्तम्। इत्यादि। परमायु: शतं तस्य तयाहोरात्रसंख्यया। इत्यन्तं मध्यमाधिकारे प्रतिपादितम्। द्वितीयं दिव्यं देवमानम्। दिव्यं तदह उच्यते। इत्यादि। तत्षष्टि: षड्गुणादिव्यं इत्यन्तं तत्रैव प्रतिपादितम्। तथा तृतीयं मानं पित्र्यं पितृणां मानं वक्ष्यमाणम्। प्राजापत्यं मानं वक्ष्यमाणं चतुर्थम्। बृहस्पतेस्तथा मानं पञ्चमं समुद्रीटितम्। सौरं चकारात् षष्ठं मानम्। सावनं सप्तमं मानम्। चान्द्रमानमष्टमम्। नाक्षत्रं मानं नवमम्। एतन्यपि तत्रैवोक्तानि।।।।।
अथ किञ्चित्तैरिति तैरिति द्वितीयप्रश्नस्योत्तरं विवक्षु: प्रथमं व्यवहारोपयुक्तमानानि दर्शयति—
चतुर्भिर्व्यवहारोऽत्र सौरचान्द्रार्क्षसावनै:।
बार्हस्प्त्येन षष्ट्यब्दं ज्ञेयं नान्यैस्तु नित्यश:।।2।।
अत्र मनुष्यलोके सौरचान्द्रनाक्षत्रसावनैश्चतुर्भिर्मानैर्व्यवहार: कर्मघटना। षष्ट्यब्दं प्रभवादिषष्टिवर्षं जात्यभिप्रायेणैकवचनम्। बार्हस्पत्येन बृहस्पतिमा बृहस्पतिमध्यमराशिभोगात्मककालेन प्रत्येकं ज्ञेयम्। अन्यैरवशिष्टैर्बाह्मदिव्य्पित्र्यप्राजापत्यै:। नित्यश: सदेत्यर्थ:। व्यवहारो नास्ति। तुकारात् कादाचित्कत्वेन तैर्व्यवहार:।।2।।